विष्णुधर्मोत्तरपुराणम् · अध्याय 1.129
॥ वज्र उवाच ॥ ॥
उर्वशी च कथं जाता बुधजं पार्थिवं कथम् ॥
पतिं कृतवती देवी मानुषं तत्प्रकीर्तय
मार्कण्डेय उवाच ॥
साध्यौ धर्मसुतौ प्रोक्तौ नरनारायणावृषी ॥
यौ तौ पूर्वं महीपालौ तावुभौ यदुनन्दन
विष्णोरंशौ महावीर्यौ तपस्यभिरतौ सदा ॥
तयोस्तदाश्रमं रम्यं सुगन्धिविटपद्रुमम्
बदर्याश्रममित्युक्तं मृदुस्पर्शहिमं शुभम् ॥
उष्णतोयवहा गङ्गा शीततोयवहा परा
सुवर्णसिकता रम्या काञ्चनोत्पलमालिनी ॥
तत्र सा बदरी रम्या नित्यपुष्पफलोपगा
तत्र तौ मुनिशार्दूलौ घोरं तप उपाश्रितौ ॥
भवाय सर्वलोकस्य सर्वलोकेश्वरावुभौ
तयोस्तपस्यतोरेवं मौनेयाप्सरसो दश ॥
तयोस्तु तपसा विघ्नं संभूय कृतनिश्चयाः
तं प्रदेशमनुप्राप्ता नानाभरणभूषणाः ॥
पितामहान्न सौम्योऽस्ति कश्चिद्राजञ्जगत्त्रये
तासां दर्शनमासाद्य नरः कामवशो भवेत् ॥
कुसुमानि विचिन्वत्यो ललन्त्यश्च यथासुखम्
दृष्टा नारायणेनाथ सर्वा बालमृगेक्षणाः ॥
तासामन्तर्गतं भावं ज्ञात्वा वेदविदां वरः
जितक्रोधो महातेजा जितकामोऽर्थधर्मवित् ॥
आदाय सहकारस्य रसं मदनदीपनम्
ऊर्वोश्चित्रेण चार्वङ्गीं निर्ममेऽप्सरसं शुभाम् ॥
ऊर्वोः कृता सा चित्रेण चित्राकरणशालिनी
तस्मिन्नेव क्षणे नारी बभूवायतलोचना ॥
न देवी न च गन्धर्वी नासुरी न च पन्नगी
तादृग्विधा त्रिलोकेऽस्मिन्यादृशी सा वराङ्गना ॥
तां दृष्ट्वा व्रीडितास्सर्वा मौनेयाप्सरसो दश
जग्मुर्यथागतं राजँस्तच्छुश्राव पुरन्दरः॥
द्रष्टुं कौतूहलात्तां च बदर्याश्रममागतः
पादयोर्न्यपतद्वज्री साध्ययोर्धर्मनित्योः ॥
ददर्श च शुभाङ्गीं तां श्रियं देवीमिवापराम्
तमुवाच हसन्साध्यस्तदा नारायणः प्रभुः ॥
ममोरुजाता धर्मज्ञ उर्वशीयं भवेदिति
नयस्व त्रिदिवं चैनां भवत्वप्सरसां शुभा ॥
एवमुक्ते मुदं प्राप्य अभिवाद्य च तावृषी
अनयत्तां ततः स्वर्गं देवीं बालमृगेक्षणाम् ॥
शिष्यत्वे प्रददौ त्वेनां गन्धर्वस्य च तुम्बुरोः
ततः कदाचिच्छक्रस्य ननर्त पुरतस्तु सा ॥
उपदेशमतिक्रम्य तुम्बरोश्चारुहासिनी
तां शशाप स गन्धर्वो मानुष्ये वत्स्यसे शुभे ॥
देवलोकमिमं त्यक्त्वा मानुषेण सहानघे
कञ्चित्कालमुपास्यैवं मानुषं तं शुचिस्मिते ॥
आगम्य त्रिदिवे तावत्तस्मादभ्यस्यसे ततः
तेनैव सार्धं त्रिदिवे रंस्यसे त्वं शुभानना ॥
वैवस्वताख्यस्य मनोर्यावदन्तरमुच्यते
एवं हि शप्ता नृपवर्य तेन पपात राजन्गुरुणा नृलोके ॥
उवास राज्ञा सहिता तु तस्मात्स्वर्गं समासाद्य तथैव तेन
॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे उर्वशीसंभवो नामैकोनत्रिंशदधिकशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0