भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.120

1.120.1

॥ मार्कण्डेय उवाच ॥ ॥
अतः परं कश्यपस्य शृणु वंशं नराधिप ॥
यत्र प्रायेण संभूतं जगत्स्थावरजङ्गमम्

1.120.2

अदितेर्द्वादशादित्या देवपुत्राः प्रकीर्तिताः ॥
धाता पुत्रोऽर्यमा पूषा शक्रोंऽशो वरुणो भगः

1.120.3

त्वष्टा विवस्वान्वरुणो विष्णुर्द्वादशमस्तथा ॥
विष्णोरंशेन संभूताः साध्या देवगणा नृप

1.120.4

त एव तेजसोऽर्धेन जाताश्चैवादितेः सुताः ॥
नरनारायणौ चोभौ यौ ते राजन्मयेरितौ

1.120.5

इन्द्राविष्णू तथैवोक्ता वादित्येषु नराधिप ॥
मनोरन्तरमासाद्य सर्वत्रैव जनार्दनः

1.120.6

अंशेनैकेन भवति सगणः सोमपायिनाम् ॥
तस्मिन्गणे देववरो विष्णुर्लोक नमस्कृतः

1.120.7

तेजसाऽभ्यधिको नैको भवतीति न संशयः ॥
यस्तेषामार्तिशमनं करोति वसुधाधिप

1.120.8

कर्माण्यतीतेषु तथान्तरेषु वक्ष्ये भविष्येषु तथा नरेन्द्र ॥
मन्वन्तराणां परिकीर्तनेषु शृणुष्व तावद्दितिवंशमुग्रम्

1.120.120

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्क ण्डेयवज्रसंवादे आदित्योत्पत्तिर्नाम विंशत्यधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc