विष्णुधर्मोत्तरपुराणम् · अध्याय 1.147
मार्कण्डेय उवाच ॥
आश्वयुक् कृष्णपक्षस्य पञ्चदश्यां नराधिप ॥
कार्तिकेप्यथवा मासि वृषोत्सर्गं तु कारयेत्
ग्रहणे द्वे महापुण्ये तथा चैवायनद्वयम् ॥
विषुवद्द्वितयं चैव मृताहो बान्धवस्य च
मृताहो यस्य तस्यार्थे तस्मिन्नहनि शङ्करम् ॥
सुसमिद्धे गवां मध्ये परिस्तीर्य हुताशनम्
पयसा श्रपयेद्विद्वाँश्चरुं पौष्णं समाहितः ॥
पूषा गा अन्वेतु नश्च पूष्णे हुत्वा नराधिप
इह राडिति हुत्वा च जपेद्रुद्रान्समाहितः ॥
तथैव पौरुषं सूक्तं कूष्माण्डानि नराधिप
ततः कोष्णेन वृषभमयस्कारः सुशिल्पवान् ॥
शूलेन दक्षिणे पार्श्वे वामे चक्रेण निर्दहेत्
अङ्कितं स्नापयेत्पश्चात्स्नाने तस्य तथा पठेत् ॥
हिरण्यवर्णेति ऋचश्चतस्रो मनुजेश्वर
आपो हि ष्ठेति तिस्रश्च शन्नो देवीति चाप्यथ।
वत्सतर्यश्चतस्रश्च तं वृषं च नराधिप
अलङ्कुर्यात्ततः पश्चाद्गन्धमाल्यैश्च शक्तितः॥
किङ्किणीभिश्च रम्याभिस्तथा चीनांशुकैः शुभः
ततः कर्ता जपेन्मन्त्रमिमं प्रयतमानसः ॥
वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः ॥
वृणोमि तमहं भक्त्या स मे रक्षतु सर्वतः
एवं युवानं वृषभं ददामि गवां पतिं यूथपतिं सधर्मम् ॥
अनेन सार्धं चरत प्रकामं यथा तथा प्राप्नुत वत्सतर्यः ॥
एवं युवानं गोपतिं वो ददामि अनेन क्रीडन्तीश्चरतीः प्रियेण ॥
सहास्माभिः प्रजया मा तनूभिर्मा वधाम द्विषतं सोमराजन्
मन्त्रं पिता वत्स इति प्रतीतं जपेत कर्णे वृषभस्य सव्ये ॥
प्रचालयेत्तं वृषभं ततस्तु पूर्वां दिशं वत्सतर्यश्च सर्वाः
वासोयुगं ग्रहीतुरथ प्रदेयं सुवर्णयुक्तं सघृतं च कांस्यम् ॥
शिल्पप्रधानस्य तथैव सत्यं देयं यथा तुष्टिमुपैति राजन्
विप्रास्तथान्नं दधिसर्पिषा युतं संभोजनीयाः पयसा च मिश्रम् ॥
उत्सृष्टमात्रे वृषभे व्रजन्ति तृप्तिं परां तस्य पितामहा ये
यस्मिँस्तडागे स जलं तृषार्तः पातुं समागच्छति तत्पितॄणाम् ॥
दिव्याम्बुपूर्णं कलशं महीपते लोकं परं तृप्तिमन्तः प्रयान्ति
सरिद्वरां काञ्चिदथोपयाति तृष्णान्वितस्तस्य पितामहानाम् ॥
तृप्तिं विधत्ते सरितां वरिष्ठा सुदीर्घकालं विमलाम्बुवाहैः
दर्पेण पूर्णः सविषाणघातैर्धरां यदा धारयते नरेन्द्र ॥
पितॄंस्तदा तस्य तदन्नकूटं ध्रुवं स यातीति न संशयोऽत्र
रोम्णां च तुल्यानि शतानि राजन्भोक्ता तथा तस्य दिवं प्रयाति ॥
संवत्सराणां परिपूर्णकामः संसेव्यमानस्त्रिदशाङ्गनाभिः
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वृषोत्सर्गवर्णनो नाम सप्तचत्वारिंशदुत्तरशततमो ऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0