भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.113

1.113.1

मार्कण्डेय उवाच ॥
अत्रिवंशसमुत्पन्नान्गोत्रकारान्निबोध मे ॥
कर्पूरायणशाखेयास्तथा शाराहणाश्च ये ॥
शैवालकी शौनवर्णिरघोसौद्रुतयश्च ये

1.113.2

गौरग्रीवः सकारञ्जिरथ मैत्रायणाश्च ये ॥
आत्मयन्या वामरथ्या गौपनास्ताकिबिन्दवः

1.113.3

ह्वानजिद्बाहुरिन्द्रोविरैन्द्रालिः शाकटायनः ॥
तैलेयश्चैव बौलेयश्चात्रिगौणी मतिस्तथा

1.113.4

जलदो भगपादश्च सोपुष्पिश्च महातपाः ॥
छान्दोगेयस्तथैतेषामार्षेयः प्रवरो मतः

1.113.5

ध्याराश्वाश्च तथात्रिश्च ऋचनानस एव च ॥
परस्परमवैवाह्या ऋषयः परिकीर्तिताः

1.113.6

दक्षिर्बलिः पालकृच्च और्णनाभिः सिलिर्मिलिः ॥
बीजवापी शिरीषश्च मौंजकेशगविष्ठिरौ

1.113.8

बलन्धनस्त्तथैतेषां त्र्यार्षेयः प्रवरो मतः ॥
अत्रिर्गविष्ठिरश्चैव तथा पूर्वातिथिः स्मृताः॥७
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥
आत्रेयान्पुत्रिकापुत्रानत ऊर्ध्वं निबोध मे

1.113.9

हालेयश्च सवालेयो वाममथ्यस्तथैव च ॥
गोत्रेयश्चैव गोत्रेयाः त्र्यार्षेयाः परिकीर्तिताः

1.113.1.113.10

अत्रिश्च वामरथ्यश्च पोत्रिश्चैव महानृषिः ॥
परस्परमवैवाह्या ऋषयः परिकीर्तिताः

1.113.11

इत्यत्रिवंशप्रभवास्तवोक्ता महानुभावा नृप गोत्रकाराः ॥
येषां तु नाम्नां परिकीर्तनेन पापं समग्रं पुरुषो जहाति

1.113.113

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अत्रिवंशानुकीर्तनं नाम त्रयोदशाऽधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc