भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.121

1.121.1

॥ मार्कण्डेय उवाच ॥ ॥
दितिः पुत्रद्वयं राजञ्जनयामास विश्रुतम् ॥
हिरण्याक्षं च दुर्धर्षं हिरण्यकशिपुं तथा

1.121.2

हिरण्याक्षो हतो राजन्नृवराहेण संयुगे ॥
हिरण्यकश्यपू राजन्नृसिंहेन निपातितः

1.121.3

हिरण्यकशिपोः पुत्रः प्रह्लादोऽरिकुलान्तकः ॥
कालनेमिश्च दुर्धर्षो विष्णुना घातितो युधि

1.121.4

आराध्य केशवं देवं प्रह्लादश्च महाबलः ॥
प्राप्तवाञ्जीवितं दीर्घं ब्राह्मं दिनमनुत्तमम्

1.121.5

कालनेमिश्च दुर्धर्षो महाबलपराक्रमः ॥
निहतो वासुदेवेन निवृत्ते तारकामये

1.121.6

प्रह्रादस्य सुतः श्रीमान्राजन्नाम्ना विरोचनः ॥
विरोचनसुतः श्रीमान्बलिरित्येव विश्रुतः

1.121.7

वामनं रूपमास्थाय बद्धो यो विष्णुना पुरा ॥
बलेर्बाणः सुतो राजन्स्मृतो बाहुसहस्रवान्

1.121.8

पितुस्ते श्वशुरः श्रीमान्पितुरर्थे तवानघ ॥
विवाहं कृतवान्कृष्णो नगरे शोणिताह्वये

1.121.9

यस्मिन्स वै देववरः प्रसह्य स्कन्दं च रुद्रं दितिजैः समेतम् ॥
रणे विजिग्ये नृपतिप्रधान सहानुगं वीर्यबलोपपन्नम्

1.121.121

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे दितिवंशानुकीर्तनं नामैकविंशत्यधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc