विष्णुधर्मोत्तरपुराणम् · अध्याय 1.148
॥ वज्र उवाच ॥
चरितं बुधपुत्रस्य मार्कण्डेय मया श्रुतम् ॥
श्रुतः श्राद्धविधिः पुण्यः सर्वपापप्रणाशनः
धेन्वाः प्रसूयमानायाः फलं दाने तथा श्रुतम् ॥
कृष्णाजिनप्रदानं च वृषोत्सर्गस्तथैव च
श्रुत्वा रूपं नरेन्द्रस्य बुधपुत्रस्य भार्गव ॥
कौतूहलं समुत्पन्नं तन्ममाचक्ष्व पृच्छतः
केन कर्मविपाकेन स तु राजा पुरूरवाः ॥
अवाप तादृशं रूपं सौभाग्यमपि चोत्तमम्
देवांस्त्रिभुवन श्रेष्ठान्गन्धर्वांश्च मनोरमान् ॥
उर्वशी संगता त्यक्त्वा सर्वभावेन तं नृपम्
मार्कण्डेय उवाच ॥
शृणु कर्मविपाकेन येन राजा पुरूरवाः ॥
पुरूरवा इति ख्यातो मद्रेष्वासीन्महीपतिः
चाशुषस्यान्वये जातश्चाक्षुषस्यान्तरे मनोः ॥
सर्वैर्नृपगुणैर्युक्तः केवलं रूप वर्जितः
वज्र उवाच ॥
पुरूरवा मद्रपतिः कर्मणा केन भार्गव ॥
बभूव कर्मणा केन कुरूपश्च तथा द्विज
मार्कण्डेय उवाच ॥
द्विजग्रामे द्विजश्रेष्ठो नाम्नैवाऽऽसीत्पुरूरवाः ॥
नद्याः कूले महाराज पूर्वजन्मनि पार्थिवः
स तु मद्रपतिर्नाम्ना योऽभूद्राजा पुरूरवाः ॥
अस्मिञ्जन्मन्यसौ विप्रो द्वादशीषु सदानघ
उपोष्य पूजयामास राज्यकामो जनार्दनम् ॥
चकार सोपवासं च स्नानमभ्यङ्गपूर्वकम्
उपवासफलं प्राप्य राज्यं मद्रेष्वकण्टकम् ॥
उपोषितस्तदाभ्यङ्गाद्रूपहीनोऽभ्यजायत
उपोषितो नरस्तस्मात्स्नानमभ्यङ्गपूर्वकम् ॥
वर्जयेत्तत्प्रयत्नेन रूपघ्नं तत्परं नृणाम्
एतत्ते कथितं तस्य यद्वृत्तं पूर्वजन्मनि ॥
मद्रेश्वरत्वे चरितं शृणु तस्य महीपतेः
तस्य राजगुणैः सर्वैः समुपेतस्य पार्थिव ॥
जनानुरागो नैवासीद्रूपहीनस्य यादव
रूपकामः स मद्रेशस्तपसे कृतनिश्चयः ॥
राज्यं मन्त्रिगतं कृत्वा जगाम हिमपर्वतम्
व्यवसायद्वितीयस्तु पद्भ्यामेव महायशाः ॥
ऊर्ध्वं संतीर्य स नदं विषयान्ते स्वकीं नदीम् ॥
इरावतीमिति ख्यातां ददर्शातिमनोहराम्
तुहिनगिरिभवां महोघवेगां तुहिनसगर्भसमानशीतलोदाम् ॥
तुहिनसदृशवर्णफेनयुक्तां तुहिनयशाः सरितं ददर्श राजा
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे मद्रेश्वरस्य तपोवन गमनं नामाष्टचत्त्वारिंशदुत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0