भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.132

1.132.1

मार्कण्डेय उवाच ॥
सूर्यास्तमयमिच्छन्ती ज्ञात्वा रम्भा तथोर्वशीम् ॥
विनोदार्थं हि तस्याश्च दर्शयामास तद्वनम्

1.132.2

चारुप्रसूनं पश्येमं सुभगे चम्पकद्रुमम् ॥
त्वद्गात्रवर्णसदृशैः समन्तात्कुसुमैश्चितम्

1.132.3

इमं च दाडिमं पश्य पुष्पितं वामलोचने ॥
योऽयं बिभर्त्ति कुसुमैस्त्वदीयामधरश्रियम्

1.132.4

पश्य कामशराकारं सहकारं मनोरमम् ॥
यत्र चात्मसमुत्पन्ना रूढास्तस्य महात्मनः

1.132.5

श्रियं कपोलयोस्तुभ्यमाददानैर्मनोरमैः ॥
पुष्पैरुपेता चार्वङ्गि मधूकं पश्य शोभने

1.132.6

त्वत्पयोधरसंकाशै रम्यैरुपचितं फलैः ॥॥।
पश्य तालद्रुमं सौम्ये मनसः प्रीतिवर्धनम्

1.132.7

स्तम्भैस्त्वदूरुसंकाशैः कदलीं पश्य शोभने ॥
सुवर्णा चारुसर्वाङ्गी निर्मिता विश्वकर्मणा

1.132.8

।
पश्याविमुक्तकलतां कुसुमाढ्यां मनोहराम् ॥
त्वत्केशपाशसंकाशैर्भ्रमरैरुपशोभिताम्

1.132.9

पश्येमं कुन्दविटपं त्वद्दन्तसदृशैः शुभैः ॥
समन्ताच्छोभितं पुष्पैर्विशालाक्षि मनोहरैः

1.132.1.132.10

पश्य चोत्पलिनीमेतामुत्पलैरुशोभिताम् ॥
त्वन्नेत्रसदृशैः फुल्लैर्मनोहृदयनन्दनैः

1.132.11

नलिनीं सुभगे पश्य कमलैः पुष्पितैर्युताम्॥
तव निःश्वासगन्धाढ्यैः सौवर्णैर्वज्रकेसरैः

1.132.12

राजहंसानिमान्पश्य नलिनीतीरगोचरान्॥
गमनं सुमनोहारि त्वदीयमिव शिक्षितान्

1.132.13

त्वत्कराग्रविधान्सौम्ये धारयद्भिश्च पल्लवान् ॥
क्रीडाशैलमिमं पश्य युक्तं वहुविधैर्द्रुमैः

1.132.14

क्रीडाशैले चूतगतः कोकिलः कामवर्धनः ॥
कूजत्ययं मनोहारि स्वनेन सदृशेन ते

1.132.15

क्रीडाशैले नदीं पश्य निःसृतां शीतलोदकाम् ॥
तुल्यं ते मनसा सौम्ये वहन्तीं निर्मलं जलम्

1.132.16

बह्वाश्चर्ययुतं सौम्यं दर्शनीयं वनं बहु ॥
किं नु पश्य विशालाक्षि सूर्योऽस्तमुपगच्छति

1.132.17

त्वां तु कामवशां ज्ञात्वा कृपयेव दिवाकरः ॥
संवृत्तांशुधरो देवस्त्वस्तमायाति भामिनि ।

1.132.18

कठोराण्यपि पत्राणि पल्लवानीव सुन्दरि ॥
अस्ततापानुरक्तानि राजन्ते शाखिनां भृशम्

1.132.19

गिरीणां शिखरान्रक्तान्करोत्येव दिवाकरः ॥
जगामास्तं विशालाक्षि कृतकर्मा दिनक्षये

1.132.1.132.20

सन्ध्याकालेन रक्तेन प्रतीची पश्य शोभने ॥
आलिङ्गमानां सहसा कामिनीमिव कामिनीम्

1.132.21

सांप्रतं नियमोपेता द्विजा द्विजवरोद्भवे ॥
सन्ध्याकालमुपासन्ते सतां मार्गमनुव्रताः

1.132.22

अनुयाता रविं सन्ध्या गतमस्तमपि प्रभुम् ॥
साध्वीव वनिता कान्ते कृलजाता मनस्विनी

1.132.23

यास्यमानं सुनासोरु तमसा पश्य भूतलम् ॥
भृङ्गोदरतमालानां तुल्येन वरवर्णिनि

1.132.24

व्याप्तं हि तमसा सर्वं न विराजति किञ्चन ॥
मलिनेनाय तापाङ्गि जगत्सर्वं समीकृतम्

1.132.25

अस्यां हि सखि वेलायां मदनेन वशीकृताः ॥
नीलाम्बरधराः कान्ता यान्ति कान्तानलङ्कृताः

1.132.26

पश्योदितं च सुभगे सुभगं चन्द्रमण्डलम् ॥
पानमत्तपुरन्ध्रीणां वदनेन समत्विषम्

1.132.27

किञ्चिदाक्रम्य गगनं श्वेततां तु गतं सखि ॥
पश्य चन्द्रमसं सुभ्रु नयनानन्दकारकम्

1.132.28

जगतोऽस्य तमो गत्वा शशाङ्कः सत्त्वसन्निभः ॥
विराजत्यमलः सौम्ये गगने सितसुप्रभे

1.132.29

कामबाणहतायास्ते सदृशं गण्डयोः श्रिया ॥
बिभर्त्युभयतश्चन्द्रो ज्योत्स्नाजालं समुत्सृजन्

1.132.1.132.30

चन्द्रराजतकुम्भेन दिशेयं वरवर्णिनि ॥
ज्योत्स्नाच्छलेन क्ष्मा देवी राजतीव विराजते

1.132.31

चन्द्रमस्युदिते पश्य फुल्लां कुमुदिनीं शुभे ॥
त्वदीयहाससंकाशैः कुसुमैरुपशोभिताम् ॥

1.132.32

विरही चक्रवाकोऽयं रक्तामुत्पलिनीं शुभे ॥
सितामिव सुदुखार्तो विशत्यायतलोचने

1.132.33

चन्द्रकान्तगृहादस्माच्चन्द्ररश्मि समप्रभा ॥
चन्द्ररश्मिपरामृष्टाः पतन्त्युदकबिन्दवः

1.132.34

आलिङ्गिता चन्द्रमसा जहौ रात्त्रिस्तमःपटम् ॥
कामिनेव विशालाक्षि कामिनी वसनं शुभा

1.132.35

चन्द्रोदये चन्द्रसमानवक्त्रे नरेन्द्रचन्द्रे प्रमदावनेऽस्मिन् ॥
पश्य त्वमाशंस च जीविताशां त्वद्भाग्यनुन्नं सहसा प्रविष्टम्

1.132.132

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे उपवने चन्द्रोदयवर्णनो नाम द्वात्रिंशदुत्तरशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc