भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.134

1.134.1

मार्कण्डेय उवाच ॥
प्रासादेषु विचित्रेषु तथा मणिगृहेषु च ॥
पुष्पवेश्मसु रम्येषु तथा वस्त्रगृहेषु च

1.134.2

रत्नवेश्मसु मुख्येषु तथा चित्रगृहेषु च ॥
पर्वतानां च दुर्गेषु नदीनां पुलिनेषु च

1.134.3

पद्मिनीषु च फुल्लासु तथा चोत्पलिनीषु च ॥
शय्यासु च परार्ध्यासु पुष्पशय्यासु चाप्यथ

1.134.4

रमयामास तां देवीं तथा विरचितेषु च ॥
गृहेषु बहुरत्नेषु धूपोद्गारिषु पार्थिव

1.134.5

रेमे स तु तया सार्धं मानसेषु पुनःपुनः ॥
रमयँस्तां वरारोहां न तृप्यति स नित्यशः

1.134.6

निशासु च सचन्द्रासु चन्द्रकान्ततरं मुखम् ॥
पपौ तस्या यथाकामं नरेन्द्रः स नराधिप

1.134.7

निशासु नष्टचन्द्रासु तन्मुखो द्योतितप्रभे ॥
देशे तां रमयामास राजा राजीवलोचनः

1.134.8

वर्षयन्ती नरेन्द्रस्य सा तु कामं दिनेदिने ॥
अदृष्टपूर्वेव शुभा भवत्यायतलोचना

1.134.9

राज्ञो दृढं सा दयिता तस्याश्च द्विगुणो नृपः ॥
तयाऽसौ प्रीयते राजा तेन सापि वराङ्गना

1.134.1.134.10

वरचन्दनदिग्धाङ्गौ नानाभरणभूषितौ ॥
रेमाते दम्पती हृष्टौ नानारत्नावभूषितौ

1.134.11

अलङ्करोति तां राजा स्वयमेव कदाचन ॥
तयाऽलंक्रियमाणश्च प्रीतिमाप्नोत्यनुत्तमाम्

1.134.12

वरेषु तौ विचित्रेषु रेमाते मुदितौ भृशम् ॥
केशान्संशोभयन्तौ तौ कुसुमैस्तु परस्परम्

1.134.13

उर्वश्यभ्युदितं पुष्पं तथा च ग्रथितं पुनः ॥
धारयामास शिरसा प्रेम्णा पार्थिवसत्तमः

1.134.14

पत्रच्छेदेन याँश्चक्रे तिलकान्स नराधिपः ॥
ताँश्च सा धारयामास ललाटे चारुहासिनी

1.134.15

एवं संक्रीडतो राज्ञस्तया सह सुमध्यया ॥
बभूवुस्तनयाः पञ्च नामतस्तान्निबोध मे

1.134.16

आयुर्ज्येष्ठस्ततो धीमाँस्ततश्चान्यस्त्वनामयः ॥
अयुतायुश्चतुर्थोऽभूच्छतायुश्चैव पञ्चमः

1.134.17

एवं तस्याः प्रसूता वै याति काले मनोहरे

1.134.18

गन्धर्वमुख्यास्तु तदा समेता तया विहीना भृशमुत्सुकास्तु ॥
तदागमायाथ सुरेन्द्रलोके यत्र तदा चक्रुरदीनसत्त्वाः

1.134.134

इति श्रीविष्णुधर्मोत्तरे प्रथमकाण्डे मार्कण्डेयवज्रसंवादे उर्वशीसम्भोगवर्णनो नाम चतुस्त्रिंशदुत्तरशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc