भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.150

1.150.1

मार्कण्डेय उवाच ॥
आलोकयन्नदीं पुण्यां तत्समीरहतक्लमः ॥
स गच्छन्नेव ददृशे हिमवन्तं महागिरिम्

1.150.2

खमुल्लिखद्भिर्बहुभिर्वृतं शृङ्गैः सुपाण्डुरैः॥
पक्षिणामथ संचारैर्विना सिद्धगतिं शुभाम्

1.150.3

नदीप्रपातसंजातमहाशब्दैः समन्ततः ॥
असंश्रुतान्यशब्दन्तं शीततोयं मनोरमम्

1.150.4

देवदारुवनैर्नीलैः कृताधोवसनं शुभम् ॥
मेघोत्तरीयं तं शैलं ददृशे स नराधिपः

1.150.5

श्वेनमेघकृतोष्णीषं चन्द्रार्कमुकुटं क्वचित् ॥
हिमानुलिप्तसर्वाङ्गं क्वचिद्धातुविचित्रितम्

1.150.6

चन्दनेनानुलिप्ताङ्गदत्तपञ्चाङ्गुलिं यथा ॥
शीतप्रदं निदाघेऽपि शिलाविषमसंकटम्

1.150.7

सालक्तकैरप्सरसां मुद्रितं चरणैः क्वचित् ॥
क्वचिदस्पृष्टसूर्यांशुं क्वचिच्च तमसा वृतम्

1.150.8

दरीमुखैः क्वचिद्भीमैः पिबन्तमनिलं बहु ॥
क्वचिद्विद्याधरगणैः क्रीडद्भिरुपशोभितम्

1.150.9

उपगीतं तथा मुख्यैः किन्नराणां गणैः क्वचित् ॥
आपानभूमौ च गणैर्गन्धर्वाप्सरसां क्वचित्

1.150.1.150.10

गीतादिभिः समाकीर्णं गन्धर्वीणां मनोहरम् ॥
निरुद्धपवनैर्देशैर्नीलशाद्वलमण्डितैः

1.150.11

क्वचिच्च कुसुमैर्युक्तं चात्यन्तरुचिरैः शुभम् ॥
तपस्विशरणं शैलं कामिनामपि दुर्लभम्

1.150.12

मृगयूथानुचरितं दन्तिभिन्नमहाद्रुमम् ॥
यत्र सिंहनिनादेन त्रस्तानां भैरवं रवम्

1.150.13

श्रुत्वोत्पश्यति विभ्रान्तं गजानामाकुलं कुलम् ॥
तपश्च तापसैर्यस्य कूलदेशेष्वलंकृतम्

1.150.14

रत्नैर्यतः समुत्पन्नैस्त्रैलोक्यं चाप्यलंकृतम् ॥
अहीनशरणं नित्यमहीनजनसेवितम्

1.150.15

अहीनः पश्यति गिरिमहीनं रत्नसम्पदम् ॥
अल्पेन तपसा यत्र सिद्धिः प्राप्येत तापसैः

1.150.17

यश्च दर्शनमात्रेण सर्वकल्मषनाशनः ॥
महाप्रपातसंपातप्रभीतखगबन्धुभि. । १६ ॥
वायुनीत सदावृष्टिः कृतदेशं क्वचित्क्वचित् ॥
अलब्धजलदैः शृङ्गैः क्वचिच्चातिसमुच्छ्रितैः

1.150.18

नित्यार्कतापविषमैरगम्यैर्मनसा युतम् ॥
देवदारु महावृक्षपुञ्जशाखानिरन्तरैः

1.150.19

समस्तभुवनाकारैः प्रदेशैरुपशोभितम् ॥
हिमच्छन्नमहाशृंगं प्रपातमितनिर्झरम् ॥
शब्दलभ्याम्बुविषमं हिमसंरुद्धकन्दरम्

1.150.1.150.20

दृष्ट्वैव तां चारुनितम्बभूमिं महानुभावः स महीन्द्रनाथः ॥
बभ्राम तत्रैव मुदा समेतः स्थानं ततः किञ्चिदथा ससाद

1.150.150

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे हिमवद्वर्णनो नाम पञ्चाशदुत्तरशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc