भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.112

1.112.1

मार्कण्डेय उवाच ॥
मरीचितनया राजन्सुरूपा नाम विश्रुता ॥ ।
भार्या ह्यङ्गिरसो दिव्या यस्याः पुत्रा दश स्मृताः

1.112.2

आत्मा ह्यायुर्मनुर्दक्षो मदः प्राणस्तथैव च ॥
हविष्मांश्चागविष्ठश्च ऋतः सत्यश्च ते दश ॥

1.112.3

इत्येतेऽङ्गिरसो नाम देवा वै सोमपीथिनः ॥
सुरूपा जनयामास ऋषीन्सर्वेश्वरानिमान्

1.112.4

बृहस्पतिं गौतमं च संवर्तं च महाऋषिम् ॥
अयस्यं वामदेवं च उतथ्यमुशिजं तथा

1.112.5

इत्येते ऋषयः सर्वे गोत्रकाराः प्रकीर्तिताः ॥
तेषां गोत्रसमुत्पन्नान्गोत्रकारान्निबोध मे

1.112.6

उतथ्यो गौतमश्चैव तैलजोऽभिजितिस्तथा ॥
बौद्धिनैषिः सलौगाक्षिः क्षोरोजो टांकिरेव च

1.112.7

राहोहकिः सौषुरिश्च कैरतिः शारिलौमकिः ॥
पौण्यजिर्भानुभावश्च ऋषिश्चैव बडोबडः

1.112.8

कराटकश्च माचीयः उपबिन्दुरथैषिणिः ॥
रौहिण्यायनिजार्गालिः क्रोष्टा चैवारुणायनिः

1.112.1.112.10

सोमो डायनिकाशेकः कौटिल्यः पार्थिवस्तथा ॥
गेहिण्यायनिरौवायुर्मूलयोवांशुरेव च॥॥॥।
तथा च गुल्मयोवांशु स्तम्बयोषांशुरेव च ॥
कावाक्षिः पुष्पधश्चैव क्षीरकारण्डिरेव च

1.112.11

क्षपादिश्च करेरिश्च पारिकारीरिरेव च ॥
इत्यार्षेयास्तु सर्वेषां प्रवराः परिकीर्त्तिताः

1.112.12

आंगिराश्च तथोतथ्यो मुनिर्दीर्घतपास्तथा ॥
परस्परमवैवाह्या इत्येते परिकीर्तिताः

1.112.13

उष्टाजिष्ट अयस्यश्च कक्षीवान्गोतमस्तथा ॥
आर्षेयाः प्रवराश्चैव तेषां च प्रवराञ्शृणु

1.112.14

अंगिरश्च ततोतश्च उषाजिश्च महानृषिः ॥
सौमस्तम्भिर्वितम्भिश्च सालुभिर्वालुभिस्तथा

1.112.15

भारद्वाजिः सौबुद्धिश्च मेघी देवमतिस्तथा ॥
आद्र्ययायणसाविष्ट्यौ ह्यग्निवेशः शलाथलिः

1.112.16

वालिशेयनिश्शैकेयि वाराहिर्वाकलिस्तथा ॥
शाटिश्च ऋषिवर्णश्च प्रावाहिश्चाश्वलायनिः ॥
परस्परमवैवाह्या ऋषयः परिकीर्तिताः

1.112.17

कावाकिश्च सभाकायिस्तथा चांशुमतिः प्रभुः ॥
भावीकैयूरिनैभुल्विः पुष्पान्वेषी तथैव च

1.112.18

बाध्यो विच्छिन्दिशाटीकिः खारग्रीविस्तथैव च ॥
देवाद्यारिर्देवस्थानिर्हरिकर्णिः सभ्राङ्गिकः

1.112.19

धौवायिः साभिमुग्रिश्च तथा गोमदगन्धिकः ॥
मात्स्यक्वाथः सालहरो ह्यलो हारस्तथैव च

1.112.1.112.20

गागोदयिः कौतपतिः कौरुक्षेत्रिस्तथैव च ॥
ताटाकिर्जैन्यद्रोणिश्च जैवालायनिरेव च

1.112.21

आपस्तधर्मोजदृष्टिः कार्ष्णपिङ्गलिरेव च ॥
पौलश्चैव महातेजाः शङ्कलायनिरेव च

1.112.22

आर्षेयो नामतश्चैषां सर्वेषां प्रवरो नृप ॥
अङ्गिराः प्रवरस्तेषां द्वितीयश्च बृहस्पतिः

1.112.23

तृतीयश्च भरद्वाजः प्रवराः परिकीर्तिताः ॥
परस्परमवैवाह्या इत्येते परिकीर्तिताः

1.112.24

काणायनाः कौपयवास्तथा वात्स्यपरायणाः ॥
भ्राष्ट्रकृद् भ्राष्ट्रविन्दी च नेन्द्रालिस्सयकायनः

1.112.25

क्रोडिः शाक्री च कार्षी च तालकृन्माथुरावताः ॥
लापकृद्भालविप्रेषो मर्कटः पैलुकायनः

1.112.26

मृत्संशश्च तथा चाक्री गर्गः श्यामायनिस्तथा ॥
वाललिः साहरिश्चैव पञ्चार्षेयाः प्रकीर्तिताः

1.112.27

अङ्गिरास्तु महातेजा देवाचार्यो बृहस्पतिः ॥
भरद्वाजस्तथा गर्गश्चैत्यश्च भगवानृषिः

1.112.28

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥
कपीतरः स्वस्तितरो दर्भः शक्तिः पतञ्जलिः

1.112.29

भूयसी जलसन्धिश्च बिन्दुदण्डिः कुशीतकिः ॥
भृगुस्तु राजकेशी च शौम्बाटिः शांशिबिस्तथा

1.112.1.112.30

शालिश्च शकलः काण्वो मुनिः केरीरयिस्तथा ॥
काद्यो वाध्यायनिश्चैव सावस्यायनिरेव च

1.112.31

त्यार्षेयो नामतस्तेषां प्रवरो भूमिपोत्तम ॥
अङ्गिरादमवाह्यश्च तथा चैवाप्यतत्क्षयः

1.112.32

परस्परमवैवाह्याः सर्व एव प्रकीर्तिताः ॥
सकृतिश्च त्रिमार्ष्टिश्च शेधूः शैपविरेव च

1.112.33

तण्डिश्च जानकिश्चैव तैलकाद्रव्य एव च ॥
नारायणिश्चार्षभिश्च लौक्षिर्गार्गिर्हलस्तथा

1.112.34

गालविश्चापि त्र्यार्षेयः सर्वेषां प्रवरा मताः ॥
अंगिराः संकृतिश्चैव गौरिवीतिस्तथैव च

1.112.35

परस्परमवैवाह्याः ऋषय परिकीर्तिताः ॥
काण्वायनो हरितकः कौत्स्यः पौंग्यस्तथैव च

1.112.36

हस्तिदमो वात्स्यमालिर्मान्द्रिर्गालिर्गवेरणः ॥
भीमवेशः शांख्यदर्भिः सर्वे त्रिप्रवरा मताः

1.112.37

अङ्गिरास्तु तमस्युश्च पुरुकुत्सस्तथैव च ॥
कुत्साः कुत्सैरवैवाह्या एवमाहुः पुरातनाः

1.112.38

रथीतराणां प्रवराः त्र्यार्षेयाः परिकीर्तिताः ॥
अङ्गिराश्च सुरूपाश्च तथैव च रथेतरः

1.112.39

रथेतरा अवैवाह्या नितराश्च रथेतरैः ॥
विष्णुवृद्धिः शगे मद्रिर्जत्रिणः कर्त्रिणस्तथा

1.112.1.112.40

प्रडिवश्च महातेजास्तथा चैव परायणः ॥
त्र्यार्षेयश्च मतस्तेषां सर्वेषां प्रवरः शुभः

1.112.41

अङ्गिराश्च विरूपाश्च पृथुदश्वस्तथैव च ॥
परस्परमवैवाह्या इत्येते परिकीर्तिताः

1.112.42

सान्त्यमुग्धिर्महातेजा हिरण्यस्तम्बिमुद्गलो ॥
त्र्यार्षेयोऽपि मतश्चैषां सर्वेषां प्रवरो नृप

1.112.43

अङ्गिरा गृत्सदश्वश्च मुद्गलश्च महातपाः ॥
परस्परमवैवाह्या इत्येते परिकीर्तिताः

1.112.44

मोहजिह्वो देवजिह्वो अग्निजिह्वविराडयः ॥
अपानेयस्त्र्यग्रयश्च वैरिण्यास्ताविमौद्गलाः

1.112.45

त्र्यार्षेयोऽपि मतश्चैषां सर्वेषां प्रवरः शुभः ॥
अङ्गिराश्चैव ताविश्च मौद्गल्यश्च महातपाः ॥

1.112.46

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥
उरुण्डश्च भुरुण्डश्च तृतीयः शाकटायनः

1.112.47

ततः प्रागधमो नारी मर्कटो रमणः शणः ॥
काण्वमार्कटयश्चैव तया रामवणो मुनिः

1.112.46

श्यामायनस्तथैतेषां त्र्यार्षेयः प्रवरो मतः ॥
अङ्गिराश्चाजमीढश्च काण्वश्चैव महातपाः

1.112.49

परम्परमवैवाह्या ऋषयः परिकीर्तिताः ॥
तित्तिरिः कपिभूश्चैव गार्ग्यश्चैव महानृषिः

1.112.1.112.50

परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥
आर्षेयो नामतश्चैषां सर्वेषां प्रवरः शुभः

1.112.51

अङ्गिरास्तित्तिरिश्चैव कपिभूश्च महानृषिः ॥
परस्परमवैवाह्या ऋषयः परिकीर्त्तिताः

1.112.52

अङ्गिराः सभरद्वाजो ऋषिर्वान्दनवस्तथा

1.112.53

बृहस्पतिर्मैत्रवचाः पञ्चार्षेयाः प्रकीर्तिताः ॥
अङ्गिराः सभरद्वाजस्तथा चैव बृहस्पतिः

1.112.54

ऋषिर्मित्रवचश्चैव ऋषिर्वान्दतवस्तथा ॥
परस्परमवैवाह्या ऋषयः परिकीर्तिताः

1.112.55

भारद्वाजः कटाशौङ्गः शैथिरेयस्तथैव च ॥
इत्येते कथिताः सर्वे द्व्यामुष्यायणनोत्रजाः

1.112.56

पञ्चाग्नेयास्तथाप्येषां प्रवराः परिकीर्तिताः ॥
अङ्गिराः सभरद्वाजस्तथैव च बृहस्पतिः

1.112.57

सौङ्गश्च शैशविश्चैव प्रवराः परिकीर्तिताः ॥
परस्परमवैवाह्या ऋषयः परिकीर्तिताः

1.112.58

एते तवोक्ताङ्गिरसस्तु वंशे महानुभावा नृप गोत्रकाराः ॥
येषां च नाम्नां परिकीर्तनेन पापं समग्रं पुरुषो जहाति

1.112.112

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अङ्गिरसो वंशानुकीर्तिवर्णनं नाम द्वादशाधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc