भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.125

1.125.1

॥ मार्कण्डेय उवाच ॥
दृष्ट्वा स पुरतो देवं दानवानभ्यभाषत ॥
अयं स दृश्यते विष्णुर्दानवा येन घातिताः

1.125.2

कुतृष्णयेव शक्रार्थे बभूव किल वामनः ॥
यदा वञ्चितवान्पुत्रं भ्रातृव्यस्य बलिं मम

1.125.3

नृवराहवपुः कृत्वा लोकचित्तहरं पुरो ॥
हिरण्याक्षं जघानैव पितृव्यं मम विस्मितम्

1.125.4

अपूर्वं रूपमास्थाय नरसिंहस्य दानवाः ॥
पितरं यो जघानैव हिरण्यकशिपुं रणे

1.125.5

वराहरूपिणानेन पातालतलमास्थिताः ॥
असम्भाव्यभयेनाजौ दानवा विनिपातिताः

1.125.6

नराश्व वपुषा येन मधुकैटभयोः पुरा ॥
पातालादाहृता वेदास्ततस्तौ युधि घातितौ

1.125.7

अस्याज्ञाकारिणो देवा न संतिष्ठन्ति शासने ॥
अयं स रक्षां देवानामस्माभिर्विप्रकृष्यताम्

1.125.8

त्रैलोक्ये दैत्यमुद्भूतं युद्धेनैव पुनःपुनः ॥
देवसाद्गम इत्येव तेन वध्योऽथ मे रिपुः

1.125.9

अतीतस्याद्य कालस्य दुर्नयस्य कृतस्य च ॥
भोक्ष्यतेऽयं फलं दैत्याः सर्वे पश्यन्तु मा चिरम्

1.125.1.125.10

इत्येतद्दैत्यनाथस्य वाक्यं श्रुत्वैव दानवाः ॥
जयशब्दं ततश्चक्रुः सिंहनादरवं तथा

1.125.11

वाचश्च प्रतिकूलास्तास्तेन दुष्टेन चेतसा ॥
तच्छ्रुत्वा च हरिर्देवः क्रुद्धो नामेदमब्रवीत्

1.125.12

किमिदं गर्जसे दैत्य शारदाम्बुदवद्वृथा॥
प्रजापतिकृतं सेतुं कथं लङ्घितुमिच्छसि

1.125.13

एवं कथतोर्देवदैत्ययोः पार्थिवोत्तम॥
प्रावर्तत रणो घोरो गदापातविभीषणः

1.125.14

दानवैर्देवदेवोऽपि कालनेमिपुरःसरैः॥
संछाद्यते महास्त्रौघैर्मेघैरिव नभस्तलम्

1.125.15

संछाद्यमानो दैत्येन्द्रैर्देवदेवो न विव्यथे ॥
योधयामास स रणे गदया दानवान्बहून्

1.125.16

तस्य दैत्यप्रसक्तस्य कालनेमिर्महासुरः ॥
पातयामास वेगेन गदां गरुडमूर्धनि

1.125.17

गदाघातेन रौद्रेण तेन तार्क्ष्यस्य मानद ॥
नासा भग्ना व्यथा जाता रक्तच्छर्दिश्च दारुणा

1.125.18

व्यथितं गरुडं दृष्ट्वा देवेन हरिमेधसा ॥
क्षिप्तं दैत्यविनाशाय तदा चक्रं सुदारुणम्

1.125.19

यत्तत्सुदर्शनं नाम सूर्यतेजःसमुद्भवम् ॥
वज्रनाभं सहस्रारं क्षरपर्यन्तमण्डलम्

1.125.1.125.20

च्युतं चक्रिकराच्चक्रं कालनेमिं महासुरम् ॥
शीघ्रं विशिरसं चक्रे विबाहुं च तथा नृप

1.125.21

विबाहुशिरसं कृत्वा देवहस्तमुपेयिवान् ॥
विबाहुशिरसं कायं क्षरच्छोणितनिर्झरम्

1.125.25

न पपातास्य मेदिन्यां यदा तार्क्ष्यस्ततो रयात् ॥
उरुसा पातयामास देवानां पश्यतां तदा

1.125.23

पतता दैत्यकायेन सशैलवनकानना ॥
कम्पिता वसुधा सर्वा पतिताश्च शिलोच्चयाः

1.125.24

दानवेन्द्रं हतं दृष्ट्वा मयतारपुरोगमाः ॥
तुष्टुवुर्देवदेवशं वरचक्रासिपाणिनम्

1.125.25

तुष्टाव च तदा देवो ब्रह्मा शुभचतुर्मुखः ॥
स्तुतश्च ब्रह्मणा देवो लोकपालान्यथा पुरा

1.125.26

स्थानेषु योजयामास यज्ञं देवमुखे तथा ॥
जगाम ब्रह्मणा सार्धं ब्रह्मलोकं तदा विभुः

1.125.27

तत्रात्मानं यज्ञमूर्ति मिज्यमानं द्विजोत्तमः ॥
दृष्ट्वा स्वयं तु जग्राह यज्ञभागं महात्मनाम्

1.125.28

तत्र पूजामुपादाय जगाम स हिरण्वतीम् ॥
अस्त्रैरनुगतस्तत्र सुष्वाप किल योगवित् ।

1.125.29

एवं स दैत्यप्रवरो नरेन्द्र कृष्णेन चक्रेण पुरा निरस्तः ॥
अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष

1.125.125

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कालनेमिवधो नाम पञ्चविंशत्यधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc