विष्णुधर्मोत्तरपुराणम् · अध्याय 1.136
मार्कण्डेय उवाच ॥
उर्वश्यपि वरारोहा मदनेनाभिपीडिता ॥
जगाद नारदस्याथ स्वामवस्थां नृपं विना
ततस्तां नारदः प्राह सुभगे गच्छ पार्थिवम् ॥
तस्याप्यवस्था महती त्वद्विहीनस्य सुन्दरि
एकां रात्रिं नरेन्द्रेण सहोष्य वरवर्णिनि ॥
स्वर्गलोकमुपागच्छ श्रेयः प्राप्स्यसि वै ततः
नारदेनैवमुक्ता सा सखीभिर्बहुभिर्वृता ॥
पुष्करिण्यास्तरुप्लक्षे ययौ स्नातुं वरानना
एतस्मिन्नेव काले तु निद्रयोपहृतो नृपः ॥
अप्सरोभिरवज्ञातस्तत्र सुष्वाप पार्थिव
अद्य यास्यामि राजानमिति हृष्टा तदोर्वशी॥
क्रीडन्त्यत्र जले तस्मिन्सखीगणवृता तदा
त्यक्तनिद्रो नरेन्द्रोऽपि विललाप चिरं पुनः ॥
शुश्राव विलपन्तं सा सखीभिः सहिता नृपम्
दर्शयामाम चात्मानं पार्थिवस्य शुभा ततः ॥
उवाच च वरारोहा नारदोक्तमशेषतः
तत्रैवोवास तां रात्रिं सह तेन वरानना ॥
रात्रिक्षये विसंज्ञं सा राजानं वाक्यमब्रवीत्
उर्वश्युवाच ॥
आराधयस्व गन्धर्वान्मोहं त्यक्त्वा नरेश्वर ॥
तेषां प्रार्थय मां सौम्य ततः प्राप्स्यसि मा चिरम्
मार्कण्डेय उवाच ॥
एवमुक्त्वा ययौ स्वर्गं राजा तत्रैव पार्थिव ॥
तपः स विपुलं चक्रे तद्गतेनैव चेतसा
अथ संवत्सरे पूर्णे सूर्यस्योदयनं प्रति ॥
नारदं पुरतः कृत्वा गन्धर्वा दर्शनं ददुः
गन्धर्वा ऊचुः ॥
वरं वरय राजेन्द्र यदिच्छसि महाभुज ॥
वयं हि तव दास्यामः सर्व एवामरप्रभाः
पुरूरवा उवाच ॥
भवन्तश्चेत्प्रसन्ना मे यदि मे रोचते वरम् ॥
उर्वशी सेह चार्वङ्गी भवद्भिर्मम दीयताम्
गन्धर्वा ऊचुः ॥
स्थालीं पूर्णामिमां राजन्गृहाणाग्नेर्महाभुज ॥
अस्मादग्निं त्रिधा कृत्वा यजस्व विगतज्वरः
वेदोक्तेन विधानेन गन्धर्वत्वमवाप्स्यसि ॥
त्रेताग्निपूर्वस्य विधेरस्मिन्मन्वन्तरे भवान्
भविता दर्शिता लोके गुरुश्च जगतीपतिः ॥
गन्धर्वत्वमवाप्याथ राजन्प्राप्स्यस्यथोर्वशीम्
मन्वन्तरमिमं सर्वं रन्ता च त्वं तया सह ॥
मन्वन्तरे गते राजन्नुर्वश्या सहितो भवान्
प्रवेक्ष्यति निशानाथं सोमं शीतांशुमुज्वलम् ॥
आधारं सर्वलोकस्य पितॄणां स्थानमुत्तमम्
मार्कण्डेय उवाच ॥
अग्निस्थालीं नृपे दत्त्वा गन्धर्वास्त्रिदिवं ययुः ॥।
अथाऽऽजगाम तं देशं बालमादाय चोर्वशी
उर्वश्युवाच ॥
तस्मिन्समागमे सौम्य जातोऽयं तनयः प्रभो ॥
तमादाय प्रतिष्ठानं व्रज पार्थिव माचिरम्
कृतं नामास्य गन्धर्वैर्विश्वायुरति भूमिप ॥
मार्कण्डेय उवाच ॥
एवं दत्त्वा नृपे बालं सा प्रयाता त्रिविष्टपम्
एकाकी चिन्तयामास बुधपुत्रोप्यनन्तरम् ॥
किन्नु बालमुपादाय गमिष्यामि पुरं स्वकम्
अथादाय गमिष्यामि स्थालीमेतां विभावसोः॥
श्वापदेभ्यो भयं घोरं बालस्येह भविष्यति
मया विहीनस्य भयं नास्ति किञ्चिद्विभावसोः ॥
एवं स निश्चयं कृत्वा बालमादाय सत्वरः।
जगाम स्वपुरं हृष्टः ससैन्यश्चागमत्पुनः ॥
स्थालीं ददर्श हीनां तु दृष्ट्वा मोहमुपागतः
त्रिदिवादेत्य गन्धर्वा मूढं पार्थिवसत्तमम् ॥
उत्थापयित्वा वचनमूचुस्तद्धितकाङ्क्षिणः
राजन्नस्मिञ्छमीगर्भे प्रविष्टः स हुताशनः ॥
अस्मात्त्वमरणिं कृत्वा जनयस्व हुताशनम्
त्रिधा कृत्वा तु तं वीर यजस्व विधिवत्तदा ॥
तमिष्ट्वा प्राप्स्यसे वीर गन्धर्वत्मसंशयम्
त्रेताग्निं ते नरेन्द्रेह होष्यन्ति सततं द्विजाः ॥
सप्तवर्षाणि तेऽप्येवं यास्यत्यस्मत्सलोकताम्
त्रयोऽग्नयश्चोपसदं तव राजन्प्रकीर्तिताः ॥
अग्निराहवनीयस्तु वासुदेवो नराधिप
दक्षिणाग्निस्तथा ज्ञेयो नित्यं संकर्षणो बुधैः ॥
तथा च गार्हपत्योऽग्निः प्रद्युम्नः परिपठ्यते
तथैवौपसदो राजन्ननिरुद्धः प्रकीर्तितः ॥
तस्मादेव वरो विष्णुश्चतुरात्मा नराधिप
फलाभिसन्धानहुतो गन्धर्वत्वं प्रयच्छति ॥
कामं विनाग्निहोत्रेण हुतो राजञ्जनार्दनः
प्रयच्छति परं स्थानममृतं शाश्वतं ध्रुवम् ॥
अग्निहोत्रादृते राजन्गन्धर्वत्वं न विद्यते
सुहुतेनाग्निहोत्रेण प्राप्यते संशयं विना ॥
एवमुक्त्वा ययुः सर्वे गन्धर्वास्त्रिदिवं ततः
राजाप्यरणिमादाय शमीगर्भाद्गृहं ययौ॥
ततः प्रभृति राजेन्द्र शमीगर्भाद्धुताशनम्॥।
जनयन्ति द्विजश्रेष्ठास्तत्र सन्निहितस्त्वसौ
एकोऽग्निरासीन्नृपवर्य पूर्वं वैवस्वतस्यास्य तथान्तरेऽस्मिन् ॥
त्रिधाकृतस्तेन महानुभाव संमंत्रिविप्रैः क्रतुशास्त्रविज्ञैः
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे त्रेताग्न्युत्पत्तिर्नाम षट्त्रिंशदुत्तरशततमोऽध्यायः ॥
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0