विष्णुधर्मोत्तरपुराणम् · अध्याय 1.117
॥ मार्कण्डेय उवाच ॥ ॥
वसिष्ठस्तु महातेजा निमेः पूर्वपुरोहितः
बभूव पार्थिवश्रेष्ठ यज्ञैस्तस्य समन्ततः ॥
शान्तात्मा पार्थिवश्रेष्ठ विशश्राम तदा पुरा
तं गत्वा पार्थिवश्रेष्ठो निमिर्वचनमब्रवीत् ॥
भगवन्यष्टुमिच्छामि तन्मा याजय मा चिरम्
तमुवाच महातेजा वशिष्ठः पार्थिवोत्तमम् ॥
कञ्चित्कालं प्रतीक्षस्व तव यज्ञैः समन्ततैः
भृशं श्रान्तोऽस्मि विश्रम्य याजयिष्यामि ते नृप ॥
एवमुक्तः प्रत्युवाच वसिष्ठं नृपसत्तमः
पारलौकिककार्येषु कः प्रतीक्षितुमुत्सहे ॥
न यस्य सौहृदं ब्रह्मन्कृतान्तेन बलीयसा
धर्मकार्ये त्वरा कार्या चलं यस्माद्धि जीवितम ॥
धर्ममार्गरतो जन्तुर्मृतोऽपि सुखमश्नुते
श्वःकार्यमद्य कुर्वीत पूर्वाह्ने चापराह्णिकम् ॥
न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम्
क्षेत्रापत्यगृहासक्तमन्यत्र गतमानसम् ॥
वृकीवोरणमासाद्य मृत्युरादाय गच्छति
न कालस्य प्रियः कश्चिद्द्वेष्यो वास्य न विद्यते ॥
आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम्
प्राणो वायुश्चलत्वञ्च वायोर्विदितमेव च ॥
यत्र यज्जीव्यते ब्रह्मन्क्षणमात्रं तदद्भुतम्
सोऽहं सम्भृतसंभागे भवन्मूलमुपागतः ॥
न चेद्याजयसे मह्यं यास्याम्यन्यं तु याजकम्
एवमुक्तस्तदा तेन निमिना ब्राह्मणोत्तमः ॥
शशाप तं निमिं क्रोधाद्विदेहस्त्वं भविष्यसि
श्रान्तं मां त्वं समुत्सृज्य यस्मादन्यं द्विजोत्तमम् ॥
धर्मज्ञः सन्नरेन्द्राद्य याजकं कर्तुमर्हसि
निमिस्तं प्रत्युवाचाथ धर्मकार्यरतस्य मे ॥
विघ्नं करोषि नान्येन याजनं च तथेच्छसि
शापं ददामि तस्मात्त्वं विदेहोऽद्य भविष्यसि ॥
एवमुक्ते तु तौ जातौ विदेहौ द्विजपार्थिवौ
देहहीनौ तयोर्जीवौ ब्रह्माणमुपजग्मतुः ॥
आगतौ तौ समीपेऽथ ब्रह्मा वचनमब्रवीत्
अद्यप्रभृति ते स्थानं निमे जीवं ददाम्यहम् ॥
नेत्रपक्ष्मसु सर्वेषां मनुष्याणां भविष्यसि
त्वत्सम्बन्धात्तथा तेषां निमेषः सम्भविष्यति ॥
चालयिष्यन्ति तु यदा नेत्रपक्ष्माणि मानवाः
एवमुक्ते मनुष्याणां नेत्रपक्ष्मसु सर्वशः ॥
जगाम निमिजीवं तु वरदानात्स्वयम्भुवः
वशिष्ठजीवं भगवान्ब्रह्मा वचनमब्रवीत् ॥
मित्रावरुणयोः पुत्रो वशिष्ठ त्वं भविष्यसि
वशिष्ठ इति ते नाम तत्रापि च भविष्यति ॥
जन्मद्वयमतीतं च तत्रापि त्वं स्मरिष्यसि
एतस्मिन्नेव काले तु मित्रश्च वरुणस्तथा ॥
बदर्याश्रममासाद्य तपस्तेपतुरव्ययम्
तपस्यतोस्तयोरेवं कदाचिन्माधवे ऋतौ ॥
पुष्पितद्रुमसंछिन्ने शुभे दक्षिणमारुते
उर्वश्यथ वरारोहा कुर्वती कुसुमोच्चयम् ॥
ससूक्ष्मरक्तवसना तयोर्दृष्टिपथं गता
तां दृष्ट्वा सुमुखीं सुभ्रूं नीलनीरजलोचनाम् ॥
उभौ चुक्षुभतुर्वीर्यात्तद्रूपपरिमोहितौ
स्कन्नं रेतस्तयोर्दृष्ट्वा शापभीता वराप्सराः ॥
चकार कलशे सुभ्रूस्तोयपूर्णे मनोरमे
तस्मादृषिवरौ जातौ तेजसाप्रतिमो भुवि ॥
वशिष्ठश्चाप्यगस्त्यश्च मित्रावरुणयोः सुतौ
वशिष्ठस्तूपयेमेथ भगिनीं नारदस्य तु ॥
अरुन्धतीं वरारोहां तस्यां शक्तिमजीजनत्
शक्तेः पराशरः पुत्रस्तस्य वंशं निबोध मे ॥
यस्य द्वैपायनः पुत्रः स्वयं विष्णुरजायत
प्रकाशो जनितो येन लोके भारतचन्द्रमाः ॥
पराशरस्य तस्य त्वं शृणु वंशमनुत्तमम्
कार्द्रमयो वाहयानो जैमयो मैमतायनः ॥
गोपालिः पञ्चमश्चैषां ज्ञेया कृष्णपराशराः
प्रारोहयो बाह्यतपाः पार्षयः कौतुजातयः ॥
हार्यश्विः पञ्चमश्चैषां ज्ञेया नीलपराशराः
कार्ष्णायणाः कापिसौधाः कोकेयस्या तयास्तपाः ॥
पुष्करः पञ्चमश्चैषां ज्ञेया रक्तपराशराः
श्रविष्ठायना वार्ष्णेया दासेयाः श्लोकजाश्च ये ॥
इषीकहस्तः पञ्चमश्च एते श्वेता पराशराः
वटिका बादराश्चैव स्कम्भन्याः क्रोशकातयः ॥
क्षामिरेषां पञ्चमश्च एते गौरपराशराः
खल्वायणी वार्ष्पयणी तिल्वणो बैल्वयूथपः ॥
तामिरेषां पञ्चमश्च एते धूम्रपराशराः
पराशराणां सर्वेषां त्र्यार्षेयः प्रवरो मतः ॥
पराशरश्च शक्तिश्च वशिष्ठश्च महातपाः
परस्परमवैवाह्याः सर्व एव पराशराः
उक्तास्तथैते नृप वंशमुख्याः पाराशराः सूर्य समप्रभावाः ॥
येषां तु नाम्ना परिकीर्तनेन पापं समग्रं पुरुषो जहाति
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पराशरवंशानुकीर्तनं नाम सप्तदशाधिकशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0