विष्णुधर्मोत्तरपुराणम् · अध्याय 1.109
मार्कण्डेय उवाच ॥
आद्यमाजगवं नाम धनुर्गृह्य महायशाः ॥
दृष्ट्वा जातं पृथुं देवाः सर्व एव सवासवाः
आजग्मुः पुष्करं तीर्थमभिषेक्तुं तदा पृथुम् ॥
तं चाभिसिषिचुर्देवा रत्नचित्रवरासने
ब्रह्मा विष्णुश्च रुद्रश्च चन्द्रादित्यौ प्रभाकरौ ॥
दिशश्च विदिशश्चैव लोकपालाः सवासवाः
सर्वे देवगणाश्चैव ऋषयश्च तपोधनाः ॥
स्वं स्वं तोयमुपादाय समुद्राश्च नराधिप
सरांसि सरितः शैलाः सर्वे तीर्थवरास्तथा ॥
सोऽभिषिक्तस्तदा श्रीमान्वेनपुत्रः परन्तप
संवत्सरः कृतस्तस्य वृद्धगर्गो महायशाः ॥
स्थिता शिष्यवरा नित्यं तस्योत्पातनिरीक्षणे
पुरोहितः कृतस्तस्य याज्ञवल्क्यो महायशाः ॥
आथर्वगेन यस्तस्य सर्वान्दोषान्व्यपोहत
उशनाश्च तथा मन्त्री कृतस्तस्य महात्मनः ॥
षाड्गुण्ययोगाद्यस्तस्य सर्वान्दोषान्व्यपोहत
कमलाभरणो नाम सुप्रतीकसुतस्तदा ॥
राजहस्ती कृतस्तस्य स्वयं गर्गेण धीमता
श्रीसुतस्तुरगः श्रेष्ठः शशाङ्कसदृशच्छविः ॥
मङ्गलाश्वः कृतस्तस्य वृद्धगर्गेण पार्थिव ॥ 1.109.१ ० ॥
स्वयं देववरैस्तस्य दत्तानि मनुजाधिप ॥
छत्रं सवालव्यजनं खड्गं च वसुधाधिप
तस्य लक्षणसंयुक्तं ददुर्देवा नरेश्वर ॥
इत्येवं चाभिषिक्तस्तु पृथुर्वैन्यो महायशाः
विधिना शास्त्रदृष्टेन ब्राह्मणैर्मन्त्रपारगैः ॥
तस्य पैतामहे यज्ञे हयमेधे पुरातने
आप्तुर्यामस्य सुत्येऽह्नि सूतो जातः परन्तप ॥
सामगेष्वथ गायत्सु अध्वरे वैश्वदेविके
मागधश्च समुत्पन्नस्तस्मिन्नेव महाक्रतौ ॥
पृथोस्तवार्थं तौ देवौ चोदितावृषिभिस्तथा
ऊचतुस्तौ तदा देवानृषींश्च प्रणतौ स्थितौ ॥
कर्मभिस्तूयते सर्वः कर्म चास्य न विद्महे
कर्मणश्चात्यविज्ञानात्स्तोष्यावस्तत्कथं पृथुम् ॥
ऋषय ऊचुः॥
अस्मत्प्रभावविज्ञातौ स्तुवतामविचारतः
मार्कण्डेय उवाच॥
ऋषिभिस्तौ नियुक्तौ तु तुष्टुवाते स्वकर्मभिः॥
भविष्यत्पृथिवीपालं दिव्य ज्ञानौ परन्तप
तयोवैर्न्यस्तु सुप्रीतः पृथुः प्रादात्प्रजेश्वरः॥
अनूपदेशं सूताय मगधं मागधाय च
ततो वैन्यं महाभागं प्रजास्ताः संप्रदुद्रुवुः॥
त्वन्नो वृत्तं ददस्वेति महर्षिवचनात्तदा
सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया ॥
धनुरादाय बाणांश्च वसुधां मर्दयन्बली
ततो वैन्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही ॥
ब्रह्मलोकादिकाँल्लोकान्न च त्राणमविन्दत
सर्वत्रैव पृथुं वैन्यमात्तकार्मुकमच्युतम् ॥
ददर्श सुमहाभागं तेजसा भास्करप्रभम्
अलभन्ती तु सा त्राणं वेन्यमेवान्वपद्यत ॥
कृताञ्जलिपुटा देवी पूज्या लोकैस्त्रिभिस्तदा
उवाच वैन्यं नाधर्मं स्त्रीवधे परिपश्यसि ॥
कथं धारयिता चासि मया हीनास्त्विमाः प्रजाः
पृथुरुवाच ॥
एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा ॥
एकं जीवं बहुत्वेऽपि कामं नैवास्ति पातकम्
यस्मिंस्तु निहते भद्र एधन्ते बहवः सुखम् ॥
तस्मिन्हते नास्ति परं पातकं नोपपातकम्
सोऽहं प्रजानिमित्तं त्वां वधिष्यामि वसुन्धराम् ॥
आत्मानं प्रथयित्वा तु धारयिष्ये प्रजास्त्विमाः
वृत्युपायं न चेदासां प्रजानां त्वं विधास्यसि ॥
विधास्यसि यदा भद्रे तदा त्वं सुखमाप्स्यसि
पृथिव्युवाच ॥
प्रजानां जीवनोपायं विधास्यामि नरेश्वर ॥
विधत्स्व वत्सं धर्मज्ञ क्षरेयं येन वत्सला
समां च कुरु सर्वत्र मम धर्मभृतां वर ॥
यथा निष्यन्दमानं वै क्षीरं सर्वत्र भावयेत्
मार्कण्डेय उवाच ॥
तत उत्सारयामास शिलाजालानि सर्वतः ॥
पुथुर्वैन्यो महातेजास्तेन शैला विवर्द्धिताः
ततः प्रभृति राजेन्द्र ग्रामाश्च नगराणि च ॥
कृष्यादिकं च सकलं भुवि कर्म प्रवर्तितम्
तस्याः सस्यानि सा दुग्धा पृथुना पृथिवी क्षिता ॥
वत्सं स्वायंभुवं कृत्वा मनुं वै दक्षिणे करे
ततस्तु ऋषिभिर्दुग्धा च्छन्दःपात्रे वसुन्धरा ॥
वत्सः सोमोभवत्तेषां दोग्धा चैव बृहस्पतिः
ऊर्जं देवगणैर्दुग्धा रुक्मपात्रे वसुन्धरा ॥
वत्सस्तु मघवानासीद्दोग्धा च सविता तथा
सुधां च पितृभिर्दुग्धा रौप्यपात्रे वसुन्धरा॥
अन्तकश्चाभवद्दोग्धा वत्सो वैवस्वतो यमः
पयश्चैवायसे पात्रे दुग्धा दैत्यैर्वसुन्धरा ॥
दोग्धा गगनमूर्धा सा वत्सं कृत्वा विरोचनम्
अलाबुपात्रे सर्पैश्च विषं दुग्धा धरा तथा ॥
तेषां च वासुकिर्दोग्धा वत्सश्चासीच्च तक्षकः
अन्तर्धानं यदा यक्षे रामपात्रे वसुन्धरा ॥
दुग्धा रजतनाभेन वत्सं कृत्वा धनेश्वरम्
कपाले रुधिरं दुग्धा राक्षसैर्भीमविक्रमैः ॥
हेतिः प्रहेतिश्च तथा दोग्धा वत्सस्तथाऽभवत्॥
दुग्धा गन्धान्पद्मपात्रे गन्धर्वाप्सरसां गणैः ॥
वत्सश्चित्ररथस्तेषां दोग्धा वसुरुचिस्तथा
ओषध्यश्च तथा शैलैर्दुग्धा पात्रे शिलामये॥
वत्सस्तु हिमवानासीद्दोग्धा मेरुर्महागिरिः
पलाशपात्रे वृक्षैस्तु दुग्धा पुष्पफलं शुभम् ॥
कामधुक्च ततः सालं प्लक्षो वत्सस्तु वै स्मृतः ॥
सर्वकामदुघा दोग्ध्री पृथिवी भूतभाविनी ॥
सैषा धात्री विधात्री च जननी भावनी तथा
चराचरस्य लोकस्य प्रतिष्ठोत्पत्तिरेव च ॥
सर्वभूतहिरण्या च सर्वभूतहितैषिणी
वर्गदा मेदिनी भूमिः क्षमा क्षोणी वसुन्धरा ॥
सर्वभूतशरीरस्था सर्वानुग्रहकारिणी
मन्वन्तरेऽस्मिन्संप्राप्ते वैन्येन पृथिवीक्षिता ॥
प्रथमं वसुधा दुग्धा ततो दुग्धा यथोदितैः
दुहितृत्वं गता तस्य पृथिवी तेन चोच्यते ॥
एवंप्रभावः स पुरा पृथुरासीन्महीपतिः
पित्राऽपरञ्जितास्तस्य प्रजास्सेनानुराञ्जनाः ॥
प्रजानां रञ्जनात्तस्य नाम राजेति कीर्तितम्
राजा भोजो विराट् सम्राट् गोपतिः पार्थिवस्तथा ॥
स एवोक्तो महीनाथ शब्दैः पर्यायवाचकैः
नमस्कारस्तु कर्तव्यस्तस्य नित्यं द्विजोत्तमैः ॥
वेदकामैर्वेदविद्भिः प्रार्थयद्भिर्महद्यशः
पार्थिवैश्च महाभागैः प्रार्थयद्भिर्महद्यशः ॥
वृत्तिदाता तथा वैश्यैर्नमस्कार्यस्तथा पृथुः
शूद्रैरपि नमस्कार्यो धर्मकामैर्महीपतिः ॥
क्षेमेप्सुभिस्तथा ध्याने नमस्कार्यः पृथुर्नृपः
यो हि योधो रणे याति कीर्तयित्वा पृथुं नृपम् ॥
स घोररूपात्संग्रामात्क्षेमी भवति पार्थिव
पृथोः कृत्वा नमस्कारं सर्वत्र विजयी भवेत् ॥
तस्मात्तस्य नमस्कारः सदा कार्यो जयेप्सुना
वैन्यस्य भूपालवरस्य राजञ्छ्रुत्वाभिषेकं प्रयतो मनुष्यः ॥
पापं समग्रं विजहाति शीघ्रं जयं तथाप्नोति यशश्च लोके
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पृथ्वभिषेकादिवर्णनं नाम नवोत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0