विष्णुधर्मोत्तरपुराणम् · अध्याय 1.138
॥ वज्र उवाच ॥
वर्तन्ते पितरः स्वर्गे केषांचिन्नरके तथा ॥
नरकस्थाः फलं दातुं कथं शक्ता वदस्व मे
मार्कण्डेय उवाच ॥
पितॄणां तु गणाः सप्त नामतस्तान्निबोध मे ॥
त्रयोऽमूर्तिमतश्चैषां चत्वारश्च समूर्तयः
सुभासुरा बर्हिषदोऽग्निष्वात्तास्तथैव च ॥
त्रयो मूर्तिमतश्चैषां चत्वारश्चाप्यमूर्तयः
क्रव्यादाश्चोपहूताश्च आज्यपाश्च सुकालिनः ॥
मूर्तिमन्तः पितृगणाश्चत्वारश्च प्रकीर्तिताः
सुभास्वरा ब्रह्मसुताः सोममाप्याययन्ति ये ॥
ब्रह्मलोकचरा राजन्नित्यं मूर्तिविवर्जिताः
तथा बर्हिषदो नाम राजपुत्रा मरीचिनः ॥
आप्याययन्ति ते देवाँल्लोके सोमपदे स्थिताः
विभ्राजलोके तिष्ठन्ति अग्निष्वात्ता नराधिप ॥
पुलस्त्यस्य ऋषेः पुत्रा भविष्यन्ति जगन्ति ते
दानवान्यक्षगन्धर्वान्पिशाचोरगराक्षसान् ॥
दैत्यान्भूतपिशाचांश्च विद्याधरगणांस्तथा
नागान्सर्पान्सुपर्णांश्च पर्वतान्सरितस्तथा ॥
क्रव्यादाँश्चोपहूतांश्च अज्यपाँश्च सुकालिनः
ब्राह्मणान्क्षत्रियान्वैश्यान्भावयन्त्यन्त्यजाँस्तथा ॥
कवेराङ्गिरसश्चैव कर्दमस्य प्रजापतेः
वसिष्ठस्य तथा पुत्राः क्रमेणैते प्रकीर्तिताः ॥
ज्योतिर्भासः स्मृता लोके ये च लोका मरीचिनः
तेजेस्विनो मान साश्च क्रमेणैते प्रकीर्तिताः ॥
एते श्राद्धस्य भोक्तारो विश्वेदेवैः सदा सह
एते श्राद्धं सदा भुक्त्वा पितॄन्संतर्पयन्त्यतः ॥
यत्र क्वचन धर्मज्ञ वर्तमाना हि योगतः
एते च पुष्ट्या विनियोजयन्ति श्राद्धस्य दातारमदीनसत्त्वाः ॥
तृप्तास्तथैते विनियोजयन्ति दातुः पितॄन्सर्वगतान्महीप
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पितृस्वर्गनरकनिवासहेतुनिर्णयोनामाष्टत्रिंशदुत्तरशततमोऽध्यायः ।
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0