भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.135

1.135.1

मार्कण्डेय उवाच ॥
उर्वश्यागमने यत्नं चक्रुस्ते मन्त्रमुत्तमम् ॥
गन्धर्वस्तूग्रसेनाख्यस्तदा मन्त्रमभाषत

1.135.2

उग्रसेन उवाच ॥
समयेवस्थिता तस्मिन्नुर्वशी चारुभूषणा ॥
व्युत्क्रान्तसमयं सा तु राजानं त्यक्ष्यते च तम्

1.135.3

तमहं वेद्मि समयं तत्र यास्यामि चानघ ॥
युष्मत्कार्यं करिष्यामि ससहायो न संशयः

1.135.4

मार्कण्डेय उवाच ॥
एवमुक्त्वा ययौ तत्र यत्रासौ नृपतिः स्थितः ॥
रात्रौ जहार मेषं च मायया स नराधिप

1.135.5

मेषं ज्ञात्वा हृतं देवी राजानमिदमब्रवीत् ॥
मेषो हृतो महीपाल केनाप्यद्धा सुतो मम

1.135.6

द्वितीयश्च हृतो राजँस्तमानय सुतं मम ॥
एवमुक्तस्तया राजा नग्न एवाथ संभ्रमात्

1.135.7

उत्थायान्वेषणं चक्रे मेषयोः पुरुषर्षभ ॥
अथापश्यत सा नग्नं राजानमसितेक्षणा

1.135.8

संस्मृत्य नारदवचस्तिरोभूता बभूव सा ॥
गन्धर्वाणां ययौ सापि समीपं दुःखिता तदा

1.135.9

स्वर्गं प्राप्य विशालाक्षी नित्यं नृपपरायणा ॥
कामनुन्नशरीरापि कालं नयति सुन्दरी

1.135.11

ऋषिशापभयाद्भीता मदनेन वशीकृता ॥
नित्यमास वरारोहा निःश्वासपरमा सती । 1.135.१० ॥
अप्राप्य मेषयुगलं विनिवृत्तो नराधिपः ॥
नापश्यच्छयने देवीं सस्मार समयं तदा

1.135.12

विदित्वा त्यक्तमात्मानं स्मृत्वा समयमात्मनः ॥
कामबाणार्दितो राजा तथापि विजने वने

1.135.13

तां मार्गति वरारोहामुन्मत्त इव सर्वतः ॥
एकाकी विजने राजा प्रियया रहितस्तदा

1.135.14

विललाप महासत्त्वः कुसत्त्व इव कश्चन ॥
पुरूरवा उवाच ॥
क्व गतासि विशालाक्षि विहाय विजनेत्र माम्

1.135.15

कथं प्रवेक्ष्यामि पुरं प्रतिष्ठानं विना त्वया ॥
प्राणास्त्यक्त्वा गमिष्यन्ति शरीरं मम सुन्दरि

1.135.16

अनुगन्तुं शरीरेण न शक्नोमि वरानने ॥
त्वं हि मे चपलापाङ्गि प्राणेभ्योऽपि गरीयसी

1.135.17

त्वया त्यक्तो ध्रुवं प्राणाँस्त्यक्ष्यामि वरवर्णिनि ॥
क्वासि क्वाहं गमिष्यामि किं करोमि व्रजामि काम्

1.135.18

शरणं कामतप्तस्य को मे संदर्शयेत्प्रियाम् ॥
कं स्वित्पृच्छामि विजने कस्य सा विदिता भवेत्

1.135.39

क्षेमो वा मम कस्य स्याद्यो मे संदर्शयेत्प्रियाम् ॥
प्रियाविरहितस्यैष निशाशेषो गतो मम

1.135.1.135.20

अन्तर्धानं गतास्तारा यथा देवी ममोर्वशी ॥
देवोऽरुणकरस्पर्शाच्छोभां त्यजति चन्द्रमाः

1.135.21

निशाक्षये क्षामवपुर्यथाहं तद्विनाकृतः ॥
एषा ह्यावर्तते पूर्वा सन्ध्या स्नात्वा द्विजातयः

1.135.22

नूनं नियमसंयुक्तास्तिष्ठन्ति विजितेन्द्रियाः ॥
अयं ह्युदयमायाति सविता रक्तमण्डलः

1.135.23

सर्वसत्त्वसमो देवः सर्वेषां पापनाशनः ॥
उदितश्चाप्ययं सूर्यो विभाति विमलेम्बरे

1.135.24

एकं फुल्लं महापद्मं सरसीवामले यथा ॥
उदितं भास्करं ज्ञात्वा नलिनीपद्मलोचना

1.135.25

उन्मील्यालोकते सर्वं विना तेन निमीलिता ॥
तीक्ष्णार्कः संप्रवृत्तोऽयं दिवसः कामवर्धनः

1.135.26

नैदाघो मां विशेषेण सन्तापयति तां विना ॥
कं पृच्छामि वरारोहां संतप्तकनकप्रभाम्

1.135.27

दृष्टा मयेति सा देवी को मां वक्ष्यति कानने ॥
करीन्द्रस्त्वयमभ्येति तत्कुचाभौ समुद्वहन्

1.135.28

कुम्भौ कठोरौ सुमुखं पृच्छाम्येनं मतङ्गजम् ॥
त्वद्दन्तयुगलप्रख्यं यदूरुयुगलं ह्यभूत्

1.135.29

गतां तां यदि जानीषे कथयस्व ममोर्वशीम् ॥
एष हस्ती गतस्त्रासात्सिंहस्यास्य महात्मनः

1.135.1.135.30

अदत्त्वैवोत्तरं मह्यं सिंहं पृच्छाम्यहं वने ॥
मध्यस्त्वदुपमस्तस्याः क्व सा सम्प्रति केसरिन्

1.135.31

उर्वशी दयिता मह्यं यदि जानासि कथ्यताम् ॥
अदत्त्वैवोत्तरं सिंहः कथमेष गतो मम

1.135.32

दृष्टा कथय हे बिम्ब देवीं बिम्बफलाधराम् ॥
अनेनापि न चाख्याता पृष्टेन सुदती मम

1.135.33

मयूर यदि जानीषे बालां बालमृगेक्षणाम् ॥
उर्वशीं कथयस्वाद्य क्व प्रिया मम वर्तते

1.135.34

अन्तःशरीरं कामाग्निर्बहिर्दहति भास्करः ॥
तापार्त्ता निःश्वसन्त्येते सिंहा गिरिगुहागताः

1.135.35

निरस्तजिह्वाः स्रस्ताङ्गा विवृतास्या मुहुर्मुहुः ॥
यूथानि महिषीणां च शेरते नलिनीजले

1.135.36

सूर्योद्धतजलास्वन्ये पङ्कशेषा सु शेरते ॥
गगनं चातकश्चायं तृष्णार्तो लोकते मुहुः

1.135.37

सु भृशं तोयपानार्थी उर्वश्यर्थे यथा त्वहम् ॥
यान्त्येते पद्मिनी खण्डान्कुञ्जरास्तापरूषिताः

1.135.38

सुहस्तमुक्तैश्च जलैः सिंचन्त्यात्मानमात्मना ॥
महाद्रुमाणां स्कन्धेषु विषण्णाश्चापरे गजाः

1.135.39

तापं नयन्ति मध्याह्ने मुञ्चन्तः शीकरं मुहुः ॥
शाखापर्णान्तराण्येते विहगास्तापतापिताः

1.135.1.135.40

विशन्ति चैव त्राणार्थं मध्याह्नसमये भृशम् ॥
द्रुमशाखागता ह्येते विहगानां च बालकाः

1.135.41

रक्तान्तचक्राः सुभृशं विशन्तीह मुहुर्मुहुः ॥
त्यक्ताहारक्रियाश्चैते मृगयूथा महावने

1.135.42

द्रुमच्छायासु तिष्ठन्ति रोमन्थं कुर्वुतो मुहुः ॥
अन्वेषमाणो दयितां श्रीतोऽस्मि विजये भृशम्

1.135.43

छायायां विश्रमिष्यामि शिरीषस्यास्य साम्प्रतम् ॥
तद्गात्रसुकुमाराणि पुष्पाण्यस्य वनस्पतेः

1.135.44

शिरीषवृक्षो रम्योऽयं मनोहृदयनन्दनः॥
किन्तु मां पीडयत्येष शिरीषस्तद्विनाकृतम्

1.135.45

सूर्यश्चास्तमुपायाति क्व गमिष्यामि शर्वरीम् ॥
अस्तं यातः सहस्रांशुर्निशा प्राप्ता सुदारुणा

1.135.46

रात्रिमेनां विवत्स्यामि न्यग्रोधेऽस्मिन्महाद्रुमे ॥
उर्वश्या ऋद्धिरचिते वरवेश्मनि पार्थिवः

1.135.47

स क्रीडति तया सार्धं सर्वकामैः सुपूजितः ॥
नूनं मां स जनो वेत्ति प्रतिष्ठानपुरे तु मे

1.135.48

एतामवस्थां कश्चिन्मे न विजानाति साम्प्रतम् ॥
पौरो जानपदः कश्चिज्जनो मे दयितः सदा

1.135.49

निद्रे भजस्व मन्नेत्रे ध्रुवं स्वप्ने वराननाम ॥
तां तु प्राप्स्याम्यहं सौम्यां मनसः प्रीतिवर्धिनीम्

1.135.1.135.50

कथमभ्युदितश्चन्द्रः पीडां जनयते मम ॥
तद्वक्त्रविजितः पूर्वं विकरोत्यधुना मयि

1.135.51

तुद चन्द्र यथाकामं मम देहं विनाकृतम् ॥
त्वया तु नाथं संप्राप्य सापत्न्यं मम दर्शय

1.135.52

हा हतोऽस्मि विनष्टोऽस्मि उर्वश्या रहितो वने ॥
चन्द्र पौत्रे कुरु दयां दर्शयस्व मम प्रियाम्

1.135.53

शशाङ्क देव शीतांशो नृणां दृष्टिमनोहर ॥
आक्रन्दामि तवाद्याहं दर्शयस्व प्रियां मम

1.135.54

अतृप्त दर्शनस्यैव सा गता सुन्दरी मम ॥
अन्तर्धानं विशालाक्षी तां दर्शय ममोर्वशीम्

1.135.55

कदाऽधररसं तस्याः पास्याम्यमृतसन्निभम् ॥
कदा द्रष्टास्मि तां भूयः कमलोदरसन्निभाम्

1.135.56

मृणालबाहुयुगलां पद्मवक्त्रां कदा प्रियाम् ॥
नीलोत्पलाक्षीमालिङ्ग्य तापं त्यक्ष्याम्यनङ्गजम्

1.135.57

अनङ्गशरनुन्नस्य बाले भव गतिर्मम ॥
ददस्व दर्शनं सुभ्रूः का ममान्या गतिर्भवेत्

1.135.58

काममोहगृहीतस्य त्वमेवाभूर्गतिर्मम ॥
भूयस्त्वमेव सुभगे गतिर्भव ममानघे

1.135.59

एषा विरलिता रात्रिर्मम वर्षशतोपमा ॥
अन्वेष्टुं क्व गमिष्यामि निर्घृणां तां ममोपरि

1.135.1.135.60

यस्याः कोपं न जानामि स्वप्नेऽपि वरवर्णिनि ॥
दैवेनोपहतस्याद्य त्यक्ता सा सुभगा गता

1.135.61

मार्कण्डेय उवाच ॥
एवं स विलपन्राजा त्यक्ताहारः परिभ्रमन् ।
आससाद कुरुक्षेत्रं द्वादशाहेन पार्थिव

1.135.62

पुष्करिण्यास्तटप्लक्षे पुष्करैरुपशोभिते ।
निषसाद तदा श्रान्तः क्षुत्पिपासासमन्वितः॥
विललाप स तत्रापि मदनेन वशीकृतः

1.135.63

कदा नु तच्चन्द्रमसोऽनुकान्ति मुखं स्मितं चारुविलोचनायाः॥
उन्नाम्य पास्याम्यधरं तृषार्तो वारीव पान्थः पथि कृच्छ्रलभ्यम्

1.135.135

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पुरूरवाप्रलापवर्णनो नाम पञ्चत्रिंशदु त्तरशततमोध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc