विष्णुधर्मोत्तरपुराणम् · अध्याय 1.119
॥ मार्कण्डेय उवाच ॥
अस्मिन्वैवस्वते प्राप्ते शृणु धर्मस्य पार्थिव ॥
दाक्षायण्याश्च सकलं शृणु त्वं वंशमुत्तमम्
एवं तानि महीदुर्गशरीराणि नराधिप ॥
अरुन्धत्या प्रसूतानि धर्मो वैवस्वतेन्तरे
अष्टौ च वसवः पुत्रा सोमपाश्च वसोस्तथा ॥
धरो ध्रुवश्च सोमश्च आपश्चैवानलानिलौ
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥
धरस्य पुत्राऽम्बुनिम्बः कालः पुत्रो ध्रुवस्य च
कालस्यावयवानां तु शरीराणि नराधिप ॥
मुहूर्तवर्जं कालाद्धि प्रसूतान्यविशेषतः
सोमस्य भगवान्वर्चाः श्रमस्त्वापस्य कीर्त्यते ॥
अनेकजन्मा जनवः कुमारश्चानलस्य तु
पुरोजवाश्चानिलस्य प्रत्यूषस्य च देवलः ॥
विश्वकर्मा प्रभासस्य त्रिदशानां स वार्धकिः
जामी दुहितरः प्रोक्ता नागवीथ्यादयो नव ॥
लंबापुत्रः स्मृतो घोरो भानोः पुत्रश्च भानवः
ग्रहर्क्षाणां तु सर्वेषां चान्येषामपि तेजसाम् ॥
मरुत्वत्यां मरुत्वन्तः सर्वे पुत्राः प्रकीर्तिताः
संकल्पायाश्च संकल्पास्तथा पुत्राः प्रकीर्तिताः ॥
मुहूर्ताश्च मुहूर्तायाः साध्यात्साध्यासुताः स्मृताः
मत्तोन्मत्तश्च प्राणश्च नरोपाणश्च वीर्यवान् ॥
चित्तिर्नरो हयश्चैव हंसो नारायणस्तथा
विभुश्चापि प्रभुश्चापि साध्या द्वादश कीर्तिताः॥
विश्वायाश्च तथा पुत्रा विश्वेदेवाः प्रकीर्तिताः
क्रतुर्दक्षो वसुः सत्यः कालः कामो धुनिस्तथा ॥
ऊरवान्मनुजो विश्वेरोमायाश्च हि ते दश
एतावदुक्तं तव धर्मवंशं संक्षेपतः पार्थिवसंघमुख्य ॥
व्यासेन वक्तुं न हि शक्तिरस्ति राजन्विना वर्षशतैरनेकैः
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० धर्मवंशानुकीर्तनं नामैकोनविंशाधिकशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0