विष्णुधर्मोत्तरपुराणम् · अध्याय 1.142
॥ वज्र उवाच ॥ ॥
श्राद्धकालं समाचक्ष्व सर्वधर्मभृतां वर ॥
कस्मिन्काले कृते श्राद्धे प्रीयन्ते पितरो नृणाम्
मार्कण्डेय उवाच ॥
श्राद्धकालस्त्वमावस्यां नित्यं पार्थिवसत्तम ॥
पौर्णमासी तथा माघी श्रावणी च नरोत्तम
प्रोष्ठपद्यामतीतायां तथा कृष्णत्रयोदशी ॥
आग्रहायण्यतीतायां कृष्णास्तिस्रोऽष्टकास्तथा
शाकैश्च प्रथमं कार्या मांसैश्च तदनन्तरा ॥
तृतीया च तथाऽपूपैर्नित्यमेव विजानता
अन्वष्टकासु च स्त्रीणां श्राद्धं कार्यं तथैव च ॥
अष्टकाविधिना हुत्वा क्रमेणैतास्तु पञ्चकाः
मात्रे राजन्पितामह्यै श्राद्धं कार्यं यथाविधि ॥
तथैव प्रपितामह्यै विश्वेदेवपुरस्सरम्
पिण्डनिर्वपणं कार्यं तासां च पितृवन्नृप॥
भुक्तवत्सु च विप्रेषु तत्र कर्म निबोध मे
प्रादेशमात्रा राजेन्द्र चतुरंगुलमायताः ॥
तावदेव समुत्सेधाः षट्कर्षूस्तत्र कारयेत्
प्रत्येककर्षुमूले तु परिस्तीर्य हुताशनम् ॥
अग्निसोमयमानां च यागं कृत्वा यथा पुरा
कर्षुत्रितयमूले तु पुरुषाणां तु कारयेत् ॥
पिण्ड निर्वपणं प्राग्वदेकैकस्मिन्यथाविधि
कर्षूभिस्त्रितयं तच्च क्षीरान्नाद्भिः प्रपूरयेत् ॥
कर्षुत्रितयमूले तु स्त्रीणां निर्वपणं भवेत्
।
दध्ना मांसेन पयसा कर्षूणां चैव पूरणम् ॥
अन्नोदकविमिश्रेण कार्यं मनुजपुङ्गव
भवन्तीभ्यो भवत्वेतदक्षयं परिकीर्तितम् ॥
एतानि श्राद्धकालानि नित्यान्याह प्रजापतिः
श्राद्धमेतेष्वकुर्वाणो नरकं प्रतिपद्यते ॥
वृद्धौ श्राद्धं नरः कुर्वन्नित्यं वृद्धिमुपाश्नुते
वृद्धौ समर्चयेद्विद्वान्नित्यं नान्दीमुखान्पितॄन् ॥
वृदिश्राद्धेषु कर्तव्यास्तिलस्थाने यवास्तथा
कर्कन्धुदधिसंमिश्राँस्तथा पिण्डाँश्च निर्वपेत् ॥।
अच्छिन्ननाभ्यां कर्तव्यं श्राद्धं वै पुत्रजन्मनि
आशौचोपरमे कार्यमथवाऽपि नराधिप ॥
विवाहदिवसे श्राद्धं तथा कार्यं विचक्षणैः
वृद्धिश्राद्धं विधानेन चन्द्रे जन्मर्क्षमाश्रिते ॥
श्राद्धं प्रयत्नात्कर्तव्यं भूतिकामेन पार्थिव
उत्तरादयनाच्छ्राद्धं श्रेष्ठं स्याद्दक्षिणायने ॥
चातुर्मास्यं च तत्रापि प्रसुप्ते केशवे हितम्
प्रोष्ठपद्यपरं पक्षं तथापि च विशेषवत् ॥
पञ्चम्यूर्ध्वं च तत्रापि दशम्यूर्ध्वं ततोऽप्यति
मघायुता च तत्रापि शस्ता राजंस्त्रयोदशी ॥
तत्राक्षय्यं भवेच्छ्राद्धं मधुना पायसेन च
सर्वस्वेनापि कर्तव्यं श्राद्धमत्र नराधिप ॥
परान्नभोजी त्वपचः श्राद्धमत्र तु कारयेत्
यस्तु श्राद्धं सदा कुर्यात्सोऽश्वमेधफलो भवेत् ॥
निद्रां त्यजति सर्वात्मा यस्मिन्काले जनार्दनः
तत्र श्राद्धमथानन्त्यं नात्र कार्या विचारणा ॥
श्राद्धं संक्रमणे भानोः कर्तव्यं पृथिवीपते
विषुवद्द्वितयं तत्र अयने द्वे विशेषतः ॥
व्यतीपाते तथा श्राद्धं ज्ञेयं बहुफलं नृप
अक्षय्यं च तथा श्राद्धं विज्ञेयं राहुदर्शने ॥
व्रीहिपाके च कर्तव्यं यवपाके तथैव च
न तानद्युर्महाराज विना श्राद्धं कथंचन ॥
आश्विनस्यापरे पक्षे प्रथमे कार्तिकस्य च
पूर्वाह्ने शुक्लपक्षस्य श्राद्धं कुर्याद्विचक्षणः ॥
अपराह्णे तथा कार्यं कृष्णपक्षे नराधिप
संध्ययोर्वर्जस्तेछ्राद्धं तत्र रात्रौ नरेश्वर ॥
रात्रावपि च कर्तव्यं यदा स्याद्राहुदर्शनम्
अक्षय्यं तत्समुद्दिष्टं यद्दत्तं राहुदर्शने ॥
अतः काम्यानि वक्ष्यामि श्राद्धानि तव पार्थिव
अरोग्यमथ सौभाग्यं समरे विजयं तथा ॥
सर्वान्कामाँस्तथा विद्यां धनं जीवितमेव च
आदित्यादिदिनेष्वेव श्राद्धं कुर्वन्सदा नरः ॥
क्रमेणैतदवाप्नोति नात्र कार्या विचारणा ॥
स्वर्गं ह्यपत्यानि तथा ब्रह्मवर्चसमेव च ॥
रौद्रेण कर्मणा सिद्धिं भुवं पुष्टिं तथा श्रियम्
सर्वान्कामाँश्च सौभाग्यं धनं ज्ञाति प्रधानताम् ॥
रूपयुक्ताँश्च तनयान्वाणिज्याद्धनसंपदम्
कनकं सुहृदो राज्यं सफलां च तथा कृषिम् ॥
समुद्रयानाल्लाभं च सर्वान्कामाँन्तथैव च
श्रैष्ठ्यकामांस्तथा सर्वान्बलमारोग्यमेव च ॥
रूप्यं द्रव्यं गृहं गाश्च तुरगाँश्चैव जीवितम्
कृत्तिकादिभरण्यन्तं क्रमात्तु भगणे नरः ॥
एकैकस्मिन्क्रमात्कुर्वञ्छ्राद्धं प्राप्नोत्यसंशयम्
स्त्रियः सुरूपाः स्वगृहे कन्यानां च तथा वरान्॥
सर्वान्कामान्यशश्चैव श्रियं द्यूतजयं कृषिम्
वाणिज्यं पशवश्चैव वाजिनश्च तथा सुतान् ॥
सुवर्णरौप्यसौभाग्यं प्राप्नोति श्राद्धदः क्रमात्
प्रतिपत्प्रभृति ह्येतद्यावद्राजँस्त्रयोदथी ॥
चतुर्दश्यां तु कर्तव्यं ये नराः शस्त्रघातिताः
श्राद्धं सदा पञ्चदशीषु कार्यं कामान्समग्राँल्लभते मनुष्यः ॥
तस्मात्प्रयत्नेन नरेन्द्र कार्यं श्राद्धं सदा पञ्चदशीषु तज्ज्ञैः
॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेय वज्रसंवादे श्राद्धकालवर्णनो नाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0