भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.144

1.144.1

वज्र उवाच ॥
कस्मिन्बहुफलं श्राद्धं देशे ब्राह्मणपुङ्गव ॥
एतत्सर्वं समाचक्ष्य भवान्ब्रह्म इवापरः

1.144.2

मार्कण्डेय उवाच ॥
गयाशीर्षवटे श्राद्धमक्षय्यं परिकीर्तितम् ॥
यदर्थमेषा चरति गाथा लोके पुरातनी

1.144.3

एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ॥
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्

1.144.4

पुष्करेष्वक्षयं श्राद्धं प्रयागे नैमिषे तथा ॥
वाराणस्यां प्रभासे च कुरुक्षेत्रे समन्ततः

1.144.5

सन्निहत्यां विशेषेण राहुग्रस्ते निशाकरे ॥
(राहुग्रस्ते दिनकरे सन्नीत्यां पार्थिवोत्तम)

1.144.6

श्राद्धं कृत्वा समाप्नोति राजसूयशतं नरः ॥
अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम

1.144.7

स्नात एव तदाप्नोति कृत्वा श्राद्धं स मानवः॥
सर्वेषु देवलोकेषु कामचारी विराजते

1.144.8

पद्मवर्णेन यानेन किङ्किणीजालमालिना ॥
देवरामागणाढ्येन वीणामुरजनादिना

1.144.9

दिव्यश्वेताश्वयुक्तेन कामगेन यथासुखम् ॥
आभूतसंप्लवं यावत्क्रीडत्यप्सरसां गणैः

1.144.1.144.10

कृतकृत्यश्च भवति पितॄणामनृणस्तथा ॥
श्राद्धं तथा पितॄणां च नोपयुज्येत वै पुनः

1.144.11

यत्र क्वचन गङ्गायां श्राद्धस्यानन्त्यमुच्यते ॥
यमस्य भगिनी देवी यमुना पापनाशिनी

1.144.12

यत्र क्वचन तस्यां हि श्राद्धस्यानन्त्यमुच्यते॥
पितॄणां दुहिता राजन्नर्मदा सरितां वरा

1.144.13

तस्यास्तीरे तथानन्तं श्राद्धं सर्वत्र पार्थिव ॥
अक्षय्यं च तथा श्राद्धममरान्तिकपर्वते

1.144.14

वराहपर्वते राजञ्छ्राद्धस्यानन्त्यमुच्यते ॥
हिमवान्पर्वतश्रेष्ठः शङ्करश्वशुरो गिरिः

1.144.15

आकरः सर्वरत्नानां सर्वसत्त्वसमाश्रयः ॥
तापसानामधीवासः श्राद्धं तत्राऽक्षयं भवेत्

1.144.16

एवमादिषु तीर्थेषु पर्वतेषु सरित्सु च ॥
सरोवरेषु मुख्येषु ऋषीणामाश्रमेषु च

1.144.17

निर्झरेषु तथारण्ये नदीनां प्रभवेषु च ॥
सङ्गमेषु च मुख्येषु पुलिनेषु विशेषतः

1.144.18

उद्यानेषु विचित्रेषु सैकतेषु समेषु च॥
शाद्वलेषु च रम्येषु गिरीणां कन्दरासु च

1.144.19

गह्वरेषु नितम्बेषु च्छायायां कुञ्जरस्य च ॥
महीगतान्तरन्यस्तगजच्छायासु पार्थिव

1.144.1.144.20

यः कुर्यादपराह्णे तु सकृच्छ्राद्धं प्रयत्नतः ॥
अक्षय्यमन्नपानं तु पितॄणां चोपतिष्ठते

1.144.21

गोमयेनोपलिप्तेषु श्राद्धं कार्यं गृहेषु च॥
मनोज्ञेषु विचित्रेषु रुचिरेषूत्तमेषु च

1.144.22

देवायतनगोष्ठेषु श्राद्धं बहुफलं भवेत्

1.144.23

तीर्थानि यानीह नरेन्द्रचन्द्र लोके पुराणैः परिकीर्तितानि ॥
तीरेषु तेषां विधिवत्प्रदाय श्राद्धं न शोचेन्मरणं जितात्मा

1.144.144

इति श्रीविष्णुधर्मोत्तरे मार्कण्डेवज्रसंवादे श्राद्धदेशानुकीर्तनो नाम चतुश्चत्वारिंशदुत्तरशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc