विष्णुधर्मोत्तरपुराणम् · अध्याय 1.131
मार्कण्डेय उवाच
उर्वशी रम्भया सार्द्धं जगाम त्वरितं तदा ॥
कामार्त्ता सिद्धमार्गेण सा ददर्शाथ नारदम्
व्रजन्तं सिद्धमार्गेण देवलोकादुपागतम ॥
सम्पूज्य नारदं सुभ्रूः प्रययावेव सत्वरा॥
व्रजन्तं सिद्धमार्गेण देवलोकादुपागतम् ॥
सम्पूज्य नारदं सुभ्रूः प्रययावेव सत्वरा
तामाह नारदो रम्भे केयं ते प्रस्थिता सखी ॥
रम्भा शापभयात्तस्याः सर्वमेव न्यवेदयत्
तामाह नारदो भूयः शृणुष्व वचनं मम ॥
उर्वशी गतभावेयं मानुषं तं नरेश्वरम्
शापेन तुम्बरोर्मोहादुचितं तत्र वत्स्यति ॥
यथा शुभं तथा कार्यं त्वया मे वचनं शुभे
समयेनोर्वशी तस्य वसत्वसितलोचना ॥
समयश्चानया कार्यो यो राज्ञस्तं निबोध मे
मेषद्वयं तु पुत्रत्वे पुरा कृतवती शुभा ॥
तन्नित्यं शयनाभ्याशे स्थापनीयं सुलोचने
आहारं घृतमात्रं च कर्तव्यमनया तथा ॥
न द्रष्टव्यस्तथा नग्नो राजा रम्भे पुरूरवाः
न कर्तव्यमकामायास्तथा तेन च मैथुनम् ॥
एकस्मिन्नप्यथो भग्ने समये चारुलोचना
यदि वत्स्यति राजानं शिलाभूता भविष्यति ॥
उर्वशी रम्भया सार्धमेवमस्त्विति नारदम्
उक्त्वा संपूज्य च मुनिं प्रतस्थे पुनरेव च ॥
नारदो व्यगमद्विप्रः पुरं वैश्रवणस्य च
॥
ददर्श च प्रतिष्ठानं चोर्वशी रम्भया सह ॥
प्राकारेणार्कवर्णेन काञ्चनेन विराजितम्
चतुर्भिर्गोपुरैश्शुभ्रै राजतैश्च विराजितम् ॥
शोभनं च तथा रम्यं विद्रुमस्य च तोरणैः
सुविभक्तमहारण्यं महाराजपथं शुभम् ॥
परिखाभिर्विचित्राभिः पद्मिनीभिरलंकृतम्
खमुल्लिखद्भिः प्रासादैः पाण्डुरैरुपशोभितम् ॥
शूराढ्यजनभूयिष्ठं दिव्यं पुरुषसंयुतम्
वणिग्भिरुपसंकीर्ण नानापण्यविभूषितम् ॥
ऐरावतकुलोत्पन्नैश्चलत्पर्वतसन्निभैः
कुञ्जरैर्बहुसाहस्रैस्संयुतं सुमनोहरैः ॥
तुरगैर्वह्निजातैश्च पवनस्य समैर्जवे
पानमत्तैर्नरैर्युक्तमुद्यानेषु ततस्ततः ॥
शङ्खभेरीमृदङ्गानां पटहानां च निःस्वनैः
विविधानां च वाद्यानां वादित्रं सर्ववेश्मगम् ॥
ब्रह्मघोषं महाघोषं वीणावेणुनिनादितम्
हृष्टपुष्टजनाकीर्णं सर्वबाधाविवर्जितम् ॥
पद्मकिञ्जल्कवर्णाभिर्युतं स्त्रीभिः सहस्रशः
श्यामाभिश्च महाराज काण्डगौरीभिरेव च ॥ ॥
नानावेषधरैर्युक्तं नानादेशोद्भवैस्तथा
नरैरनेकरूपैश्च शिल्पज्ञैश्च ह्यनेकशः ॥
पुरस्य तस्य मध्ये सा ददर्श नृपतेर्गृहम् ।२२ ॥
मध्ये हिमाचलस्येव कैलासं पर्वतोत्तमम् ॥
श्रीमद्भिः संयुतं रम्यैर्गृहमेधैः सहस्रशः
सुधावदातैर्विपुलैश्चन्द्ररश्मिसमप्रभैः ॥
क्वचिद्रात्नैः क्वचिद्रौक्मैः क्वचिद्भूपाल राजतैः
मणिविद्रुमसोपानैर्मुक्ताजालविभूषितैः ॥
क्वचिच्च पुष्पदामाढ्यैर्वैजयन्तीयुतैः क्वचित्
तस्याविदूरे विपुलं वनं चैत्ररथोपमम् ॥
राज्ञः क्रीडावनं रम्यं ददर्श विपुलेक्षणा
द्रुमैर्बहुविधैर्युक्तं पुष्पपूगफलोपगैः ॥।
पद्मिनीभिर्विचित्राभिः क्रीडाशैलैर्मनोहरैः
प्रासादैश्च तथा रम्यै रम्यैर्मणिगणैस्तथा ॥
तत्तु रम्भावनं दृष्ट्वा सखी वचनमब्रवीत्
राज्ञः क्रीडावने रम्ये गहनेऽस्मिन्सुलोचने ॥
मायाच्छन्ना निवत्स्यावो यावदस्तमयं रवेः
ततो गत्वा नरेन्द्रं तं चोक्त्वा तव चिकीर्षितम्॥
अहं त्वां तु नयिष्यामि सविधे तस्य भूपतेः ॥
एवमुक्त्वा सखी वाक्यं नोदयामास चोर्वशी
क्रीडावनं ते च ततोऽवतीर्णे तद्देवरामे सुमनोभिरामम् ॥
क्रीडावने तत्र तथोर्वशी सा सूर्यास्तकालं मनसा समैच्छत्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे क्रीडावनावतरणो नामैकत्रिंशदुत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0