भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.14

1.14.1

॥ मार्कण्डेय उवाच ॥
वैवस्वतेन मनुना येन सा निर्मिता पुरी ॥
स तु कृत्वा चिरं राज्यमिक्ष्वाकुमभिषिच्य च

1.14.2

पुत्त्रे भारं समावेश्य सशरीरो दिवं गतः ॥
तत्रस्थः पालयन्नास्ते त्रैलोक्यं सचराचरम्

1.14.3

तेन मन्वन्तरं सर्वं पालनीयमिदं जगत् ॥
इक्ष्वाकुस्तस्य तनयः पालयामास मेदिनीम्

1.14.4

धर्मज्ञश्च कृतज्ञश्च सत्यवादी जितेन्द्रियः ॥
सुदर्शः सर्वभूतानां नयापनयकोविदः

1.14.5

ब्रह्मण्यश्च शरण्यश्च दीनानाथानुकम्पकः ॥
दैवमन्त्रप्रभूत्साह शक्तिभिश्च समन्वितः

1.14.6

षाड्गुण्यविन्महोत्साहः स्मितपूर्वाभिभाषणः ॥
युक्तदंडो न निर्दंडो न च दण्डरतिस्तथा

1.14.7

वेदवेदाङ्गतत्त्वज्ञो यज्ञयाजी तपोरतिः ॥
अक्षुद्रलीलोऽभिमतः सर्वसत्त्वो न हिंसकः

1.14.8

मान्यो मानयतां शक्यः सुखः पूज्यप्रपूजकः ॥
कामः क्रोधो मदो मानो लोभो हर्षस्तथैव च

1.14.9

नित्यं शरीरप्रभवा रिपवस्तेन षड् जिताः ॥
सर्वत्र विधिना दृश्यः सुभगः प्रियदर्शनः

1.14.11

बहुधान्यो बहुधनो बहुनागाश्वपूरुषः ॥
अयोध्यानिलयो नित्यं देवारिगणदर्पहा ॥1.14.१ ०॥
स तदा पालयामास पुत्रवत्सकलाः प्रजाः ॥
नाधर्मः कश्चिदप्यासीत्तस्मिन्राजनि मानवः

1.14.12

दीनो वा व्याधितो वापि स्वल्पायुर्वा च दुःखितः ॥
मूर्खो वा मन्दरूपो वा दुर्भगो वा निराकृतिः

1.14.13

एकत्र देहे सकलं गुणौघं द्रष्टाहमित्येव विशिष्टबुद्धिः ॥
ससर्ज यं राजवरं महात्मा प्रजापतिः सर्वजगत्प्रधानः

1.14.14

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे इक्ष्वाकुकुलवर्णनंनाम चतुर्दशोऽध्यायः॥ ।

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc