भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.126

1.126.1

वज्र उवाच ॥
यदुक्तं दैत्यनाथेन दैत्यानां कालनेमिना ॥
पातालदैत्यशमनं वपुर्देवस्य चक्रिणः

1.126.3

तदहं श्रोतुमिच्छामि तत्र मे संशयो महान् ॥
चरितं तस्य देवस्य भावान्वेत्ति यथातथम्॥
मार्कण्डेय उवाच ॥
विष्णुना तु बलौ बद्धे पातालतलमाश्रिताः॥
जघ्नुदैत्यगणा लोकान्ब्राह्मणांश्च विशेषतः

1.126.4

।
भूतले हन्यमाने तु यज्ञे नाशमुपागते ॥
क्षुत्क्षामस्त्रिदशैर्ब्रह्मा दैत्यहेतोः प्रचोदितः

1.126.85

ब्रह्मापि चोदयामास देवदेवं जनार्दनम्॥
ब्रह्मणा चोदितो देवः पातालगमनेच्छया

1.126.6

चकार रूपं वाराहं भिन्नाञ्जनचयप्रभम् ॥
शशाङ्कलेखादंष्ट्राग्रं वज्रप्रोथखुरं तथा

1.126.7

वज्रसंहननं भीमं त्रैलोक्यक्षोभकारकम् ॥
पीनवृत्तायतस्कन्धं महापीनशिरोधरम्

1.126.8

विवृत्तास्यं महाकायं भीमाक्षं भीमनिस्वनम् ॥
आवर्त्तिरोमसंघातं तेन विग्रहमूर्जितम् ॥

1.126.9

स समुद्रेण पातालं प्रविश्य मधुसूदनः ॥
दैत्यानां दर्शने तस्थौ महाबलपराक्रमः

1.126.1.126.10

पाताले सूकरं दृष्ट्वा प्रोथदारितभूतलम् ॥
सुमुस्तगर्भकवलं शुंशुकारकृताननम्

1.126.11

पङ्कानुलिप्तसर्वाङ्गं निर्ययुर्दानवास्तदा ॥
सततं मृगयाशीला जघ्नुस्तञ्च वरायुधैः

1.126.12

स हन्यमानो दैत्यास्त्रैः पृषतैरिव पर्वतः ॥
स्कन्धकण्डूच्छलेनाजौ दैत्याधिपनिवेशनम्

1.126.13

पातयामास वेगेन महाद्रिशिखरोपमम् ॥
वेश्मनश्च निपातेन देवदेवस्य मायया

1.126.14

हन्यन्ते दानवा घोराः शतशोऽथ सहस्रशः ॥
ते क्षयाद्दैत्यमुख्यानां दैत्यमुख्यक्षयङ्कराः

1.126.15

यथार्थक्षयतां जग्मुः क्षये रौद्र उपस्थिते ॥
क्षीयमाणाः क्षयैर्दृष्ट्वा क्षतजोत्क्षिप्तमूर्धजान्

1.126.16

क्ष्मातलस्थान्क्षतैर्गोत्रैः क्षणेन क्षणदाचरान् ॥
प्रधाना दैत्यमुख्या ये औरसेरन बलेन ते

1.126.17

जग्मुर्वरायुधैर्देवं शतशोऽथ सहस्रशः ॥
स हन्यमानो दैत्येन्द्रैः प्रोथेन दितिजोत्तमान्

1.126.18

विदारयामास रणे दंष्ट्राग्रेण तथापरान् ॥
एवं वराहेण रणे हतान्दृष्ट्वा दिते सुतान्

1.126.19

हरिं विज्ञातवान्देवं प्रह्रादो दैत्यसत्तमः ॥
स प्रणम्य हरिं देवं तुष्टाव परवीरहा

1.126.1.126.20

तं जगाद महातेजा देवदेवो जनार्दनः ॥
अनुग्राह्योऽसि मे दैत्य भक्तोऽसि सततं यतः

1.126.21

तवाज्ञालङ्घका घोरा प्रायेण निहता मया ॥
तवाज्ञाकारिणो दैत्या न मे वध्या दितेः सुताः

1.126.22

शासनं पालय मह्यं पाताले त्वं सुखी भव ॥
मार्गे स्थापय दैत्याँस्त्वं त्वदाज्ञापरिबृंहितान्

1.126.23

आभूतसंप्लवं दैत्य जीवं त्वं न विमोक्ष्यसे ॥
धर्मिष्ठानां च दैत्यानां सदा राजा भविष्यसि

1.126.24

मद्भक्त्या परया वत्स पुत्रस्तव विरोचनः ॥
मार्गच्युतोऽपि न हतः कल्पायुश्च तथा कृतः

1.126.25

बलिर्वैरोचनश्चैव मया बद्धः कृते तव ॥
करिष्यति स शक्रत्वं प्राप्ते सावर्णिकेन्तरे

1.126.26

बाणं च तनयं तस्य मम विप्रियकारकम् ॥
त्वत्कृते न हनिष्यामि तस्य च्छेत्स्यामि दोर्द्रुमान्

1.126.27

छिन्नबाहुर्मया युद्धे हरस्यानुचरो बली ॥
महाकाल इति ख्यातो कल्पस्थायी भविष्यति

1.126.28

एकमेकं तु दैत्येन्द्र सन्ताने सततं तव ॥
नाहं वधिष्ये धर्मज्ञ त्वत्कृते व्येतु ते भयम्

1.126.29

भवान्भक्तस्तथा मह्यं भक्तेष्वपि तथा मम ॥
नास्त्यदेयं महाभाग तस्मात्त्वं गच्छ निर्वृत्तः

1.126.1.126.30

हतशेषानुपादाय दैत्यान्सत्पथमाश्रितान् ॥
एतावदुक्ता प्रह्रादं तत्रैवान्तरधीयत

1.126.31

एतद्वाराहचरितं तव राजसिंह प्रोक्तं मया सकलकल्मषनाशकारि ॥
उदवृत्तदैत्यशमनस्य ऋषिस्तुतस्य कण्डूविनोदनहतासुरपुङ्गवस्य

1.126.126

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पाताले वराहप्रादुर्भावो नाम षड्विंशत्यधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc