भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.124

1.124.1

मार्कण्डेय उवाच ॥
वाय्वग्नी सहितौ गत्वा मयतारपुरोगमान् ॥।
जिग्यतुः समरे दैत्यान्नानाप्रहरणोद्यतान

1.124.2

विजितास्ते रणे दैत्या मयतारपुरोगमाः॥
त्यक्तदेवालयाः सर्वे वरुणालयमागताः

1.124.3

एतस्मिन्नेव काले तु हिरण्यकशिपोः सुतः ॥
कालनेमिरिति ख्यातः शतशीर्षोनुदृश्यते

1.124.4

शतबाहुर्महाकायः पर्वताकारदर्शनः॥
ब्रह्मलब्धवरो रौद्रो दग्धशैलसमच्छविः

1.124.6

एकोदरो द्विपादश्च एकग्रीवः सुरान्तकः॥
अङ्गदी बद्धमुकुटः कुण्डलाम्बरभूषणः॥
सर्वायुधधरो रौद्रो गदापाणिर्विभीषणः ॥
दत्त्वाऽभयं स दैत्यानां तस्मै मेरुं सुरालयम्

1.124.7

गत्वा विजिग्ये त्रिदशान्स्थानेभ्यश्चावरोपयत् ॥
त्रैलोक्यमात्मसात्कृत्वा सुखमास्ते त्रिविष्टपे

1.124.8

तस्य ते ह्यनुगाः सर्वे लोकाः स्थावरजङ्गमाः ॥
तदाज्ञाकारिणः सर्वे तद्भावस्यानुवर्तकाः

1.124.9

पञ्च तत्राभ्यवर्तन्त विपरीतेन कर्मणा ॥
वेदो धर्मः क्षमा सत्यं श्रीश्च नारायणाश्रया

1.124.1.124.10

सर्वेषामनुसन्धानात्सरोषो दानवेश्वरः ॥
वैष्णवं पदमन्विच्छन्ययौ नारायणान्तिकम्

1.124.12

ज्ञात्वा दैत्यमथायान्तं देवोपि मधुसूदनः॥
तार्क्ष्यमावाहयाञ्चक्रे आरुरोह च तं हरिः॥
स ददर्श हरिं देवं तार्क्ष्यस्थं दैत्यराट् तदा॥
सजलजलदनीलं पद्मपत्रायताक्षं खगपतिमवरूढं कल्पवृक्षोपमानम्॥
हलमुसलगदाभिः शोभितं देवदेवं वरपुरुषमजेयं शार्ङ्गचक्रासिपाणिम्

1.124.124

इति श्री विष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कालनेम्युपाख्याने श्रीभगवद्दर्शनो नाम चतुर्विंशत्यधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc