विष्णुधर्मोत्तरपुराणम् · अध्याय 1.133
मार्कण्डेय उवाच ॥
इत्युक्ता रम्भया वाक्यं दृष्ट्वा राजानमागतम् ॥
हृष्टा ससाध्वसा देवी बभूवाथ तथोर्वशी
अत्याश्चर्यमभूद्दृष्टे राज्ञि तस्याः शुभानने ॥
रोमाञ्चिततनुत्वं च सप्रस्वेदं समाबभौ
तामुवाच ततो रम्भा शृणूर्वशि वचो मम ।
नेहागमेऽस्य नृपतेः कार्यमल्पं भविष्यति
राजा सुखासहायोऽयं प्रविष्टो निशि काननम् ॥
प्रच्छन्ने शृणुवस्तावदस्य वाक्यानि भूपतेः
एवमस्त्वित्युवाचाथ रम्भां नारायणात्मजा ॥
मायाच्छन्नशरीरे ते ततश्चाययतुर्नृपम्
राजानं चारुसर्वाङ्गं पप्रच्छ तु तदा सखा ॥
राज्ञो बहुमतो नित्यं गुणवाँश्चातिधार्मिकः
सखोवाच ॥
यतः प्रभृति राजेन्द्र त्रिदिवात्त्वमिहागतः ॥
ततः प्रभृति चास्वस्थो मया दृष्टोऽसि मानद
तदस्वास्थ्यं कामकृतं ज्ञातवानस्मि ते नृप ॥
तन्ममाचक्ष्व ते गुह्यं न चेन्नरवरोत्तम
पुरूरवा उवाच ॥
तव गुह्यं न मे किञ्चित्कदाचिदपि विद्यते ॥
अस्वास्थ्यकारणं सौम्य तव वक्ष्याम्यथात्मनः
नारायणसुता कान्ता रूपेणाप्रतिमा शुभा ॥
उर्वशीनामतः ख्याता मया दृष्टा वराप्सराः
यतः प्रभृति चार्वङ्गी ततः प्रभृति मे सखे ॥
कामेनालोड्यते चित्तं न च शाम्यति मे तथा
न चोपायं प्रपश्यामि तस्या लाभे द्विजोत्तम ॥
देवतानामपि शुभा दुर्लभा सा वराङ्गना
एवं दुःखपरीतस्य सखे कालो गतो मम ॥
उपभुक्ता मया स्वप्ने साद्य चार्वसितेक्षणा
चन्द्रकान्तगृहे ह्यस्मिन्काममार्गणताडिता ॥
चन्द्रोदये चारुमुखी त्रैलोक्यस्यैकसुन्दरी
विनोदनार्थं हि सखे मनसोऽति मनोहरम् ॥
चन्द्रोदये ततः प्राप्तं चन्द्रकान्तशिलागृहम्
तदेहि त्वस्ति सौम्य प्रविश्य रुचिरं गृहम् ॥
विनोदयामि हृदयं मन्मथेन वशीकृतम्
सखोवाच ॥
यथा दृष्टं त्वया स्वप्ने तथाद्य भविता धुवम् ॥
सापि कामपरीताङ्गी त्वामुपेश्यति भामिनी
मार्कण्डेय उवाच ॥
एवमुक्त्वा विवेशाथ चन्द्रकान्तशिलागृहम् ॥
आसाञ्चक्रे तदा तस्मिन्मदनेन वशीकृतः
।
उर्वशी रम्भया सार्धं तच्छ्रुत्वा हर्षमागता ॥
आत्मानं दर्शयामास रम्भापि नृपतेस्तदा
जयेत्युक्त्वा महीनाथं रम्भा कामवशात्तदा ॥।
बभूव पुरतस्तस्य शोभयन्तीव तद्गृहम्
तामुवाच ततो राजा स्वागतं ते वरानने ॥
अलङ्कुरुष्व चार्वङ्गि रत्नासनमिदं शुभम्
रत्नासनोपविष्टायां तदागमनविस्मितः ॥
तदा राजीवरक्ताक्षस्तामुवाच वराननाम्
शक्रस्य नगरं रम्भे राजते नित्यशस्त्वया ॥
पौर्णमास्या यथा रात्रिः शशाङ्केनेव भामिनि
त्वं सभामण्डनं तस्य सच्छिष्या त्वं च तुम्बुरोः ॥
त्वयाभिभूतास्सकलाः स्त्रियः सुप्ताः सुशोभने
त्वयाभिभूताः सकलाः स्त्रियः स्वर्गे सुशोभने ॥
तव नेत्रसहस्रेण पश्यन्नपि तु पाकहा
सर्वत्र चारुसर्वांगि न तृप्यति शुभानने ॥
तन्ममाचक्ष्व सुभगे इहागमनकारणम्
रम्भोवाच ॥
शृणुष्वावहितो राजन्ममागमनकारणम् ॥
श्रुत्वा तच्च नरेन्द्रेन्द्र कुरुष्व वचनं मम
नारायणसुता देवी तत्र त्रैलोक्यसुन्दरी ॥
उर्वशी नाम चार्वङ्गी भूमिपाल सखी मम
सा त्वां दृष्ट्वा महेन्द्रस्य सदने काममोहिता ॥
न शर्म लभते बाला हाहेति वदती मुहुः
सा त्वदर्थमनंगेन मार्गणैर्भृशपीडिता ॥
लावण्य शेषा संवृत्ता दिनैः कतिपयैः शुभा
क्षामक्षामकपोला सा त्वत्समर्पितमानसा ॥
मदनेनाभितप्तांगी मानमुत्सृज्य भामिनी
प्रस्थिता सा मया सार्द्धं तव दर्शनलालसा ॥
अन्तरा नारदेनोक्ता यत्र त्वं प्रस्थिता शुभे
तत्र त्वया तु वस्तव्यं समयेन वरानने ॥
मेषद्वयं तु पुत्रत्वे यत्त्वया परिकल्पितम्
तत्तु ते शयनाभ्याशे स्थापयेत्सततं यदि ॥
स राजा चारुसर्वाङ्गि नग्नो नेक्षेत भामिनि
मैथुनं चाप्यकामाया नासौ ते कर्तुमर्हति ॥
घृताहारा तथा तत्र वस त्वं सुभगे सदा
एकस्मिन्नप्यतिक्रान्ते समये यदि पार्थिवम् ॥
न त्यक्ष्यसि तदा सौम्ये शिलाभूता भविष्यसि
एतानि समयान्युक्ता नारदेन सखी मम॥
तानि त्वं प्रतिपद्यस्व भजस्व च शुभाननाम्
।
पुरूरवा उवाच ॥
रम्भे तवाद्य वाक्येन अमृतेनेव भामिनि ॥
मृत्योर्वशमनुप्राप्तो जीवितोऽस्मि शुभानने
ममापि तत्कृते रम्भे मदनः शरवृष्टिभिः ॥
दुनोति हदयं सुभ्रूर्दिवारात्रमतन्द्रितः
सा त्वं जीवय मां शीघ्रं दर्शयस्व वराङ्गनाम् ॥
स्थास्यामि समये तस्मिन्यस्मिन्मां वक्ष्यसे शुभे
कृतं तं समयं विद्धि नारदेन यदीरितम्॥
अनाक्रन्दे निमग्नस्य मम काममहोदधौ
प्लवो भव विशालाक्षि प्राणदा भव सुन्दरि ॥
मार्कण्डेय उवाच ॥ एवमुक्ता नरेन्द्रेण रम्भा चान्तर्दधे तदा
उर्वशीसहिता चाथ दर्शयामास सा नृपम् ॥
जयेत्युक्त्वा नरेन्द्रं तु तदा नारायणात्मजा
व्रीडिता पुरतस्तस्थौ तस्य राज्ञो महात्मनः ॥
तां दृष्ट्वा प्रीतिमापाथ स नरेन्द्रो महाद्युतिः
पुलकांचित सर्वाङ्गो वर्णितुं सा न शक्यते ॥
पाणावादाय त्रपितामुत्सङ्गे चोपवेशयत्
रत्नासनं तथा भेजे रम्भापि सुमनोहरम् ॥
ततश्चोवाच वचनं राजा मुदितमानसः
पुरूरवा उवाच ॥
कामदेवः प्रसन्नोऽद्य ममोर्वशि वरावने ॥
अद्य वेदूम्यधिकं सुभ्रूः शक्रादात्मानमात्मना
त्रैलोक्यराज्यलाभेऽपि कुतः सा मे शुभे रतिः ॥
आज्ञाकारित्वमासाद्य या तवाद्य सुलोचने
मार्कण्डेय उवाच ॥
एवं वदति भूपाले ययौ रम्भा वरानना ॥
क्षणेन मेषसहिता पुनः प्राप्ता नृपान्तिकम्
मेषौ दत्त्वा नरेन्द्रस्य राजानं वाक्यमब्रवीत् ॥
रम्भोवाच ॥
यास्यामि लङ्कां राजेन्द्र तत्र प्राणेश्वरो मम
मत्प्रतीक्षः स्थितः श्रीमान्धनदस्यात्मसंभवः ॥
नलकूबरनामासौ त्रैलोक्यविदितः प्रभो
यथा चेयं सखी मह्यं नोत्कण्ठां कुरुते शुभा ॥
सखीजनस्य स्वर्ग्यस्य तथा कार्यं त्वयानघ
पुरूरवा उवाच ॥
यतिष्येऽहं तथा कर्तुं निर्वृता भव मानदे ॥
रत्नान्येतान्युपादाय निर्गच्छस्व यथासुखम्
मार्कण्डेय उवाच ॥
एवमुक्ता ततो रम्भा नृपतेः प्रीतिकारणात् ॥
रत्नान्युपादाय ययौ खेन लङ्कां महापुरीम्
लब्ध्वोर्वशीं नरेन्द्रोऽपि रेमे स सहितस्तया ॥
यथा शच्या सुरारिघ्नो बलवान्पाकशासनः
संन्यस्तभारः स तु मन्त्रिमुख्ये रेमे तया यादवसिंहमुख्य॥
लक्ष्म्या समेतो भगवाननन्तो यथा स देवो भुवनस्य गोप्ता
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे उर्वशीपुरूरवःसमागमो नाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0