भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.13

1.13.1

मार्कण्डेय उवाच ॥
कोसलाविषये स्फीते तस्मिन्मनुजपुङ्गव ॥
देवानामप्ययोध्यास्ति त्वयोध्यानामतः पुरी

1.13.2

प्राकारपरिखोपेता सरयूतीरशोभिता ॥
शोभिता भवनैर्मुख्यैः सुविभक्तमहापथा

1.13.3

नित्यप्रसन्नैर्मातङ्गैरंजनाचलसन्निभैः ॥
देवनागकुलोत्पन्नैः शतसंख्यैर्विराजिता

1.13.4

निर्मांसवक्रैस्तुरगैः सुकर्णैश्च मनोजवैः ॥
दीर्घग्रीवाक्षकूटैश्च महोरुजघनैर्वृता

1.13.5

पद्मगर्भसवर्णाङ्ग्यः पूर्णचन्द्रनिभाननाः ॥
संलापोल्लासकुशला यत्र वेश्याः सहस्रशः

1.13.6

न तत्पुण्यं न सा विद्या न तच्छिल्पं न सा क्रिया ॥
अयोध्यां प्राप्य यस्यार्थी निराशः प्रतिगच्छति ॥

1.13.7

उद्यानशतसंबाधा समाजोत्सवशालिनी ॥
अरोगवीरपुरुषा सर्वतर्कविवर्जिता

1.13.8

वीणावेणुमृदङ्गानां शब्दैः सततनादिता ॥
सदा प्रहृष्टमनुजा बहुरत्नोपशोभिता

1.13.9

ब्रह्मघोषमहाघोषा द्विजवृन्दोपशोभिता ॥
साज्यधूमोद्गमाढ्येन वायुना नष्टकिल्बिषा

1.13.1.13.10

सुगन्धिधूपविक्षेप सुरभीकृतमारुता ॥
सुगन्धिमनुजाकीर्णा नित्यमापणवीथिषु

1.13.11

यत्र दीनो जनो नास्ति मलिनः कृशितोऽपि वा ॥
वेदनिन्दापरः क्षुद्रो भिन्नसेतुर्न नास्तिकः

1.13.12

विस्तीर्णा दश मध्ये च योजनानां महापुरी ॥
सरयूतीरमाश्रित्य योजनत्रयमायता

1.13.13

मन्वन्तरेऽस्मिन्पुनरेव राज्ञा विनिर्मिता सा मनुना नृवीर! ॥
मन्वन्तरं येन जगत्समग्रं पाल्यं यथावद्यदुवृन्दनाथ!

1.13.13

इति श्रीविष्णुधर्म्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अयोध्यावर्णनं नाम त्रयोदशोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc