भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.145

1.145.1

मार्कण्डेय उवाच ॥
अतः परं प्रवक्ष्यामि पितृभिर्याः प्रकीर्तिताः ॥
गाथाः पार्थिवशार्दूल कामयद्भिः पुरे स्वके

1.145.2

अपि स्यात्स कुलेऽस्माकं यो नो दद्याज्जलाञ्जलिम् ॥
नदीषु बहुतोयासु शीतलासु विशेषतः

1.145.3

अपि स्यात्स कुलेऽस्माकं हिममिश्रं जलाञ्जलिम् ॥
तिलमाक्षिक संयुक्तं यो नो दद्यात्समाहितः

1.145.4

अपि स्यात्स कुलेऽस्माकं यो नो दद्याच्च भक्तितः ॥
पायसं मधुसंमिश्रं वर्षासु च मघासु च

1.145.5

दाल्भ्य उवाच ॥
पत्न्यो नृणां मुनिश्रेष्ठ योषितां च तथा नराः ॥
तच्छ्रोतुमिच्छामि विप्रर्षे विधवा स्त्री न जायते

1.145.6

उपोषितेन येनाग्र्य पत्न्या न रहितो नरः ॥
पुलस्त्त्य उवाच ॥
अशून्यशयनां नाम द्वितीयां शृणु भो द्विज

1.145.7

यामुपोष्य न वैधव्यं प्रयाति स्त्री द्विजोत्तम ॥
पत्नीविमुक्तश्च नरो न कदाचित्प्रजायते

1.145.8

शेते जलनिधौ कृष्णः श्रिया सार्धं यदा द्विज ॥
अशून्यशयना नाम तदा श्राद्धे हि सा तिथिः

1.145.9

कृष्णपक्षद्वितीयायां श्रावणे मुनिसत्तम ॥
इममुच्चारयेन्मन्त्रं प्रणम्य जगतः पतिम्

1.145.1.145.10

श्रीवत्सधारिणं श्रीशं भक्त्याभ्यर्च्य श्रिया सह ॥
श्रीवत्सधारिञ्छ्रीकान्त श्रीधाम श्रीपतेऽच्युत

1.145.11

गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामद॥
अग्नयो मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः

1.145.12

पितरो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः ॥
लक्ष्म्या वियुज्यते देव न कदाचिद्यथा भवान्

1.145.13

तथा कलत्रसंबन्धो देव मे नैव भिद्यतु ॥
लक्ष्म्या ह्यशून्यं वरद यथा ते शयनं सदा

1.145.14

शय्या ममाप्यशून्यास्तु तथैव मधुसूदन ॥
एवं प्रसाद्य पूजां च कृत्वा लक्ष्म्यास्तथा हरेः

1.145.15

फलानि दद्याच्छायायामभीष्टानि जगत्पतेः ॥
नक्तं प्रणम्यायतने हविर्भुञ्जीत वाग्यतः

1.145.16

ब्राह्मणाय द्वितीयेऽह्नि शय्यां दयात्सदक्षिणाम्॥
एवं करोति यः सम्यङ्नरो मासचतुष्टयम्

1.145.17

तस्य जन्मत्रये दाल्भ्य गृहभङ्गो न जायते॥
अशून्यशयनश्चासौ धर्मकर्मार्थसाधकः

1.145.18

भवत्यव्याकृतैश्वर्यः पुरुषो नात्र संशयः ॥
नारी च दाल्भ्य धर्मज्ञ व्रतमेतद्यथाविधि

1.145.19

या करोति न सा शोच्या बन्धुवर्गस्य जायते ॥
वैधव्यं दुर्भगत्वं वा भर्तृव्यङ्ग्यं च सत्तम

1.145.1.145.20

नाप्नोति जन्मत्रितयमेतच्चीर्त्वा पतिव्रता

1.145.145

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अशून्यशयनद्वितीयावर्णनो नाम पञ्चचत्वारिंशदुत्तरशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc