भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.16

1.16.1

॥ मार्कण्डेय उवाच ॥
भारतस्यास्य वर्षस्य भागेऽस्मिन्नवमे नृप! ॥
समुद्रो वालुकापूर्ण उज्जानक इति श्रुतिः

1.16.2

तस्य मध्ये समुद्रस्य धुन्धुप्रस्थपतेः सदा ॥
संवत्सरस्य सोन्ते तु महोच्छ्वासं प्रमुञ्चति

1.16.3

यदा तदा भूः स्खलति सशैलवनकानना।
प्राणिनो येऽल्पसत्त्वाश्च ते यान्ति यमसादनम्

1.16.4

यदा विबुद्धो भवति किञ्चिच्छेषा मही तदा ॥
आहारार्थं करोत्युग्रः पापात्मा जलराक्षसः

1.16.5

एतस्मिन्नेव काले तु चोत्तङ्कस्तप्यते तपः ॥
तपसोन्ते महात्मानं ददर्श मधुसूदनम्

1.16.6

तमुवाच हरिर्देवो वरं वरय भार्गव । ॥
उत्तंकः प्राञ्जलिर्भूत्वा तुष्टाव मधुसूदनम्

1.16.7

उवाच वरदं देवमेष एव वरो मम ॥
यदहं देवदेवस्य दृष्टवांश्चरणाम्बुजौ

1.16.8

श्रीभगवानुवाच ॥
अवश्यं ते वरो देयो मया भृगुकुलोद्वह ॥
अजरश्चामरश्चैव मत्प्रसादाद्भविष्यसि

1.16.9

यत्रेच्छसि जलं तत्र भविष्यति तथा तव ॥
देवतानां महत्कार्यं तथैव च करिष्यसि

1.16.1.16.10

आश्रमस्यास्य ते बाधां यः करोति सदानघ ॥
कुवलाश्वेन तं गत्वा धुंधु घातय मा चिरम्

1.16.11

अहं चास्य प्रवेक्ष्यामि कुवलाश्वस्य विग्रहम् ॥
तेजसा स मदीयेन धुंधुमाजौ हनिष्यति

1.16.12

न ह्यल्पतेजसा हन्तुं धुंधुः शक्यो भृगूत्तम ॥
मार्कण्डेय उवाच ॥
एतावदुक्त्वा भगवान् गतोऽन्तर्धानमीश्वरः

1.16.13

जगाम च तथायोध्यामुत्तंकोऽपि महातपाः ॥
पूजितो बृहदश्वेन बृहदश्वमभाषत

1.16.14

उतङ्क उवाच ॥
कथं निद्रासि राजेन्द्र सुखं पर्यङ्कमास्थितः ॥
धुन्धोश्चरितमालोक्य बद्धकक्षो भवाधुना

1.16.15

वचनान्मम राजेन्द्र धुंधुं हन्तुं तवास्ति भोः ॥
शक्तिः किमुद्यमाद्राज्ञां दुष्करं ते पुनः कथम्

1.16.16

जहि धुंधुं महाकायं नृपते द्विजबाधकम् ॥
श्रुत्वा मुनिवचो राजा कुवलाश्वमभाषत

1.16.17

अहं वनप्रवृत्तस्तु त्यक्तदण्डस्तथैव च ॥
जहि तं दानवश्रेष्ठं त्वमुत्तङ्केन पालितः

1.16.18

एवमुक्तः परिष्वक्तः पित्रा प्रकृतिवत्सलः ॥
उत्तङ्कसहितो गत्वा युद्धायोदकराक्षसम्

1.16.19

युयुधे तं च धर्मात्मा धुंधुं तेनैव केशवः ॥
उतङ्कानुमते पश्चाद्ब्रह्मास्त्रेण जघान तम्

1.16.1.16.20

हत्वा तं राक्षसं लेभे त्रिदशेभ्यस्तदा वरान् ॥
कृष्णे भक्तिं स्थितिं धर्मे वासं स्वर्गे तथाक्षयम्

1.16.21

मधुकैटभयोः पुत्रं घातयित्वा नराधिप ॥
धुन्धुमारत्वमगमदशोभत तथा पुरीम्

1.16.22

तस्मिन्हते दैत्यवरे प्रसन्ना दिशो बभूवुर्मुदिताश्च देवाः ॥
विनष्टविघ्नं च जगत्तदास राजा च कीर्तिं परमामवाप

1.16.16

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे धुंधुमारोपाख्यानं नाम षोडशोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc