भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.127

1.127.1

वज्र उवाच ॥
दितिर्विनष्टपुत्रा च यच्चकार द्विजोत्तम ॥
तन्ममाचक्ष्व संक्षेपात्तत्र मे संशयो महान्

1.127.2

मार्कण्डेय उवाच ॥
दितिर्विनष्टपुत्रा च तपसा महता नृप ॥
आराधयामास तदा भर्तारं कश्यपं मुनिम्

1.127.3

आराधितः सुतपसा च्छन्दयामास भामिनीम् ॥
वरेण च वचः काले पुत्रव्यसनकर्षिताम्

1.127.4

कश्यप उवाच ॥
वरं वरय सुश्रोणि वरदोऽहमुपस्थितः ॥
एवमुक्ता वरं वव्रे देवी पुत्रविनाकृता

1.127.5

दितिरुवाच ॥
शक्रहन्तारमिच्छामि पुत्रं ब्रह्मन्यशस्विनम् ॥
यदि तुष्टोऽसि मे ब्रह्मंस्तं प्रयच्छ सुतं मम

1.127.6

मार्कण्डेय उवाच ॥
एवमुक्तस्तदा भर्ता नातिप्रीतोऽब्रवीद्वरम् ॥
एवं ते भविता भद्रे शुचि त्वं चेद्भविष्यसि

1.127.7

पूर्णवर्षसहस्रं च नान्यथा तद्भविष्यति ॥
एवमुक्त्वा तया सार्धमुवास रजनीं द्विजः

1.127.8

ततो जगाम धर्मात्मा तपसे दृढनिश्चयः ॥
आतस्थौ नियमं देवी सगर्भा च दितिस्तदा ॥
नियमस्थां तु तां दृष्ट्वा शक्रो वचनमब्रवीत्

1.127.9

शक्र उवाच ॥
अहं देवि करिष्यामि तव शुश्रूषणं सदा ॥
स्थिताया नियमे घोरे तदनुज्ञातुमर्हसि

1.127.1.127.10

मार्कण्डेय उवाच ॥
बाढमस्त्वित्यथोक्तस्तु तया देवः पुरन्दरः ॥
तत्रोवास च्छलान्वेषी शुश्रूषुर्मातरं सदा

1.127.11

तदाब्दशेषे काले च दिवा सुप्ताऽदितिर्नृप ॥
मध्याह्नसमये राजन्पादयोः कृतमूर्धजा

1.127.12

तस्याः संप्राप्य तच्छिद्रं वज्री परपुरञ्जयः ॥
विवेश गर्भमार्गेण विवृतेन नरेश्वर

1.127.13

संप्रविश्यैव तं गर्भं वज्रेण शतपर्वणा ॥
कृतवान्सप्तधा वज्री भागंभागं ततः पुनः

1.127.14

एकैकं सप्तधा चक्रे गर्भोऽपि प्रारुदत्तदा ॥
मा रुदस्वेति तं वज्री प्राह कार्ये स्वके स्थितः

1.127.15

एतस्मिन्नेव काले च दैत्येन्द्रजननी तदा ॥
विबुद्धा वारयामास शक्रं दशशतेक्षणम्

1.127.16

वज्रगर्भाञ्जलिः शक्रो मातुर्वचनयन्त्रितः ॥
निश्चक्रामोदरात्तस्याः सह बालैर्महात्मभिः

1.127.17

तं जगाद दितिः शक्रं प्राञ्जलिं पुरतः स्थितम् ॥
न ते शक्रापराधोऽस्ति मम गर्भनिकृन्तने

1.127.18

सर्वोपायैर्नियन्तव्यः शत्रुर्नयविदा सदा ॥
ममापराधाद्गर्भोऽयं त्वयाद्य बहुधा कृतः

1.127.19

भवन्तु मरुतो नाम सर्वे देवाः पृथक्पृथक्॥
मा रुदध्वमिति प्रोक्ता यतः शक्र त्वया सुताः

1.127.1.127.20

ततश्च मरुतो नाम भविष्यन्ति जगत्त्रये ॥
त्वत्सहाया भविष्यन्ति त्वदाज्ञावशवर्तिनः

1.127.21

न चैतेभ्यो भयं किञ्चित्कदाचित्ते भविष्यति ॥
एषां नामविभागाँस्तु स्थानानि च तथा कुरु

1.127.22

एकज्योतिश्च द्विर्ज्योतिस्त्रिचतुर्ज्योतिरेव च ॥
एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः

1.127.23

प्रथमे पवन स्कन्धे गणोऽयं सुरथः स्मृतः ॥
इन्द्रश्च गव्यो दृश्यश्च इतः प्रतिशिरास्तथा

1.127.24

मितश्च सम्मितश्चैव अमितश्च महाबलः ॥
द्वितीये पवन स्कन्धे गणो नाम प्रघोषणः

1.127.25

ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा ॥
अतिमित्रो नामित्रश्च पृरुमित्रोऽपराजितः

1.127.26

तृतीये पवनस्कन्धे गणः सन्तापनः स्मृतः ॥
ऋतेश्च ऋतवान्धाता विधाता धरणो ध्रुवः

1.127.27

विधारणः चतुर्थस्तु गृहमेधो गणः स्मृतः ॥
इदृक्षश्च सदृक्षश्च एतादृगमृताशनः

1.127.28

क्रीतनः प्रसदृक्षश्च सरभश्च महायशाः ॥
गृहे च रोषणा नाम वायुस्कन्धे च पञ्चमे

1.127.29

धर्ता दुर्गध्व निर्भीमो ह्यभियुक्तिः कृपा सहः ॥
षष्ठे तु पवनस्कन्धे सास्वी नाम गणः स्मृतः

1.127.1.127.30

द्युतिर्वपुरनादृश्यो कामो जयो विराट् ॥
प्रेजेषणो गणो नाम वायुस्कन्धे च सप्तमे

1.127.31

एषां नामविभागन्तु दत्त्वा स्थानानि चाच्युतः ॥
जगाम स्वगृहं प्रीत्या दितिश्च स्वगृहं ययौ

1.127.32

एतत्तवोक्तं मरुतां नृवीर जन्मोत्तमं पापभयापहारि ॥
यस्मिञ्श्रुतेनैव जनस्य लोके भवन्तु वृत्त्या न भविष्यतीह

1.127.127

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० मरुदुत्पत्तिर्नाम सप्तविंशत्यधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc