विष्णुधर्मोत्तरपुराणम् · अध्याय 1.139
॥ वज्र उवाच ॥
वैवस्वतेऽन्तरे प्राप्ते प्रथमे भृगुनन्दन ॥
श्राद्धं प्रदर्शितं केन तन्ममाचक्ष्व पृच्छतः
मार्कण्डेय उवाच ॥
हिरण्याक्षवधे पूर्वं यदा त्यक्त्वा धराधराः ॥
धरां सपक्षा खगमाः खं गता मनुजेश्वर
धराधरपरित्यक्ता तदा चलितबन्धना ॥
धरा स्थानाच्च्युता वेगात्प्रविवेश रसातलम्
हिरण्याक्षं तदा हत्वा नृवराहो जनार्दनः ।
प्रोथेन च कराभ्यां च विधार्य वसुधां बलात्
संपूज्यमानस्त्रिदशैः प्रविवेश रसातलम् ॥
रसातलतलं गत्वा शेषमूर्तौ स्वके स्थितः
दंष्ट्राग्रेण समुद्धृत्य महीं दध्रे तदा भुजे ॥
वामबाहुनिविष्टांतां कृत्वा त्रिदशपुङ्गवः
उज्जहार महातेजा लोकानां हितकाम्यया ॥
रत्नज्वालावलीपुञ्जदुर्विभाव्यमुखाम्बुजः
शेषस्तुष्टाव देवेशं तस्मिन्काले जगद्गुरुम्॥
पुरंध्रिवेशा वसुधा देवं तद्बाहुसंस्थिता
तदा तुष्टाव भूपाल रमणीयतमाकृतिः ॥
उद्धृत्य वसुधां स्थाने स्थापयित्वा तथा स्वके
जगाम भूमौ धर्मज्ञ वराहं नाम पर्वतम् ॥
कल्पारम्भे वराहस्य परमूर्तेः सशैलताम्
तां समासाद्य धर्मात्मा देवः सर्वगतः प्रभुः ॥
दंष्टाग्रलग्नं मृत्पिण्डं गृहीत्वा दक्षिणे करे
प्रस्वेदाच्च तिलान्कृत्वा दर्भान्रोमभ्य एव च ॥
जलप्रस्रवणाभ्याशे तस्मिन्गिरिवरे तदा
दक्षिणाग्राँस्तु विन्यस्य दर्भांस्तान्मधुसूदनः ॥
मृत्पिण्डान्सतिलाँस्तेषु दत्तवाँस्त्रीन्नराधिप
दत्त्वा च गन्धपुष्पाद्यैः पूजयामास धार्मिकः ॥
पूजयित्वा च मर्यादां कृतवान्स नराधिप
अद्यप्रभृति लोकेषु प्रेतानुद्दिश्य वै पितॄन् ॥
ये तु श्राद्धं करिष्यन्ति तेषां पुष्टिर्भविष्यति
श्राद्धकाले तथा तेन पिण्डनिर्वपणं तथा ॥
पितॄणां ये करिष्यन्ति तेषां पुष्टिर्भविष्यति
पिता पितामहश्चैव तथैव प्रपितामहः ॥
पूजया ते भविष्यन्ति स्वयं पिण्डेषु नित्यदा
तेषां त्रयः पूजिताश्च भविष्यन्ति तथाग्नयः ॥
त्रयो लोकास्त्रयो देवास्तथैव च युगत्रयम्
पूजिताश्च त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥
पूजितैस्तैर्भविष्यामि चतुरात्मा तथाप्यहम्
पितुः पैतामहः पिण्डो वासुदेवः प्रकीर्तितः ॥
पैतामहश्च निर्दिष्टस्तथा संकर्षणः प्रभुः
पितृपिण्डश्च विज्ञेयः प्रद्युम्नश्चापराजितः ॥
आत्माऽनिरुद्धो विज्ञेयः पिण्डनिर्वपणं बुधैः
श्राद्धं कर्तुं कथं शक्यं शक्यं विना वैष्णवतेजसा ॥
एवं संपूजितस्तेन चतुरात्मा त्वहं स्थितः
भविष्यामि प्रदास्यामि तस्य कामान्यथेप्सितान्॥
चत्वारः पूजिता वेदाश्चत्वारश्च तथाग्नयः
चत्वारश्च युगास्तेन चतस्रश्च दिशस्तथा ॥
चत्वारश्च तथा वर्णाश्चत्वारश्च तथाश्रमाः
चत्वारो लोकपालाश्च भविष्यन्तीह पूजिताः ॥
एवं कृत्वा स मर्यादां तत्रैवान्तरधीयत ॥
ततः प्रभृति लोकेऽस्मिञ्छ्राद्धं सद्भिः प्रकीर्तितम्
स्वर्गं च मोक्षं च यशः सुखानि राज्यं च पुत्रानथ भूमिपाल ॥
स्त्रियश्च मुख्या विविधांश्च कामान्देवेश्वरः श्राद्धकृतो विधत्ते
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्राद्धोत्पत्तिर्नामैकोनचत्वारिंशदुत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0