भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.130

1.130.1

वज्र उवाच ॥
नाकं त्यक्त्वोर्वशी ब्रह्मन्बुधपुत्रं कथं गता ॥
क्व च सा तं नरेन्द्रेन्द्रं दृष्टवत्यपराजितम्

1.130.2

मार्कण्डेय उवाच ॥
मनो वैवस्वतस्यास्य द्वापरे प्रथमे पुरा ॥
वृत्ते देवासुरे युद्धे वृत्ते चामृतमन्थने

1.130.3

संग्रामे कृतकर्माणं तस्मिन्नेव नराधिपम् ॥
शक्रस्यार्धासन गतं रूपेणाप्रतिमं तदा

1.130.4

सम्पूज्यमानं त्रिदशैर्ददर्शायतलोचना ॥
बुधपुत्रं नरेन्देन्द्रं तदा नारायणात्मजा

1.130.5

दृष्ट्वा बभूव चास्वस्था काममार्गणताडिता ॥
ततः प्रभृति भव्येषु मेरुकुञ्जेषु भामिनी

1.130.6

आकारं गूहमाना सा कालं नयति कामिनी ॥
चिन्तयन्ती नरेन्द्रेन्द्रं कन्दर्पप्रतिमं सदा

1.130.7

न सा भुङ्क्ते न स्वपिति श्रान्ता स्वपिति वा यदा ॥
तदा पश्यति तं स्वप्ने नीलनीरजलोचना

1.130.8

मनोरथाँश्च कुरुते याँश्च तं प्रति भूमिपम्

1.130.9

तानि सा पश्यति स्वप्ने कथञ्चित्स्वप्नमोहिता ॥
कदाचित्क्रीडिते राज्ञा कदाचिदनुनीयते

1.130.1.130.10

सुप्ता कदाचिद्राजेन्द्र वदती प्रतिबुद्ध्यते ॥
कण्ठे गृहीता सा राज्ञा तया चासौ महीपतिः

1.130.11

एवं दृष्ट्वा तु सा स्वप्ने निद्रामोहमुपागता ॥
तथैव बाहुपाशेन रचितेन विबुध्यते

1.130.12

स्वप्नसंस्थं यदा दृष्ट्वा मोहमायाति सा चिरम् ॥
कृत्वा चित्रगतं पट्टे कदाचिच्च निरीक्षते

1.130.13

एवं नरेन्द्रे गतसर्वभावां विज्ञाय तां चारुतराङ्गयष्टिम् ॥
आपाण्डुरक्षामकपोलभित्तिं दृष्ट्वैव रम्भां त्वरितं जगाद

1.130.14

यत्नेन चार्वङ्गि निगूहमाना भावं मया त्वं विदितासि सुभ्रूः ॥
तस्मिन्नरेन्द्रे हृदयं तवेदं योऽसौ महात्मा समरेष्वजेयः

1.130.15

पुरूरवा नाम जगत्त्रयेऽस्मिन्ख्यातिं गतः सच्चरितैर्नृवीरः॥
रूपेण कामं व्यतिरिच्य भाति शौर्येण शक्रादतिरिच्यते सः

1.130.16

दाने समस्तस्य च नास्ति कश्चित्स त्येप्यनौपम्यगुणे नृवीरः ॥
देवासुरेऽस्मिन्समरे हतानि तेनासुराणां नियुतानि पञ्च

1.130.17

केशी विशालो मदनस्तथोग्रो महाबलस्तेन तथापि शस्तः ॥
चन्द्रस्य पौत्रश्च बुधस्य पुत्रो मातापि तस्यार्कसुतस्य धात्री

1.130.18

मानं समुत्सृज्य विशालनेत्रं तं गच्छ बाले नृपतिं प्रतीतम् ॥
त्वदाप्तये तस्य च नास्ति यत्नः सुदुर्लभत्वं खलु देवतानाम्

1.130.19

मनोरथानां त्वमगम्यभूमिर्यस्माद्विशालाक्षि सुरासुराणाम् ॥
मृणालशय्या सुतनु त्वयेव संक्लेशिता चन्दनपङ्कयुक्ता

1.130.1.130.20

तस्याङ्कमारुह्य भवस्व कान्ते विमुक्ततापा तपनीयवर्णे ॥
यास्याम एह्येहि नरेश्वरस्य तस्याशु भो वेश्म वरप्रयोगे

1.130.21

पुरं प्रतिष्ठानमिति प्रतीतं मातामहाद्यत्समवाप राजा ॥
इत्येवमुक्ता तपनीयवर्णा तथ्यं विदित्वा त्रपिता बभूव

1.130.22

उवाच रम्भां सखि तथ्यमुक्तं त्वया मतं तदुचितं भृशं मे ॥
यास्याव अद्यैव नरेश्वरस्य तस्यान्तिकं बालमृगाभनेत्रे

1.130.23

यद्यद्य तं नीलसरोजनेत्रं सम्पूर्णचन्द्राभमुखं नरेन्द्रम् ॥
पश्यामि नाहं पृथुदीर्घबाहुं ततो गमिष्याम्यवशावसानम्

1.130.24

पञ्चैव कामस्य जनः पृषत्कान्यदाह रम्भे तदलं मृषैव ॥
ममानिशं बाणभरैस्तु विध्यन्न शाम्यते त्वक्षिनिमेषमात्रम्

1.130.25

कामाग्निमध्ये परिवर्तमानं न याति भस्मत्वमिदं शरीरम् ॥
तस्यैव राज्ञो वदनेन्दुना तत्संरक्ष्यते मे हृदयस्थितेन

1.130.26

नयस्व मां तस्य विशालनेत्रे समीपमद्यैव नरेश्वरस्य ॥
इत्येवमुक्ता करुणं हि रम्भा पाणावुपादाय विशालनेत्राम्

1.130.27

बुद्ध्या समुत्प्लुत्य ततोऽन्तरिक्षं जगाम राज्ञो भवनं प्रहृष्टा

1.130.130

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे उर्वशीरम्भासंवादो नाम त्रिंशदुत्तरशततमो ऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc