भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.110

1.110.1

मार्कण्डेय उवाच ॥
अन्तर्धानः पृथोः पुत्रो हविर्धानस्तदात्मजः ॥
प्राचीनबर्हिस्तत्पुत्रः पृथिव्यामेकराड् बभौ

1.110.2

उपयेमे समुद्रस्य लवणस्य स वै सुताम्॥
सुवर्णायां तु सामुद्र्यां दश प्राचीनबर्हिषः

1.110.3

सर्वे प्राचेतसो नाम धनुर्वेदस्य पारगाः ॥
अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः

1.110.4

दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥
समुद्रगेषु दशसु तपस्यत्सु महीरुहाः

1.110.5

अरक्षमाणां गां वव्रुर्बभूवेत्थं प्रजाक्षयः ॥
न शक्यो मारुतो वातुं वृत्तं खमभवद्द्रुमैः

1.110.6

तदुपश्रुत्य राजानः सर्वे युक्ताः प्रचेतसः ॥
मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः

1.110.7

निर्मूलानथ वृक्षांस्तान्कृत्वा वायुरशोषयत्

1.110.8

तानग्निरदहत्क्रुद्ध एवमासीद्रुमक्षयः ॥
द्रुमक्षयमथो दृष्ट्वा किञ्चिद्दग्धेषु शाखिषु ॥
उपगम्याब्रवीदेतान्सोमो राजा प्रचेतसः

1.110.9

।
कोपं त्यजत राजानः सर्वे प्राचीनबर्हिषः ॥
कृता मही वृक्षशून्या शाम्येतामग्निमारुतौ

1.110.1.110.10

रत्नभूता च कन्येयं वृक्षाणां वरवणिंनी ॥
भविष्यं जानता ह्येषा धृता गर्भेण वै मया

1.110.11

मारिषा नाम भवतां पत्न्यर्थे प्रददाम्यहम् ॥
ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः

1.110.12

संहृत्य कोपं वृक्षेभ्यः पत्नीधर्मेण मारिषाम् ॥
मनसा च दधुस्तस्यां गर्भं सर्वे प्रचेतसः

1.110.13

दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ॥
भवशापेन संभूतो भूयो दक्षप्रजापतिः

1.110.14

असृजन्मनसा दक्षः प्रजाः पूर्वं चतुर्विधाः ॥
नोत्पद्यन्ते च तास्तस्य अपध्याता हरेण तु

1.110.15

मैथुनेन ततः सृष्टिं कर्तुमिच्छन्प्रजापतिः ॥
असिक्नीमवहद्भार्यां वीरणस्य प्रजापते.

1.110.16

सुतां सुमहतीं युक्तां तपसा लोकधारिणीम् ॥
तस्य पुत्रसहस्रं तु वीरिण्यां समपद्यत

1.110.17

तांस्तु दृष्ट्वा महातेजा विवर्धयिषवः प्रजाः ।
तानुवाच महातेजा ब्रह्मपुत्रः स नारदः

1.110.18

किं प्रमाणं तु मेदिन्यां स्रष्टव्यस्य तथैव च॥
अज्ञानात्तु कथं सर्गं भवन्तः कर्तुमुद्यताः

1.110.19

महीमानमथान्वेष्टुं गता दक्षसुतास्ततः ॥
लोकालोकस्य परतो गर्भोदस्य तथोपरि

1.110.1.110.20

वायुमण्डलमासाद्य भ्रमणान्नाशमागताः ॥
दक्षोऽपि तेषु नष्टेषु वीरिण्यामेव धर्मवित्

1.110.21

सहस्रं जनयामास पुत्राणामपरं ततः ॥
विवर्धयिषवस्ते तु शबलाश्वाः पुनः प्रजाः

1.110.22

पूर्वमुक्तं वचस्तद्वै श्रावता नारदेन तु ॥
अन्योन्यमूचुस्ते सर्वे सम्यगाह महानृषिः

1.110.23

भ्रातॄणां पदवीं चैव गन्तव्या नात्र संशयः॥
गतेऽपि हर्यश्वमार्गेण प्रयाताः पृथिवीमिमाम्

1.110.24

तमेव वायुमासाद्य विनष्टाः शाश्वतीस्समाः ॥
तदाप्रभृति वै भ्रान्ता भ्रातुरन्वेषणे रताः

1.110.25

प्रयातो नश्यति विभो तन्नः कार्यं विजानता ॥
अथ तेषु विनष्टेषु दक्षः कोपसमन्वितः

1.110.26

शशाप नारदं क्रुद्धः तुल्यं जन्म न चाप्स्यसि ॥
देहं त्यक्त्वा सशापेन तेन दक्षस्य नारदः

1.110.27

भूयो मुनिसुतो जातः कश्यपस्य महात्मनः ॥
अश्वमेधं च विततं दक्षस्याद्भुतकर्मणः

1.110.28

विध्वंसयामास हरः पूर्ववैरेण भ्रावितः ॥
दक्षोऽपि शप्तवानुद्रं शप्तास्ते ब्राह्मणोत्तमाः

1.110.29

अद्यप्रभृति यक्ष्यन्ति नत्वा सार्धं दिवौकसैः ॥
जन्मान्तरेऽपि वैराणि विनश्यन्ति न पार्थिव

1.110.1.110.30

तस्माद्वैरं न कर्तव्यं कदाचिदपि केनचित् ॥
हर्यश्वेष्वपि नष्टेषु महात्मसु पुरा तदा

1.110.31

असिक्न्यां जनयामास दक्षो दुहितरस्तदा ॥
षष्टिः कन्या रूपयुक्तास्तपसा महता युताः

1.110.32

द्वे ददौ बाहुपुत्राय चतस्रोऽरिष्टनेमिने ॥
द्वे प्रादात्स कृशाश्वाय दश धर्माय चाप्यथ

1.110.33

चतुर्दश कश्यपाय चाष्टाविंशतिमिन्दवे ॥
प्रददौ बाहुपुत्राय सुप्रभां भामिनीं तदा

1.110.34

मनोरमां भानुमतीं विशालां बाहुदामथ ॥
दक्षः प्रादान्महाभागश्चतस्रोऽरिष्टनेमिने

1.110.35

स कृशाश्वाय च प्रादात्सुप्रभां च तथा जयाम् ॥
अरुन्धतीं वसुं जामिं लम्बां भानुमिरावतीम्

1.110.36

संकल्पां च मुहूर्तां च साध्यां विश्वां तथैव च ॥
ददौ स दश धर्माय महात्मा लोकविश्रुतः

1.110.37

अदितिर्दितिर्दनुः काला दनायुः सिंहिका मुनिः ॥
कद्रूः क्रोधा इरा प्राधा विनता सुरभिः खगा

1.110.38

चतुर्द्दशैताः प्रददौ कश्यपाय प्रजापतिः ॥
नामभिः पूर्व विख्याताः कृत्तिकाद्यास्तथैव च

1.110.39

ददौ नक्षत्रयोगिन्य अष्टाविंशतिमिन्दवे ॥
देवतास्त्वभिमानिन्यो नक्षत्राणां महीपते

1.110.1.110.40

एतावदुक्तं तव दक्षवंशमृक्षोद्भवं चाप्यथ भूमिपाल ॥
अतः परं किं कथयामि तुभ्यं तन्मे वास्वायत लोहिताक्ष

1.110.110

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० दक्षवंशवर्णनं नाम दशोत्तरशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc