विष्णुधर्मोत्तरपुराणम् · अध्याय 1.111
॥ वज्र उवाच ॥ ॥
महादेवेन ऋषयः शप्ताः स्वायंभुवेऽन्तरे ॥
तेषां वैवस्वते प्राप्ते संभवं मम कीर्तय
दाक्षायणी च तथा प्र कीर्तय मे विभो ॥
ऋषीणां च तथा वंशं भृगुवंश विवर्धन
मार्कण्डेय उवाच ॥
मन्वन्तरेऽस्मिन्संप्राप्ते राजन्वैवस्वते पुरा ॥
अश्वमेधे तु वितते ब्रह्मणः परमेष्ठिनः
महादेवस्य शापेन त्यक्त्वा देहान्स्वयं ततः ॥
ऋषयस्तु समुद्भूता द्रुते शुक्रे प्रजेप्सया
देवानां मातरो दृष्ट्वा देवपत्नीस्तथैव च ॥
स्कन्नं शुक्रं महाराज ब्रह्मणः परमेष्ठिनः
तज्जुहाव ततो ब्रह्मा ततो जातो हुताशनात् ॥
ततो जातो महातेजा भृगुः स तपसां निधिः
अङ्गारेस्वंगिरा जातस्सभार्योऽत्रिस्तथैव च ॥
मरीचिभ्यो मरीचिश्च ततो जातो महातपाः
वसुमध्यात्समुत्पन्नो वसिष्ठश्च महातपाः ॥
भृगुः पुलोम्नश्च सुतां दिव्यां भार्यामविन्दत
यस्यां तस्य सुता जाता देवा द्वादश याज्ञिकाः ॥
भुवनो भावनश्चैव सुजन्यः सुजनस्तथा
क्रतुः सुवश्च पूगश्च व्याजश्च व्यश्नुजश्च ह ॥
प्रसवश्चाव्ययश्चैव दक्षो द्वादशमस्तथा
इत्येते भृगवो नाम देवा द्वादश कीर्तिताः ॥
पौलोम्यजनयद्विप्र देवानां तु कनीयसम्
च्यवनं तु महाभागमात्मवन्तं तथाप्यसौ ॥
आत्मवानात्मजस्त्वौर्वो जमदग्निस्तदात्मजः
और्वो गोत्रकरस्तस्य भार्गवानां महात्मनाम् ॥
तत्र गोत्रकरान्वक्ष्ये भृगोर्दीप्तोजसस्त्वहम्
भृगुश्च च्यवनश्चैव आत्मवांस्तु तथैव च ॥
और्वश्च जमदग्निश्च वात्स्यो दंभिर्नडायनः
नागायनो वहेतिश्च पेलुश्चेरानुशातिकः ॥
शौनकायनजीवन्तिः कौयोधः पार्षतिस्तथा
वैहीनरिर्विरूपाक्षो रोहिण्यायनिरेव च ॥
वैश्वानरिरुपारीरुर्वशावणिर्वृकास्वकः
विष्णुः पौरेयवालाकितौलिकेनान्तभागिनः ॥
मृत भागेयमर्कण्डजिहितोदीधिनस्तथा
मण्डूमाण्डव्यमण्डूकस्फेनसाङ्कृतिनस्तथा ॥
स्थालिपिण्डिः शिलापत्तिः शार्कराक्षिस्तथैव च
सृकायणो देवमतिः षाण्ढरायिः सिगालवः ॥
सकृत्वश्चातकिः कायिर्याज्ञो दार्भिस्त्रिलायनिः
गार्ग्यायणो ह्वायनश्च ऋषिर्गेहायन स्तथा ॥
गोष्ठ्यायनो वाह्यायनो वैशम्पायन एव च
वैकर्णेयिः शार्ङ्गरवो याज्ञेयिर्भ्राष्टकायनः ॥
ललाटिर्लकुटिश्चैव लाक्ष्म्यायाः परिमण्डलः
ऊलुम्बिः शैलुकिः कोष्टिस्तथान्यः पैप्पलायनिः ॥
सत्यायनिर्मालयनिः कोटालिः कौचहस्तिकः
शोक्रिः शौक्लिः स कौचाक्षिः कौसिश्चान्द्रमसिस्तथा ॥
जैकहिह्मिर्जिह्वशून्यवापयलेढिकवैरिणः
शारद्वतिकरे नित्यौ लोष्ठाक्षिश्चल वैरिणः ॥
नागायनिश्चानुमतिः पौर्णभागधिकाशिकृत्
समाख्यातास्तथैतेषां पञ्च तु प्रवरा मताः ॥
भृगुश्च च्यवनश्चैव आत्मवानस्तथैव च
और्वश्च जमदग्निश्च पञ्चैते प्रवरा मताः ॥
परस्परमवैवाह्या ऋषयः परिकीर्तिताः
वाज्यावाज्यो न वैवाह्या ज्ञेयास्त्रिप्रवरास्तु ते ॥
भृगुश्च जमदग्निश्च तथैवोर्वश्च पार्थिव
अतः परं प्रवक्ष्यामि शृणु चान्यान्भृगूद्वहान् ॥
जमदग्निर्विदश्चैव पौलस्त्यो वैजभृत्तथा
प्राचीनयोग्यो भगवानृषिः क्रौञ्चायनस्तथा॥
ऋषिभयश्चाजातश्च एकायनवटायनौ
आत्रेयोऽभिमतश्चैषां सर्वेषां प्रवरः स्मृतः ॥
भृगुश्च च्यवनश्चैव ह्यात्मवानस्तथैव च
परम्परमवैवाह्या ऋषयः परिकीर्तिताः ॥
ऋग्वेदीया मार्गपथे ग्रामायणिरथायनिः
आपस्तम्बिस्तथा ताल्विर्नेकठिः कण्ठिरेव च ॥
आर्ष्टिषेणो गार्दभिश्च कार्द्दमायणिरेव च
अश्वायनिरथान्नापि पंचार्षेयाः प्रकीर्तिताः ॥
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ३३।
योविराधो वीतहव्यो नासाथश्चण्डमो दमः ॥
जीवंत्यायनिमौद्गश्च विलिश्चैव खलिस्तथा
भाविलिर्भागवित्तिश्च कौशाम्बेयिर्वृकाश्चकिः ॥
वालेयिः समदा गेयिर्गौरक्षितिरथैव च
गौर्गजिश्च सवंशालस्तथा पौष्णायनो मुनिः ॥
रोमादश्च तथैतेषामार्षेयाः प्रवरा मताः
भृगुश्च वीतहव्यश्च तथा चैव सदेवसः ॥
परस्परमवैवाह्या ऋषयः परिकीर्तिताः
खालायनिः शाकटाख्यो मैत्रेयः सातयस्तथा ॥
द्रोणायनो नौक्मायन आशिषिश्च पिकायनिः
होमजिह्विस्तथैतेषामार्षेयाः प्रवरा मताः ॥
भृगुश्चैवाथ वध्न्यश्वो दिवोदासस्तथैव च
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥
सकायनो यज्ञपचिर्मध्यगन्धिस्तथैव च
प्रत्यूहश्च तथा श्रौभ्यक्षोक्षिर्वैकादशायनिः ॥
तथा गृत्समदो राजञ्शुनकश्च महानृषिः
प्रवरस्तु यथोक्तानां द्व्यार्षेयाः परिकीर्तिताः ॥
भृगुर्गृत्समदश्चैव द्वावेतौ परिकीर्तितौ ॥
परस्परमवैवाह्या इत्येते परिकीर्तिताः
एते तवोक्ता भृगुवंश जाता महानुभावा नृप गोत्रकाराः ॥
येषां च नाम्नां परिकीर्तनेन पापं समग्रं विजहाति जन्तुः
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भृगुवंशानुकीर्तनं नामैकादशोत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0