भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.146

1.146.1

दाल्भ्य उवाच ॥
उपवासाश्रितं सम्यग्लोकद्वयफलप्रदम् ॥
कथितं भवता सर्वं यत्पृष्टोऽसि मया द्विज

1.146.2

अन्यदिच्छाम्यहं श्रोतुं तद्भवान्प्रबवीतु मे ॥
संसारहेतुं मुक्तिश्च संसारान्मुनिसत्तम

1.146.3

पुलस्त्य उवाच ॥
अविद्याप्रभवं कर्म हेतुभूतं द्विजोत्तम॥
संसारस्यास्य तन्मुक्तिः संक्षेपाच्छ्रूयतां मम

1.146.4

स्वजातिविहितं कर्म रागद्वेषविवर्जितम् ॥
कुर्वतः क्षीयते पूर्वमन्यबन्धश्च नेष्यते

1.146.5

अपूर्वसंभवाभावात्क्षयं याते तु कर्मणि ॥
दाल्भ्य संसारविच्छेदः कारणाभावसंभवः

1.146.6

भवत्यसंशयं चान्यच्छ्रूयतामत्र कारणम् ॥
संसारविच्युतेर्दाल्भ्य समासाद्वदतो मम

1.146.7

गृहीता कर्मणा येन पुंसा जातिर्द्विजोत्तम ॥
तत्प्रायश्चित्तभूतं वै शृणु कर्मक्षयावहम्

1.146.8

ब्राह्मणक्षत्त्रियविशां शूद्रान्त्यानां च सत्तम ॥
स्वजातिविहितं कर्म रागद्वेषविवर्जितम्

1.146.9

जातिप्रदस्याक्षयदं तदेवाद्यस्य कर्मणः ॥
ज्ञानकारणभावं च तदेव प्रतिपद्यते

1.146.1.146.10

पुमाँश्चाधिगतज्ञानो भेदं नाप्नोति सत्तम ॥
ब्रह्मणा विष्णुसंज्ञेन परमेणाव्ययात्मना

1.146.11

एतत्ते कथितं दाल्भ्य संसारस्य समासतः ॥
कारणं भवमुक्तिश्च जायते योगिनो यथा

1.146.13

मार्कण्डेय उवाच ॥
इति दाल्भ्यः पुलस्त्येन यथावत्प्रतिबोधितः ॥
आराधयामास हरिं लेभे कामाँश्च वाञ्छितान् १२ ॥
तथा त्वमपि राजेन्द्र केशवाराधनं कुरु ॥
आराध्य तं जगन्नाथं न कश्चिदवसीदति

1.146.14

एतन्मयोक्तं सकलं तव भूमिप पृच्छतः ॥
अनाराध्याच्युतं देवं कः कामानाप्नुयान्नरः

1.146.15

वज्र उवाच ॥
भगवानवतीर्णोऽभून्मर्त्यलोकमिहाच्युतः ॥
भारावतारणार्थाय भुवो भूमिपतिर्हरिः

1.146.16

मानुषत्त्वे च गोविन्दो मम पूर्वपितामहः ॥
चकार प्रीतिमतुलां पाण्डुपुत्रैः सह द्विज

1.146.17

सारथ्यं कृतवाँश्चैव तेषां सर्वेश्वरो हरिः ॥
निस्तीर्णो येन भीष्मौघो कुरुसैन्यमहोदधिः

1.146.18

उपकारी महाभागः स तेषां सर्ववस्तुषु ॥
केशवः पाण्डुपुत्राणां सुतानां जनको यथा

1.146.19

धन्यास्ते कृतपुण्याश्च ते मे पाण्डुसुता मताः ॥
विविशुर्ये परिष्वङ्गैर्गोविन्दभुजपञ्जरम्

1.146.1.146.20

राज्यहेतोररीञ्जघ्नुर कस्मात्पाण्डुनन्दनाः ॥
सप्तलोकैकनाथेन ये भवन्त्येकशायिनः

1.146.21

आत्मानमनुगच्छामि भगवन्गतकल्मषम् ॥
जातं निर्धूतपापेऽस्मिन् कुले विष्णुपरिग्रहे

1.146.22

एवं देववरस्तेषां प्रसादसुमुखो हरिः॥
पृच्छतां कच्चिदाचष्ट किञ्चिद्गुह्यं महात्मनाम्

1.146.23

गुह्याञ्जनार्दनं याँस्तु धर्मपुत्रो युधिष्ठिरः ॥
पप्रच्छ धर्मानखिलाँस्तान्समाख्यातुमर्हसि

1.146.24

धर्मार्थकाममोक्षेषु यद्गुह्यं मधूसूदनः ॥
तेषामवोचद्भगवाञ्छ्रोतुमिच्छामि तत्त्वतः

1.146.25

मार्कण्डेय उवाच ॥
बहूनि धर्मगुह्यानि धर्मपुत्राय केशवः ॥
पुरा प्रोवाच राजेन्द्र प्रसादसुमुखो हरिः।

1.146.26

शरतल्पगताद्भीष्माद्धर्माञ्छ्रुत्वा युधिष्ठिरः ॥
पृष्टवान्यज्जगन्नाथं तन्मे निगदतः शृणु

1.146.27

पञ्चमेनाश्वमेधेन यदा स्नातो युधिष्ठिरः ॥
युधिष्ठिर उवाच ॥ ॥
भगवन्वैष्णवा धर्माः किंफलाः किंपरायणाः

1.146.28

किं कृत्यमधिकृत्यैते भवतोत्पादिताः पुरा ॥
यदि ते पाण्डवस्नेहो विद्यते मधुसूदन

1.146.29

श्रोतव्यास्ते मया धर्मास्ततस्तान्कथयाखिलान् ॥
पवित्राश्चैव ये धर्माः सर्वपापप्रणाशनाः

1.146.1.146.30

तव वक्त्रच्युता देव सर्वधर्मेष्वनुत्तमाः ॥
याञ्छ्रुत्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः

1.146.31

सुरापो वा कृतघ्नश्च मुच्यते सर्वकिल्बिषैः ॥
एतन्मे कथितं सर्वं सभामध्ये सुरोत्तम

1.146.32

वसिष्ठाद्यैर्महाभागैर्मुनिभिर्भावितात्मभिः ॥
ततोऽहं तव देवेश पादमूलमुपागतः

1.146.33

धर्मान्कथय तान्देव यद्यहं भवतः प्रियः ॥
श्रुत्वा मे मानवान्धर्मान्वासिष्ठान्वा महाफलान्

1.146.34

पराशरकृताँश्चैव तथाऽत्रेयस्य धीमतः ॥
श्रुत्वा शङ्खस्य गार्ग्यस्य लिखितस्य यमस्य च

1.146.35

जाबालेश्च महाबाहोर्मुनेर्द्वैपायनस्य च ॥
उमामहेश्वराश्चैव जातिधर्माश्च पावनाः

1.146.36

गुणस्य गुणबाहोश्च काश्यपेयास्तथैव च ॥
बह्वायनकृताश्चैव शाकुनेयास्तथैव च

1.146.37

अगस्त्यगीता मौद्गल्याः शाण्डिल्याः सौरभास्तथा ॥
भृगोरङ्गिरसश्चैव कश्यपोद्दालकोदिताः

1.146.38

सुमन्ता जैमिनीयाश्च पैलस्य च महात्मनः ॥
वैशम्पायनगीताश्च पिप्पलादकृताश्च ये

1.146.39

ऐन्द्राश्च वारुणाश्चैव कौबेरा वात्स्यपोणकाः ॥
आपस्तम्बकृता धर्मास्तथा गोपालकस्य च

1.146.1.146.40

भृग्वङ्गिरःकृताश्चैव सौरा हारीतकास्तथा ॥
श्रीभगवानुवाच ॥
शृणु राजन्महाबाहो धर्मात्मन्कुरुनन्दन

1.146.41

धर्मवृद्धिकरं वच्मि वृषभस्य तु लक्षणम् ॥
ऋषभः स समुद्राख्यः सततं कुलवर्धनः

1.146.42

मल्लिकापुष्पचित्रश्च धन्यो भवति पुङ्गवः ॥
कामलैर्माण्डलैश्चापि चित्रो भवति भोगदः

1.146.43

अतसीपुष्पवर्णश्च तथा धन्यतरः स्मृतः ॥
एते धन्यास्तथा धन्यान्कीर्तयिष्यामि ते नृप

1.146.44

कृष्णताल्वोष्ठ दशना रूक्षशृङ्गशफाश्च ये ॥
अव्यक्तवर्णा ह्रस्वाश्च व्याघ्रभस्मनिभाश्च ये

1.146.45

ध्वाङ्क्षगृध्रसवर्णाश्च तथा मूषकसन्निभाः ॥
कुब्जाः काणास्तथा खञ्जाः केकराक्षास्तथैव च

1.146.46

विषमश्वेतपादाश्च उद्भ्रान्तनयनस्तथा ॥
न ते वृषाः प्रोक्तव्या न च धार्यास्तथा गृहे

1.146.47

मोक्तव्यानां च धार्याणां भूयो वक्ष्यामि लक्षणम्

1.146.48

स्वस्तिकाकारशृङ्गाश्च मेघौघसदृशस्वनाः ॥
महाप्रमाणाश्च तथा मत्तमातङ्गगामिनः ॥

1.146.49

महोरस्का महोच्छ्वासा महाबलपराक्रमाः ॥
शिरः कर्णौ ललाटं च वालधिश्चरणानि च

1.146.1.146.50

नेत्रपार्श्वे च कृष्णानि शस्यन्ते चन्द्रमस्त्विषः ॥
चिह्नान्येतानि शस्यन्ते कृष्णस्य तु विशेषतः

1.146.51

भूमिं कर्षति लांगूलात्प्रशस्तः स्थूलवालधिः ॥
पुरस्तान्न तथा नीचो वृषभश्च प्रशस्यते

1.146.52

शक्तिध्वजपताकाभा येषां राजिर्विराजते ॥
अनड्वाहस्तु ते धन्या ऋद्धिसिद्धिजयावहाः

1.146.53

प्रदक्षिणं निवर्तन्ते स्वयं ये विनिवर्तिताः ॥
समुन्नतशिरोग्रीवा धन्यास्ते कोशवर्धनाः

1.146.54

रक्तशृङ्गाग्रनयनाः श्वेतवर्णा भवन्त्यपि ॥
शफैः प्रवालसदृशैर्नास्ति धन्यतरस्ततः

1.146.55

एते धन्याः प्रयत्नेन मोक्तव्या यदि वा वृषाः ॥
धारिताश्च तथा मुक्ता धनधान्यविवर्धनाः

1.146.56

चरणानि मुखं पुच्छं यस्य श्वेतानि गोपतेः ॥
लाक्षारससवर्णश्च तं नीलमिति निर्दिशेत्

1.146.57

वृष एव स मोक्तव्यो न सन्धार्यो गृहे भवेत् ॥
यदर्थमेषा चरति गाथा लोके पुरातनी

1.146.58

एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत

1.146.59

एवं वृषं लक्षणसंप्रयुक्तं गृहोद्भवं क्रीतमथापि राजन् ॥
मुक्त्वा न शोचेन्मरणं महात्मा मोक्षे विधिं चाहमतो विधास्ये

1.146.146

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वृषलक्षणवर्णनो नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः ॥

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc