विष्णुधर्मोत्तरपुराणम् · अध्याय 1.128
॥ मार्कण्डेय उवाच ॥
जनयामास राजेन्द्र दनुर्दानवपुङ्गवान् ॥
विप्रचित्तिमुखान्वीरान्दैत्यपक्षमुपाश्रितान्
कालं च जनयामास कालकेयान्सुदारुणान् ॥
दैत्यपक्षाश्रितान्क्रूरान्विरुद्धान्देवतागणे
दनायुषायाः पुत्रस्तु वृत्रो नाम महासुरः ॥
विरुद्धस्तु सदा देवैर्दैत्यपक्षमुपाश्रितः
सिंहिका जनयामास सैंहिकेयान्महासुरान् ॥
राहुसाल्वमुखान्वीरान्बहूनमिततेजसः
गन्धर्वाप्सरसो दिव्या मुनयस्तान्निवोध मे ॥
चित्रसेनोग्रसेनौ च ऊर्णायुरनघस्तथा
धृतराष्ट्रश्च गोपश्च सूर्यवर्चास्तथैव च ॥
युगपस्तृणपः पार्ष्णिरर्धश्चित्ररथस्तथा
कलिः शालिशिराश्चैव पर्जन्यो नारदस्तथा ॥
तेषां चैव यवीयस्यो दिव्याश्चाप्सरसः शुभाः
अनूचानानवद्या च प्रियमुख्या गणेश्वरी ॥
मिश्रकेशी तथा चापि पर्णाशा पुञ्जिकस्थला
मरीचिः शुचिका चैव विद्युत्पर्णी तिलोत्तमा ॥
आट्टिका लक्ष्मणा क्षेमा देवी रम्भा मनोरमा
आसिता च सुबाहुश्च सुव्रता सुवपुस्तथा ॥
पुण्डरीका सुगन्धा च सुदारा सुरसा तथा
हेमा शरद्वती चैव प्रसूता कमला च या ॥
सुमुखी हंसमार्गा च सौरीयाप्सरसः स्मृताः
कद्रूश्च जनयामास नागास्तीव्रपराक्रमान् ॥
येषां शेषः प्रधानस्तु विष्णुर्नागवपुर्धरः
येनेयं धार्यते भूमिः सशैलवनकानना ॥
आहेयी वासुदेवस्य पूर्वं मृर्तिर्मयेरिता
अनन्त इति विख्याता महाकल्पविनाशिनी ॥
महाकल्पे महासत्त्वे स्वयं भवति सदा
तस्यांशेन समुत्पन्नः शेषो हि धरणीधरः ॥
तस्यानुजांस्ते नागेन्द्रान्प्राधान्येन वदाम्यहम्
वासुकिस्तक्षकश्चैव ऐलापत्रो धनञ्जयः ॥
ऐरावतो महापद्मः कम्बलाश्वतरावुभौ
शङ्खपद्मौ महापद्मो धृतराष्ट्रबलाहकौ ॥
नीलाश्वः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा
नहुषः कररोमा च कुरुश्च कुलिकस्तथा ॥
क्रोधश्च जनयामास दश कन्या नराधिप
पुलहाय च ता दत्ताः कश्यपेन महात्मना ॥
मृगा च मृगमन्दा च हरिभद्रा मनोहरा
भूता च कशिपा दंष्ट्रा सरसा सुरसा तथा ॥
इरा चैव तृणं सर्वं जनयामास भामिनी
पञ्चप्रकारं धर्मज्ञ तं मे निगदतः शृणु ॥
वृक्षगुल्मलता वल्यस्त्वक्सारतृणजातयः
अन्तःसंज्ञा भवन्येता घोरेण तमसा वृताः ॥
एतेषामभिमानिन्यो देवता यदुनन्दन
जनयामास धर्मज्ञ इरा दाक्षायणी शुभा ॥
प्राधा प्रसूताप्सरसस्तासां नामानि मे शृणु
अनवद्या अनूका च सूनूका करुणप्रिया ॥
मनूना सुभगा चैव सहजन्या च मेनका
घृतस्थूला घृताची च विषूची पूर्वचित्यपि ॥
प्रम्लोचीत्यप्सराश्चैव निम्लोचन्ती तथैव च
अनेनैव प्रसंगेन तथान्यासां महीपते ॥
जन्म तेऽप्सरसां वक्ष्ये तन्मे निगदतः शृणु
सुन्दोपसुन्दनाशाय निर्मिता विश्वकर्मणा ॥
तिलंतिलं समादाय सर्वरत्नैस्तिलोत्तमा
यस्याः प्रदक्षिणाज्जातश्चतुर्वक्त्रः पिनाकभृत् ॥
सहस्रनयनः श्रीमान्वज्री शक्रश्च पाकहा
शेषैर्देवगणैर्दृष्ट्वा भ्रमद्वक्त्रैः प्रदक्षिणैः ॥
कृते कर्मणि सा प्राप्ता सूर्यलोकं वराङ्गना
एकस्थं रूपसौन्दर्यं द्रष्टुमिच्छन्पितामहः ॥
अहल्यां नाम कृतवांस्त्रैलोक्यस्यैकसुन्दरीम्
गौतमाय च तां प्रादाद्ब्रह्मा शुभचतुर्मुखः ॥
यस्याः कृते गौतमेन शक्रो निर्वृषणः कृतः
नारायणोरुसंभूता तथा चैवोर्वशी शुभा ॥
संत्यक्तमानसा वव्रे भर्तारं बुधजं नृपम्
।
पुरूरवसनामानं रूपेणाप्रतिमं भुवि ॥
तेनैव सार्धमद्यापि दिवं प्राप्ता च तिष्ठति
आहूत्य इति विख्याता तथैवाप्सरसः शुभा ॥
ब्रह्मणा मनसा सृष्टा देवरामा मनोरमाः
मनोः सुताः शौचवत्यो विद्युज्जालरुचः स्मृताः ॥
भीरवश्च सुता मृत्योर्भूमिजाता भुवः स्मृताः
अमृताख्याश्च सम्भूतास्तथैवामृतमन्थने ॥
वह्निजाता सुदा नाम सोमाद्भेकुरयास्तथा
आयुर्वत्यस्तथा प्रोक्ताः सूर्यरश्मिसमुद्भवाः ॥
यज्ञोत्पन्नास्तथा नाम ऋक्सामभ्यस्तथेष्टयः
वायूत्पन्ना सुदा नाम देवरामाः प्रकीर्तिताः ॥
इत्येते बहुसाहस्रा विज्ञेयाप्सरसां गणाः
देवतानामृषीणां च पत्न्यस्ता मातरश्च वै ॥
सुगन्धाश्चाप्यनिष्यन्दा सर्वा ह्यप्सरसः शुभाः
तासामाप्यायते स्पर्शादानन्दं चाश्नुते महत् ॥
विनता जनयामास रुद्रान्वै सोमपीथिनः
अङ्गारकं तथा सूर्यं निरृतिं च खगं तथा ॥
अजैकपादाहिर्बुध्न्यधूमकेतु ध्वजास्तथा
हवनं नृश्वरं स्वभ्यं कपालमथ किङ्किणीम् ॥
एकादशैते कथितास्तव रुद्रा महाबलाः
येषां च जनयामास द्वौ पुत्रौ यक्षराक्षसौ ॥
ययोः सन्तानसंभूता राजन्वै यक्षराक्षसाः
इमं च वंशं नियमेन यः पठेन्महात्मनां ब्राह्मणदेवसन्निधौ ॥
अपत्यलाभं स लभेत् पुष्कलां श्रियं तथा प्रेत्य च शोभनां गतिम्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कश्यप सर्गो नामाष्टाविंशत्यधिकशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0