भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.122

1.122.1

वज्र उवाच॥
हिरण्यकशिपोः पुत्रो कालनेमिर्महासुरः॥
कथं कृष्णेन निहतस्तन्ममाचक्ष्व पृच्छतः

1.122.2

मार्कण्डेय उवाच॥
यदा दैत्यवधे वृत्ते दैत्याः पातालमाश्रिताः॥
मयतारौ समाश्रित्य भूयो देवान्प्रदुद्रुवुः

1.122.3

तत्र देवगणाः सर्वे मयतारपुरःसरैः ॥
दानवैर्निहता युद्धे देवाचार्यं बृहस्पतिम्

1.122.4

संप्राप्ताः शरणं विप्रं तानुवाच बृहस्पतिः ॥
तारकश्च मयश्चैव महाबलपराक्रमौ

1.122.5

ययुर्जेतुं देवगणाँस्ताविमौ चोदयाम्यहम् ॥
एवमुक्त्वा देवगणान्देवाचार्यो बृहस्पतिः ॥
तुष्टाव देवदेवेशं बहुरूपं हुताशनम्

1.122.6

बृहस्पतिरुवाच ॥
त्वमग्ने सर्वभूतानामन्तश्चरसि पावक ॥
वेदास्त्वदर्थं जाताश्च जातवेदास्तथा ह्यसि

1.122.7

त्वं यज्ञस्त्वं वषट्कारस्त्वं हवींषि महाद्युते ॥
त्वं स देव चरस्यात्मा विष्णोरमिततेजसः

1.122.8

त्वं मुखं सर्वदेवानां सर्वस्यात्मा तथा भवान् ॥
ऊष्मा त्वं देहिनां देहे भुक्तपीतवतस्तथा

1.122.9

यच्छक्तिः सर्वदेवानां त्वदीया भूतभावन॥
प्राप्ता त्वयाहुतिः सम्यगादित्य मुपतिष्ठते

1.122.1.122.10

आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥
सर्वदेववरेशानः सर्वलोकनमस्कृतः

1.122.11

त्रैलोक्यस्य समुत्पत्तावेकः कारणतां गतः ॥
कालाग्निरुद्रो भगवाञ्जगत्संहारकारकः

1.122.12

स्थितौ निमित्तं च भवान्सर्वेषां देहिनां शमः॥
अतीव दुर्धरं देव तव तेजः सुदारुणम्

1.122.13

।
तेजसा तेन दैत्येन्द्राञ्जहि मा त्वं चिरं कृथा ॥
सखा च ते रणे देव भविष्यति समीरणः

1.122.14

इत्येवमुक्तोङ्गिरसा महात्मा तथेति तं प्राह नृपेन्द्र पूज्यम् ॥
जीवोऽपि गत्वा पवनं जगाद देवेश्वरस्यानघसिद्धिमिच्छन्

1.122.122

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादेऽग्निस्तोत्रं नाम द्वाविंशत्यधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc