विष्णुधर्मोत्तरपुराणम् · अध्याय 1.149
मार्कण्डेय उवाच ॥
स ददर्श नदीं पुण्यां रम्यां हैमवतीं शुभाम् ॥
गन्धर्वगणसंकीर्णां नित्यं शक्रेण सेविताम्
सुरेभमदसिंदूरैर्यस्यां राजिर्विराजते ॥
मध्येन शक्रचापाभा तस्यां मज्जति सर्वदा
तपस्विशरणायातां मुख्यब्राह्मणसेविताम् ॥
ददर्श शीतपानीयां महाराजः पुरूरवाः
प्लुतहंसावलीछन्नां काशचामरवीजिताम् ॥
साभिषेकामिव स तां पश्यन्प्रीतिं परां ययौ
पुण्यां सुशीतलां हृद्यां मनसः प्रीतिवर्धिनीम् ॥
क्षयवृद्धियुतां सौम्यां सोममूर्तिमिवापराम्
सुशीतशीघ्रपानीयां द्विजपुञ्जनिषेविताम् ॥
सुतां हिमवतः श्रेष्ठां चञ्चद्वीचिविराजिताम्
अमृतस्वादुसलिलां तापसैरुपशोभिताम् ॥
स्वर्गारोहणनिःश्रेणीं सर्वकल्मषनाशिनीम्
अग्र्यां समुद्रमहिषीं महिषीगणगाहिताम् ॥
हितां सर्वस्य लोकस्य कस्य नौत्सुक्यकारिणीम्
गोकुलाकुलतीरां तां रम्यां शैवालवर्जिताम् ॥
हंससारससंघुष्टैर्जलजैः सेवितां शुभैः
आवर्तनाभिगम्भीरां द्वीपोरुजघनस्थलाम् ॥
नीलनीरजनेत्रां तामुत्फुल्लकमलाननाम्
हिमाभफेनवसनां चक्रवाकाधरां शुभाम् ॥
बलाकापङ्क्तिदशनां चलन्मत्स्यावलिभ्रुवम्
स्वजलोद्धतमातङ्गरम्यकुम्भपयोधराम् ॥
हंसनूपुरसंघुष्टां मृणालवलयावलीम्
यस्यां रूपमदोन्मत्तगन्धर्वानुगतः सदा ॥
मध्याह्नसमये राजन्क्रीडत्यप्सरसां गणः
तामप्सरोविनिर्मुक्तान्वहन्ती कुसुमाञ्शुभान् ॥
स्वतीरद्रुमसंभूतान्नानावर्णान्सुगन्धिनः
तरङ्गशतसंक्रान्तसूर्यमण्डलदुर्दशम् ॥
सुरेभजनिताघातवप्रद्वयविभूषिताम्
शक्रेभगण्डसलिलैर्देवस्त्रीकुच चन्दनैः ॥
संयुतं सलिलं यस्याः षट्पदैरुपसेव्यते
यस्यास्तीरभवा वृक्षाः सुगन्धिकुसुमान्विताः ॥
तथा प्रकृष्टभ्रमरा भ्रमरैस्ते निराकुलाः
यस्यास्तीरे रतिं यान्ति सदा कामवशानुगाः ॥
तपोधनाश्च ऋषयस्तथा देवाः सवासवाः
लभन्ते यत्प्लुताङ्गास्तु देवेभ्यः प्रतिमाननाः ॥
स्त्रियश्च नाके बहुलाः पद्मेन्दुप्रतिमाननाः
या बिभर्ति सदा तोयं देवसंघैरपीडितम् ॥
पुलिन्दमृगवृन्दैश्च व्याधसंघैरपीडितम्
सतामरसपानीयां सतारागगनामलाम् ॥
स तां पश्यन्ययौ राजा सतामीप्सितकामदाम्
यस्यास्तीररुहैः काशैः फुल्लैश्चन्द्रांशुसन्निभैः ॥
राजद्भिर्विवृताकाशै रम्यैस्तत्क्षीरसंस्थितैः
या च सदा दिवि सेव्यति देवैर्या च सदा भुवि सेव्यति विप्रैः ॥
या च सदा सकलाघविनाशं भक्तजनस्य करोत्यचिरेण
या च गता सरितां हि कदम्बैर्या च नुता सततं हि महीनैः ॥
या च युता शततोयकदम्वैर्या च गता सततं हिमहीनैः
युक्तापि केसरिगणैः करिवृन्दयाता सन्नागयुक्तसलिलापि सुवर्णयुक्ता ॥
सूर्यांशुतापपरिवृद्धिविवृद्धिशीला शीतांशुतुल्ययशसा ददृशे नृपेण
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे इरावतीवर्णनो नामैको नपञ्चाशदुत्तरशततमोऽध्याय
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0