विष्णुधर्मोत्तरपुराणम् · अध्याय 1.118
॥ मार्कण्डेय उवाच ॥
अतः परमगस्त्यस्य वक्ष्ये वंशोद्भवान्द्विजान् ॥
आगस्त्येयः करम्भो यः कौसल्याकुलजास्तथा
स्वमेधसो मयोभुवस्तथा गान्धारकायनिः॥
पौलस्त्याः पुलहाश्चैव क्रतुवंशभवास्तथा
वार्ष्णेयोऽपि मतश्चैषां सर्वेषां प्रवराः शुभाः ॥
अगस्त्यश्च महेन्द्रश्च ऋषिश्चैव मयोभुवः
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥
पौर्णमासाः पारणाश्च त्र्यार्ष्णेयाः परिकीर्तिताः
अगस्त्यः पौर्णमासश्च पारणश्च महातपाः ॥
परस्परमवैवाह्या पौर्णमासाश्च पारणम्
एतदुक्तमृषीणां ते वंशमुक्तमपूरुषम् ॥
अतः परं प्रवक्ष्यामि किं तवानघ कथ्यताम्
वज्र उवाच ॥
पुलहस्य पुलस्त्यस्य क्रतोश्चैव महात्मनः ॥
अगस्त्यस्य तथा चैकं कथं वंशं तदुच्यते
मार्कण्डेय उवाच ॥
क्रतुः खल्वनपत्योऽस्ति राजन्वैवस्वतेन्तरे ॥
इध्मवाहं स पुत्रत्वे जग्राह नृपसत्तम
अगस्त्यपुत्रं धर्मज्ञ आगस्त्यात्क्रतवस्तथा ॥
पुलहस्य तथा पुत्रः तिरश्चः पृथिवीपते
तेषां ते जन्म वक्ष्यामि उत्तरत्र यथा विधि ॥
पुलहस्त्वप्रजां दृष्ट्वा नातिप्रीतमना ह्यभूत्
अगस्त्यजं दृढस्युं तं पुत्रत्वे कृतवांस्तदा ॥
पौलहाश्च तथा राजन्नागस्त्याः परिकीर्तिताः
एते तवोक्ताः प्रवरा द्विजानां महानुभावा नृप गोत्रकाराः ॥
येषां च नाम्नां परिकीर्तनेन पापं समग्रं पुरुषो जहाति
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अगस्त्यवंशानुकीर्तनं नामाष्टादशाधिकशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0