भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.15

1.15.1

॥ मार्कण्डेय उवाच ॥
इक्ष्वाकोरभवत्पुत्रो विकुक्षिर्न्नाम धार्मिकः ॥
ककुत्स्थस्तनयस्तस्य चानेनास्तस्य चात्मजः

1.15.2

तस्य पुत्रः पृथुः श्रीमान् विश्वदासस्तदात्मजः ॥
तस्य श्रावस्तको नाम श्रावस्ती येन निर्मिता

1.15.3

बृहदश्वः सुतस्तस्य कुवलाश्वस्तदात्मजः ॥
कुवलाश्वो महातेजा धुन्धुमारत्वमागतः ॥
धुंधुं हत्वा महाकायमुदके जलराक्षसम्

1.15.4

वज्र उवाच ॥
कथं धुंधुर्महातेजाः कुवलाश्वेन घातितः ॥
कश्चायं धुंधुरित्येष विश्रुतो जलराक्षसः

1.15.5

मार्कण्डेय उवाच ॥
एकार्णवे पुरा लोके नष्टस्थावरजङ्गमे

1.15.6

नष्टचन्द्रार्कपवने विनष्टग्रहतारके ॥
शेषपर्यङ्कमासाद्य सुप्तो देवो जनार्दनः

1.15.7

नाभौ तस्य समुत्पन्नं देवस्य कमलं शुभम् ॥
तत्र जज्ञे स्वयं ब्रह्मा देवः शुभचतुर्मुखः

1.15.8

तत्रास्ते सोऽभ्यसन्वेदान्सुप्ते देवे जनार्दने ॥
उपासांचक्रिरे तस्य वेदा देहभृतस्तथा

1.15.9

वेदाभ्यासरते तत्र स्वेदबिन्दुरजायत ॥
सपद्मपत्रमासाद्य द्विधाभूतोभवन्नृप

1.15.1.15.10

रजस्तमोमयौ तस्माज्जातौ दैत्यौ बलोत्कटौ ॥
मधुकैटभनामानौ महाबलपराक्रमौ

1.15.11

ततस्तौ जह्रतुर्वेदान्ब्रह्मणः पापनिश्चयौ ॥
सशरीरेषु वेदेषु हतेष्वथ पितामहः

1.15.12

बोधयामास देवेशं पद्मनाभं स चानघः ॥
स विबुद्धस्तदा देवः कृत्वा हयशिरोधरम्

1.15.13

शशाङ्कशतसंकाशं नानाभरणशोभितम् ॥
द्वितीयेन शरीरेण रसातलतलं गतः

1.15.14

तेनाश्वशिरसा गत्वा वेदानादाय शाश्वतान् ॥
पितामहाय प्रददौ भूय एव जगद्गुरुः

1.15.15

ततो हयशिरोधारी गतोन्तर्धानमीश्वरः ॥
आजग्मतुस्ततो देशं दानवौ मधुकैटभौ

1.15.16

विष्णुश्चकार देहौ द्वौ विष्णुर्जिष्णु रिति स्मृतौ ॥
मधुना युयुधे जिष्णुर्विष्णुर्वै कैटभेन च

1.15.17

ततस्तयोः सुयुद्धेन तुष्टो देवो जनार्दनः ॥
उवाच तौ महाकायौ दानवौ मधु कैटभौ

1.15.18

वरं वरयतां श्रेष्ठं भवन्तावपराजितौ ॥
तावब्रूतां ततो देवं विष्णुं कमललोचनम्

1.15.19

पुत्रोऽस्माकं भवेद्देव महाबलपराक्रमः ॥
पुत्रे जाते तु यौ तौ द्वौ विष्णुना जिष्णुना पुरा

1.15.1.15.20

निहतौ च तदा वीरौ ह्युदकं च समाश्रितौ ॥
मेदो मुमुचतुस्तत्र व्याप्ता येनाभवन्मही ॥

1.15.21

मेदिनीति ततः ख्याता लोकेऽस्मिंस्तत्त्वचिन्तकैः ॥
वराहरूपेण तदा चोद्धृता वसुधा ततः

1.15.22

तेनैव देवदेवेन पूर्वस्थाने निवे शिता ॥
सर्गं चक्रे ततो ब्रह्मा देवदेवस्य शासनात्

1.15.23

एवं तदा देववरस्य युद्धे निपातितौ तौ मधुकैटभाख्यौ ॥
देवस्य विष्णोः सदनं प्रयातौ क्षीरार्णवे तस्य समीपगौ च

1.15.15

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे मधुकैटभवधोपाख्यानं नाम पञ्चदशोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc