भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.114

1.114.1

मार्कण्डेय उवाच ॥
अत्रेरेवापरं वंशं तव वक्ष्यामि पार्थिव ॥
अत्रेः सोमः सुतः श्रीमांस्तस्य वंशोद्भवो नृपः

1.114.2

विश्वामित्रस्तु तपसा ब्राह्मण्यं समवाप्तवान् ॥
तस्य वंशमहं वक्ष्ये तन्मे निगदतः शृणु

1.114.3

विश्वामित्रो देवरातस्तथा चेकितिगालवौ ॥
वतण्डश्च शलङ्गश्च तथा चाश्वात तायनः

1.114.4

श्यामायनो याज्ञवल्क्यो जाबालिः सैन्धनायनः ॥
दाभ्रव्याश्च कारीषी च सौश्रुत्या अथ सौश्रुताः

1.114.5

औलूषा औपगवयः पाण्योदरयमाञ्चयः ॥
खरबाधा वहलयः पाणतम्बः सकौशिकाः

1.114.6

त्र्यार्षेयाः प्रवरास्तेषां सर्वेषां परिकीर्तिताः ॥
विश्वामित्रो देवरातः उद्दालश्च महायक्षाः

1.114.7

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥
मार्गमित्रास्तथाद्याश्च माधुच्छन्दस एव च

1.114.8

त्र्यार्षेयाः प्रवरास्त्वेते ऋषयः परिकीर्तिताः ॥
विश्वामित्रस्तथा ज्येष्ठो मधुच्छन्दास्तथैव च

1.114.9

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥
धनञ्जयः कपर्देयः परिकुष्टश्च पार्थिव

1.114.1.114.10

पाणिनिश्चैव त्र्यार्षेयाः सर्व एते प्रकीर्तिताः ॥
विश्वामित्रो मधुच्छन्दस्तथा चैवाघमर्षणः

1.114.11

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥
कामलायनिजाश्चैव आश्मरथ्यास्तथैव च

1.114.12

बन्धुलिश्चैव त्र्यार्षेयाः सर्वेषां प्रवरा मताः ॥
विश्वामित्रश्चाश्मरथो बधुलिश्च महातपाः

1.114.13

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥
पूरणाः परिधावन्तः द्व्यार्षेयाः परिकीर्तिताः

1.114.14

विश्वामित्रः पूरणश्च तयोर्द्वौ प्रवरौ स्मृतौ ॥
परिवर्ता अवैवाह्याः पूरणाश्च परस्परम्

1.114.15

लोहिता अष्टकाश्चैव त्र्यार्षेयाः परिकीर्तिताः ॥
विश्वामित्रो लोहितश्च अष्टकश्च महातपाः

1.114.16

अष्टका लोहितैर्नित्यमवैवाह्याः परस्परम् ॥
उदरेण्डः कन्यकश्च ऋषिश्चोदावहिस्तथा

1.114.17

त्र्यार्षेयोऽपि मतश्चैषां सर्वेषां प्रवरः शुभः ॥
ऋणवान्ग्रथितश्चैव विश्वामित्रस्तथैव च

1.114.18

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥
औदुम्बरिः शैशिरटिरृषिस्तार्क्षायणस्तथा

1.114.19

टैकायनिस्तैकायनिस्तार्क्षायणिरथैव च॥
कात्यायनिः करीरामिः शालङ्कायनिलावकी

1.114.1.114.20

मौञ्जायनिश्च भगवांस्त्र्यार्षेयाः परिकीर्तिताः ॥
किलिः कलिस्तथा विद्वान्विश्वामित्रस्तथैव च ॥
परस्परमवैवाह्या ऋषयः परिकीर्तिताः

1.114.21

एते तवोक्ताः कुशिका नरेन्द्र महानुभावाः सततं द्विजेन्द्राः ॥
येषां तु नाम्नां परिकीर्तनेन पापं समग्रं पुरुषो जहाति

1.114.114

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे विश्वामित्रवंशानुकीर्तनं नाम चतुर्दशाधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc