भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.123

1.123.1

बृहस्पतिरुवाच॥
जगदायुर्भवान्वायो शरीरस्थः शरीरिणाम्।
अनन्तमूर्तिर्धर्मात्मा देवो नारायणः प्रभुः

1.123.2

अचिन्त्यवीर्यः पुरुषः सदाधारः सनातनः ॥
साक्षिभूतश्च सर्वेषां कर्मणां शुभपापयोः

1.123.3

घ्राणस्त्वं देहिनां देहे चेष्टितञ्च तथा भवान् ॥
भवान्रुद्रो भवान्ब्रह्मा भवान्विष्णुः सनातन

1.123.4

तवायत्तं हि जगतां वर्षावर्षं शुभाशुभम ॥
भवान्विसृजते मेघान्भवान्संहरते पुनः

1.123.5

भवान्धारयते मेघान्वर्षमाणाँस्तथा दिवि ॥
आदित्यरश्मिपीतस्य मेघोदरगतस्य च

1.123.6

रसस्य भङ्क्ता सततं भवानेव नभस्तले ॥
तडिल्लतानां च तथा भवान्कर्ता जगत्त्रये

1.123.7

अम्भसां भेदकाले तु सर्वाधारः समीरण ॥
परस्परं हि भवतस्तथा संघटनात्प्रभो

1.123.8

गर्जितं जायते लोके मेघोदर गतं महत् ॥
बलेन त्वत्समं नान्यं भूतं पश्यामि भूतले

1.123.9

तस्मात्त्वं कुरु साहाय्यं वेदमूर्तेर्विभावसोः

1.123.1.123.10

एतावदुक्तोङ्गिरसा महात्मा तथेति तं प्राह समीरणोऽपि ॥
जगाम युद्धं सह पावकेन दैत्येश्वरान्देवरिपून्महात्मा

1.123.123

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्र संवादे वायुस्तोत्रं नाम त्रयोविंशत्युत्तरशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc