भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.116

1.116.1

॥ मार्कण्डेय उवाच ॥
वसिष्ठवंशजान्विप्रान्निबोध गदतो मम ॥
एकार्षेयश्च प्रवरो वसिष्ठानां प्रकीर्तिताः

1.116.2

वसिष्ठ एव वासिष्ठा अविवाह्या वसिष्ठजैः ॥
व्याघ्रपादा औपगवाः वैक्लवा शाद्वलायनाः

1.116.3

कापिष्ठला क्षैटलोमा आश्वलाः सर्वटाकराः ॥
गोपायना बोधयश्च द्वाकल्पा अपवाह्यकृत्

1.116.4

बालिशेया पालिशिष्यास्तथोमाङ्कुरवश्च ये ॥
आयस्थूणाः शीतवृक्षास्तथा ब्रह्मपुरोहिताः

1.116.5

लोमात्याः स्वस्तिकराः माण्डलिर्गौतलिस्तथा ॥
वाह्नेहण्डिश्च सुमना श्वपादिर्विद्धिरेव च ॥

1.116.6

शौलिर्लोलिर्ब्रह्मबलो वैलिश्रवस एव च ॥
मौण्डवो याज्ञवल्क्यश्च एकार्षेयास्तथा नृप

1.116.7

वसिष्ठ एषां प्रवर अवैवाह्याः परस्परम्॥
शैलालयो महाकर्णो कौरव्यः क्रैवणिस्तथा

1.116.8

कपिञ्जलो बालशिखिर्भागवित्तायनाश्च ये ॥
कौरायणा लाकहया कौलकृद्भागुरायणाः

1.116.9

शाकहव्याः कशापेया अथो उल्वपयाश्च ये ॥
साङ्ख्यायना अनडुहा अथो माषशिराधयः

1.116.1.116.10

दामकायना वाहयवो वाक्ययोगोरथस्तथा ॥
आबायनाश्च ऋषयो ये च क्रोडादनायवाः

1.116.11

प्रलम्बायनाश्च ऋषय औपमन्यव एव च ॥
साङ्ख्यायनाश्च ऋषयस्तथा ये च दशेरकाः ॥

1.116.12

पादकायन औद्ग्राहा ऋषयश्चैव लेखयः ॥
मालेया ब्रह्मवलयः पूर्णागांरिस्तथैव च

1.116.13

त्र्यार्षेयोऽपि मतश्चैषां सर्वेषां प्रवरस्तथा॥
भगो वसुर्वसिष्ठश्च इन्द्रः सम्मतिरेव च

1.116.14

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥
औपस्वस्थाः स्वस्थलयो वालो हालो हयाश्च ये ॥

1.116.19

मध्यन्दिना अक्षतयः पैप्पला देविचङ्कपी ॥
त्रैशृङ्गा वनगा आलवाः कुण्डिनाश्च नरोत्तम

1.116.16

त्र्यार्षेयोऽपि मतश्चैषां सर्वेषां प्रवरः शुभः ॥
वसिष्ठमित्रावरुणौ कुण्डिनश्च महातपाः

1.116.17

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥
जातूकर्णा यवश्चैव पादपाश्च तथैव च

1.116.18

त्र्यार्षेयोऽपि मतश्चैषां सर्वेषां प्रवरस्तथा ॥
जातूकर्णो वसिष्ठश्च तथैवान्त्यश्च पार्थिव ॥
परस्परमवैवाह्या ऋषयः परिकीर्तिताः

1.116.19

वसिष्ठवंशेऽभिहिता मयैते ऋषिप्रबर्हा नृप गोत्रकाराः ॥
येषान्तु नाम्नां परिकीर्तनेन पापं समग्रं पुरुषो जहाति

1.116.116

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० वसिष्ठवंशानुकीर्तनं नाम षोडशाधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc