विष्णुधर्मोत्तरपुराणम् · अध्याय 1.137
मार्कण्डेय उवाच ॥
ततः स स्वपुरं प्राप्य चाग्न्युपासनतत्परः ॥
ईजे बहुविधैर्यज्ञैः प्रजा धर्मेण पालयन्
अश्वमेधशतैरिष्ट्वा वाजपेयैः सहस्रशः ॥
अग्निष्टोमैश्चातिरात्रैर्द्वादशाहैः पुनःपुनः
सप्तद्वीपसमुद्रायां पृथिव्यामेकराड् बभौ ॥
अमानुषैर्वृतः सत्त्वैः स विजिग्ये महीतलम्
दुर्भिक्षं मरणं व्याधिर्नाभवत्कस्यचित्क्वचित् ॥
सर्वो धर्मपरो लोकः सर्व एव सुखी जनः
सर्वे चैव समृद्धार्थास्तस्मिञ्जनपदेश्वरे ॥
नासीत्पशुवधार्हाणां वधस्तस्मिन्वृथा तदा
सर्वभूतानि राजानं भावेनोपगतानि तम् ॥
सर्वस्य च जनन्यासीत्स राजा पितृसन्निभः
दृष्ट्वा तं भूपतिं स्वप्ने प्रसीदन्ति जनास्तदा ॥
यदा निर्यात्यसौ राजा चतुरङ्गबलान्वितः
गृहचर्यारता नार्यस्तदा पश्यन्ति तं सदा ॥
पुष्पैश्चन्दनधूपैश्च तथैव विकिरन्ति तम्
उर्वशी कृतपुण्या सा देवी नारायणात्मजा ॥
यया क्रीडितमस्याङ्के वदन्त्येवं च योषितः
अयमायात्यसौ राजा यदा शृण्वन्ति योषितः ॥
गृहकार्याण्यपि त्यक्त्वा तदा यान्ति ,गवाक्षकान्
अभ्राणि शारदानीव बहुचन्द्राणि योषिताम् ॥
मुखै राजन्ति वेश्मानि निर्याते पृथिवीश्वरे
या न पश्यति तं यान्तं सा तं ज्ञात्वा तिरोहितम् ॥
मुषितं चैव साऽऽत्मानं वेत्ति निन्दति सा भृशम्
या च पश्यति तं यान्तं कन्दर्पसदृशं नृपम् ॥
तद्गतेन ह्रदा सापि शून्या तिष्ठति वेश्मनि
यदा यजति यज्ञैश्च तदा शून्या वसुन्धरा ॥
सर्वा भवति राजानं तदा गच्छति वै जनः ॥
यश्च याति जनस्तस्य यज्ञे राज्ञो महात्मनः ॥
किमिच्छकैस्तदा राज्ञा सर्वः संपूज्यते तदा
सभासंस्थस्य वै राज्ञः प्रतीहारो दिने दिने ॥
उद्घोषयति कार्यार्थी तस्य राज्ये कथंचन
इत्येवं शासतो राज्यं गतः कालो महीपतेः ॥
स कदाचिद्द्विजानाह दर्शयध्वं ममोर्वशीम्
द्रक्ष्यसे तां स्वयं राजन्न वयं दर्शयामहे ॥
ततस्तेषां धने लोभं चक्रे कामनिपीडितः
ह्रियमाणे धने विप्रैः शप्तः पञ्चत्वमागतः ॥
जीवितश्चापरैर्विप्रैर्गतरोषैर्महीपतिः
आत्मानं गर्हयित्वाऽसौ लब्धसंज्ञो महीपतिः ॥
आयुं राज्येऽभिषिच्यैव प्रतिष्ठानपुरे स्वके
साग्निहोत्रस्ततो राजा ययौ नारायणाश्रमम् ॥
तस्याश्रमे तपश्चक्रे राजा संवत्सरत्रयम्
ततो नारायणः प्राह तं नृपं तपसि स्थितम् ॥
अद्य प्राप्स्यसि तां राजन्यत्कृते परितप्यसे
सशरीरोऽद्य गन्तासि त्रिदिवं राजसत्तम ॥
एवं द्विजेन्द्रे वदति विमानं प्रत्यदृश्यत
उर्वश्यधिष्ठितं रम्यं गन्धर्वैश्च सहस्रशः ॥
यस्मिन्युक्तं तुरङ्गाणां सहस्रं चन्द्रवर्चसाम्
विमानादवरुह्याथ गन्धर्वाप्सरसां गणाः ॥
उर्वशी च ववन्दैनमृषिं ज्वलनतेजसम्
अनुज्ञातोऽथ ऋषिणा तदा राजा पुरूरवाः ॥
कृत्वाग्निहोत्रमात्मस्थं विमानं तं समास्थितः
ऋषिं प्रदक्षिणीकृत्य त्रिदिवं स नृपो गतः ॥
सशरीरो नृपः स्वर्गं तदा प्राप्य सुदुर्लभम्
शक्रेणाभ्यर्चितः काले विजहार यथासुखम्॥
देवोद्यानेषु सर्वेषु उर्वश्या सहितस्तदा
नासौ वियुज्यते साक्षात्कदाचिदपि पार्थिवः ॥
अमावस्याममावस्यां नियतं चन्द्रभास्करौ
द्रष्टुं यातौ महीपालमेकराशिगतौ सदा ॥
उर्वश्या सहितं पौत्रं यदा पश्यति चन्द्रमाः
तदा सुधारसं देवः स्नेहात्स्रवति मानद ॥
सुधामृतरसं तं च पिबन्ति पितरः सदा
श्राद्धकालस्तदाप्युक्तो नृणां नृपवरोत्तम ॥
तदा श्राद्धं हि यद्दत्तं सुधारसविमिश्रितम्
तदश्नन्ति महीपाल पितरोऽमृतसन्निभम् ॥
अमावस्याममावस्यां तदा श्राद्धं प्रयत्नतः ॥
कुरुष्व भूमिपश्रेष्ठ सर्वान्कामानवाप्स्यसि ॥
येऽपि श्राद्धं करिष्यन्ति तदा चान्ये नराधिप
तेषामायुर्यशः सौख्यं दास्यन्ति प्रपितामहाः ॥
देवकार्यादपि श्रेष्ठं पितृकार्यं प्रचक्षते
पितरो नाम राजेन्द्र देवानामपि देवताः ॥
राज्यकामः स्वर्गकामः पुष्टिकामस्तथैव च
पितॄन्सन्तर्पयेच्छ्राद्धे चन्द्रसूर्यसमागमे ॥
वसन्ति सततं राजन्पितरश्चन्द्रमण्डले
तेषां मासमहोरात्रं विभागं तत्र मे शृणु ॥
कृष्णपक्षाष्टमी मध्ये तेषामुदयते रविः
शुक्लाष्टम्यां तथैवास्तं तेषां याति दिवाकरः ॥
अमावस्या तदा तेषां मध्याह्नं जायते नृप ॥
तस्माच्छ्राद्धानि देयानि तस्मिन्काले प्रयत्नतः
एतावदुक्तं नृपवर्य तस्य धर्मात्मजस्याऽप्रतिमस्य वृत्तम् ॥।
धन्यं यशस्यं रिपुनाशनं च सौभाग्यदं पापहरं सुखञ्च
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पुरूरवसः स्वर्गप्राप्तिर्नाम सप्तत्रिंशदुत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0