भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.143

1.143.1

॥ वज्र उवाच ॥ ॥
कस्मै श्राद्धं न दातव्यं केन भुक्तं महाफलम् ॥
भवतीह द्विजश्रेष्ठ तन्ममाचक्ष्व पृच्छतः

1.143.2

मार्कण्डेय उवाच ॥ ॥
अनूढातनयो राजन्यश्च पौनर्भवः सुतः ॥
शूद्रापतिर्दुराचारो वाणिज्यायुधजीवकः

1.143.3

तथा वार्धुषिको यश्च शूद्रस्य च पुरोहितः ॥
पर्वकारस्तथा सूची यस्य चोपपतिर्गृहे

1.143.4

कृत्वा नक्षत्रनिर्देशं यश्च जीवति पार्थिव ॥
चिकित्सितेन च तथा यस्य वृत्तिर्नरेश्वर

1.143.5

वेदविक्रयको यश्च वेदनिन्दक एव च ॥
तर्कशास्त्रेण दग्धश्च नास्तिको धर्मवर्जितः

1.143.6

पित्रा विवदमानश्च यश्चैवोपनयेद्बहून् ॥
अयाज्ययाजी स्तेनश्च यक्ष्मी कितव एव च

1.143.7

श्वित्री च यस्तथा काणो बधिरोऽन्धः कुणिस्तथा ॥
परपूर्वापतिश्चैव ग्रामप्रेष्यो निराकृतिः

1.143.8

अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥
कन्यादूष्यभिशप्तश्च मित्रधुक्पिशुनस्तथा

1.143.9

परिवित्तिः परिवेत्ता तस्य कन्याप्रदश्च यः ॥
याजकश्च तथा तस्य सोमविक्रयकस्तथा

1.143.1.143.10

कूटसाक्षी च वाग्दुष्टः परदारो विकर्मकः ॥
तथा दैवापविद्धाग्निः विरुद्धजनकस्तथा

1.143.11

यश्च हीनातिरिक्ताङ्गो दुश्चर्मा दमकस्तथा ॥
यश्च युक्तस्तथा राजन्पातकैश्चोपपातकैः

1.143.12

द्विषन्मित्रे उभे चैव प्रयत्नेन विवर्जयेत् ॥
अतः परं प्रवक्ष्यामि ब्राह्मणान्पङ्क्तिपावनान्

1.143.13

ब्रह्मदेयानुसन्तानः तपस्वी विजितेन्द्रियः ॥
पारगो यजुषां यश्च सामवेदस्य पारगः

1.143.14

ऋग्वेदपारगो यश्च भृग्वङ्गिरसपारगः ॥
अथर्वशिरसोऽध्येता त्रिसुपर्णस्य पारगः

1.143.15

त्रिणाचिकेतः पञ्चाग्निधर्मशास्त्रविशारदः ॥
पुराणपारगो यश्च इतिहासविशारदः

1.143.16

अधीते सोत्तरं यश्च विष्णुधर्ममिदं शुभम् ॥
विजानाति यथावच्च यश्च व्याकरणं नृप

1.143.17

ज्योतिषश्च तथा वेत्ता आयुर्वेदस्य च द्विजः ॥
ताभ्यां वृत्तिं न चेत्कुर्याद्वृत्तिस्ताभ्यां विगर्हिता

1.143.18

आहिताग्निश्च यो विद्वान्सोमपश्च द्विजोत्तमः ॥
गुरुशुश्रूषणपरस्तीर्थपूतश्च यादव ॥
गायत्रीजापनिरतो योगी ध्यानपरायणः

1.143.19

यस्याप्यनन्ते जगतामधीशे भक्तिः परा यादव देवदेवे ॥
तस्मात्परं नापरमस्ति किञ्चित्पात्रं त्रिलोके पुरुषप्रवीर

1.143.143

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पात्रापात्रपरीक्षाविधिर्नाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc