विष्णुधर्मोत्तरपुराणम् · अध्याय 1.115
मार्कण्डेय उवाच ॥
मरीचेः कश्यपः पुत्रः कश्यपस्य तथा कुले ॥
गोत्रकारानृषीन्वक्ष्ये तेषां नामानि मे शृणु
आग्रायणा झषगणा मेषकौरीटिकायनाः ॥
गुरुव्रजी माठरश्च गोजाविरथ लक्ष्मणः
शालाहलेयाः कोरिज्याश्चौकन्याश्चासुरायणाः ॥
मन्दान्यावै मृगयनो श्रोतसो भौसतायनाः
देवयाता गोपयाता अथोच्छायतयश्च ये ॥
ताकयानाश्चित्रहया अभिर्योगा गदायनाः
कातुवन्दिर्महाचक्रिर्दाक्षपाणय एव च ॥
ग्रीवायणा हर्किरयो हास्तिदासास्तथैव च
वात्स्या वालिन्यकृतहा हास्तलायनिसस्तथा ॥
आग्रायणः पेलुमूली राश्वताताय नस्तथा
कौशीतकाश्च पाकान्ता अग्निशर्मायणाश्च ये ॥
मैषयः कैवमेयाश्च तथा चैव सुबभ्रवः
प्राचीथयो ज्ञानगया आग्रावमथ एव तु ॥
श्यामोचरा नैमिषयः तत्स्था ये शाद्वलायनाः
काष्टहायननामारीचा डौजिहायनहास्तिकाः॥
वैकर्णेयाः काश्यपाश्च शामिशा हारितायनाः
मातंगिनो बभ्रसवः त्र्यार्षेयाः परिकीर्तिताः ॥
वत्सरः कश्यपश्चैव निध्रुवश्च महातपाः
परस्परमवैवाह्याः ऋषयः पुरिकीर्त्रिताः ॥
रैहाश्च सांख्यमित्राश्च यार्षेयाः परिकीर्तिताः
वत्सारः कश्यपश्चैव रैहाश्चैव महातपाः ॥
परस्परमवैवाह्यौ गोत्रौ द्वौ परिकीर्तितौ
अतः परं प्रवक्ष्यामि ह्यामुष्यायणगोत्रजान् ॥
आनुष्टुभो भाक्तरयः स्वातयो राजवल्लयः
शैरेशिरो देवहिश्च सैरन्धी रौपसीवकिः ॥
सालुलिः काटुविङ्गाक्षिः शतशंभिस्तथैव च
दिवा वसिष्ठा इत्येते नक्तं ज्ञेयाश्च काश्यपाः ॥
त्र्यार्षेयाश्च तथा तेषां सर्वेषां प्रवराः शुभाः
वत्सारः कश्यपश्चैव वसिष्ठश्च महातपाः ॥
परस्परमवैवाह्या ऋषयः परिकीर्तिताः
सा माता बलिपुत्रश्च भौप्यलोऽथ जलत्वरः ॥
मुञ्जामयूरः पर्यश्च सोऽष्टमो गर्दभीमुखः
हिरण्यबाहुः कैरातः उभौ काश्यपगोभिलौ ॥
आहलो वृषकण्डश्च सृकेतुश्च तथोत्तरः
उदकेभस्तृणो वत्स्यो महाकेरलयश्च ये ॥
शाडीलवैशानवसौ द्रावोलेवलयातवः
पैप्पलादिः पूर्ववरिर्वीरवित्था वरीनिकः॥
त्र्यार्षेयोपि मतश्चैषां सर्वेषां प्रवरः शुभ
असितो देवलश्चैव कश्यपश्च महातपाः ॥
परस्परमवैवाह्या ऋषयः परिकीर्तिताः
ऋषिप्रधानस्य तु कश्यपस्य दाक्षायणाभ्यः सकलं प्रसूतम् ॥
जगत्समग्रं यदुसिंहमुख्य तत्ते च वक्ष्याम्यहमुत्तरत्र
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कश्यपवंशानुकीर्तनं नाम पञ्चदशाधिकशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0