भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.108

1.108.1

॥ वज्र उवाच ॥ ॥
दक्षस्य वंशं सकलं नक्षत्राणां च संभवम् ॥
त्वत्तोऽहं श्रोतुमिच्छामि सर्वधर्मभृतां वर

1.108.2

मार्कण्डेय उवाच ॥
औत्तानपादिर्धर्मात्मा ध्रुवः पूर्वं मयोदितः ॥
ध्रुवस्त्वजनयत्सृष्टिं महाबलपगक्रमाम्

1.108.3

तस्य प्राचीनगर्भस्तु पुत्रस्तस्याप्युदारधीः ॥
दिवंजयस्तस्य सुतस्तस्य पुत्रो रिपुः स्मृतः

1.108.4

रिपोः पुत्रस्तथा श्रीमांश्चाक्षुषः कीर्तितो मनुः ॥
ऊरुस्तस्य सुतः श्रीमानङ्गस्तस्याप्यथात्मजः

1.108.5

अत्रिर्जग्राह तं पुत्रं दत्तकं तु यशस्विने ॥
अङ्गस्य वेनः पुत्रस्तु नास्तिको धर्मवर्जितः

1.108.6

असच्छास्त्ररतो नित्यं लोकायतिकसत्तमः ॥
चकार लोके मर्यादां धर्मबाह्यो नराधिपः

1.108.7

न यष्टव्यं न होतव्यं न देयं धर्मकारणम् ॥
ऋषयस्तं समागम्य कदाचिद्वाक्यमब्रुवन्

1.108.8

ऋषय ऊचुः ॥
पूर्वप्रवृत्तां मर्यादां पूर्वैः पूर्वतरैः कृताम् ॥
लोकायतिकवाक्येन न त्वं हन्तुमिहार्हसि

1.108.9

कर्मणा सुकृतेनेह सुखं जन्तु समश्नुते ॥
दुःखं जन्तुश्च प्राप्नोति दुष्कृतेन च कर्मणा

1.108.11

ये यजन्ते सदा देवान्गुरुशुश्रूषकाश्च ये ॥
विप्रपूजारता ये च तीर्थयात्रारताश्च ये । 1.108.१० ॥
तपस्विनः सत्यरता ये च दाने सदा रताः ॥
समश्नुवन्ति भूपाल परलोके सुखानि ते

1.108.12

स त्वं सुखपरिभ्रष्टान्नृलोकान्गन्तुमर्हसि ॥
वेन उवाच ॥
भवतां किं प्रलापेन वृथैव द्विजपुङ्गवाः

1.108.13

ये मृतास्ते मृताः सर्वे मृतानां सम्भवः कुतः ॥
प्राणस्य वायुभूतस्य निष्क्रान्तस्य शरीरतः

1.108.14

भूयः शरीरग्रहणं युक्त्या नैवोपपद्यते ॥
तपांसि हायनाश्चित्राः संयमो भोगवञ्चना

1.108.15

अग्निहोत्रादिकं कर्म बालक्रीडेव लक्ष्यते ॥
ग्राम्याणां मूढचित्तानां स्रग्विणां चैव योषिताम्

1.108.16

अन्येषां चैव धनिनां धूर्तेरादि त्सुभिर्धनम् ॥
शास्त्राण्यनेकरूपाणि ग्रथितानि सहस्रशः

1.108.17

देहि नित्यं यजस्वैवं देवास्तेऽनुग्रहीकृताः ॥
धनमाप्स्यसि शत्रूंश्च विजेष्यसि सुखं च ते

1.108.18

मुग्धा एवं प्रतार्यन्ते धूर्तैर्धनजिहीर्षया ॥
यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरम्

1.108.19

भस्मीभूतस्य शान्तस्य पुनरागमनं कुतः ॥
नास्ति दत्तं हुतं चेष्टं न देवा ऋषयो न च

1.108.1.108.20

मयाप्तं भुवि राज्यं च भोगाश्चान्ये पृथग्विधाः॥
कथं प्राप्तं हि त्यक्ष्यामि भवतां वचनेन वै

1.108.21

मार्कण्डेय उवाच ॥
एतच्छ्रुत्वा वचस्तस्य वेनस्य नृपसत्तम ॥
ऋषयस्तमथोचुस्ते राजानं दुष्टचेतसम्

1.108.22

ऋषय ऊचुः ॥
नैतदौपयिकं वाक्यं ध्रुववंशोद्भवस्य ते ॥
प्रत्यक्षं कर्मणां लोके फलं पार्थिव दृश्यते

1.108.23

काङ्क्ष्यमाणाञ्जनान्पश्य भोजनाच्छादनं परम् ॥
सहस्रंभरकानन्यान्पश्य भूपाल मानवान्

1.108.24

शिबिकाभ्यस्तथैवान्यान्गच्छमानान्यथासुखम् ॥
क्षुधया च परीतांश्च शाकोच्छिष्टभुजस्तथा

1.108.28

काष्ठभारसमाक्रान्तान्परिभूतान्परैस्तथा ॥
जुगुप्सिताँस्तथा दीनान्बहुशल्यान्नराँस्तथा

1.108.26

पङ्गूनन्यान्कुब्जकांश्च कुष्ठज्वरविपीडितान् ॥
रौगैर्बहुभिराक्रान्तान्परिभूतान्परैस्तथा

1.108.27

तार्किकान्कृपणान्दीनान्व्याधिग्रस्तान्सुखच्युतान्॥
इष्टबन्धुवियोगार्तान्पश्य पापेन मानवान्

1.108.28

आरोग्यरूपसत्त्वौजोधनधान्यसमन्वितान् ॥
धर्मेण च जनान्पश्य बन्धुभृत्यसमन्वितान्

1.108.29

राजमार्गमिमं लोकास्तव कर्मानुवर्तते ॥
मार्कण्डेय उवाच ॥
ततस्तेषां वचः श्रुत्वा ऋषीणामुग्रचेतसाम्

1.108.1.108.30

हस्तेन हस्तं संघट्य प्रहसँस्तानुवाच ह ॥
वेन उवाच ॥
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा

1.108.31

नाप्नुवन्ति जना विप्राः प्राप्नुवन्ति स्वभावतः ॥
स्वभावश्च विचित्रोऽयं संसारोद्वेजकः सदा

1.108.32

नात्र पूर्वकृतं कर्म धूर्तवादो यथा द्विजाः ॥
अश्मानः कर्मणा केन सूक्ष्माश्चान्ये महत्तराः

1.108.33

विन्यस्ताः कर्मणा केन सुरार्चापापभूमिषु ॥
पाषाणार्चादिदत्तेन कथं तुष्यन्ति देवताः

1.108.34

के देशा न मया दृष्टा नापि पूर्वं पितामहः ॥
नान्यैर्जन्यैस्तथा तांश्च धूर्तवाक्यात्प्रतीमहे

1.108.35

अन्यभुक्तेन चान्यस्य तृप्तिश्चैव कथं भवेत् ॥
अन्यभुक्तेन चान्यस्य यदि तृप्तिर्भवि ष्यति

1.108.36

दद्यात्प्रवसिते श्राद्धं न स पथ्यौदनं महत् ॥
मृतस्य पक्षे दग्धस्य भस्मीभूतस्य वा पुनः

1.108.37

सर्वभावविनष्टस्य किं नु श्राद्धैः प्रयोजनम् ॥
कृपणैर्यज देहीति धनलुब्धैः प्रकीर्तितम्

1.108.38

धनिनां धननाशाय सततं स्वार्थतत्परैः ॥
धर्मे निविष्टाः पुरुषा दृश्यन्ते दुःखजीविनः

1.108.39

सुखान्विता हि दृश्यन्ते पापकर्मरतास्तथा ॥
तस्माद्धर्मेण किं कार्यं सुखं जीवेत्तु पण्डितः ॥
पुरुषार्थः परः कामो धनेन च तदाप्यते

1.108.1.108.40

ऋषय ऊचुः ॥
प्रत्यक्षमेव पश्यन्तः पूर्वजन्मनि मानवाः

1.108.41

परलोकं न पश्यन्ति पश्य देवेन वञ्चिताः ॥
जातमात्रो यथा जन्तुस्तनं गृह्णाति पार्थिव

1.108.42

पूर्वजन्मान्तराभ्यासं विना तत्कस्य चेष्टितम् ॥
प्राणेन वायुभूतेन जन्मन्यस्मिन्यथा नरः

1.108.43

करोति देहग्रहणं जन्मान्तरगतस्तथा ॥
महीविकारमश्मानः कर्मजीवविवर्जितान्

1.108.44

सूक्ष्मत्वं च महत्त्वं च तेषामीश्वरकारितम् ॥
मन्त्रेण नीयते श्राद्धं परलोकगते जने

1.108.45

दृष्टः प्रवासिनो नैव तथा मन्त्रस्य पार्थिव ॥
प्राकाम्ययुक्ता देवाश्च युक्ता लघिमना तथा

1.108.46

ज्ञानयुक्ताश्च गृह्णन्ति सर्वत्र विनिवेदितम् ॥
धर्ममासेवतां नृणां विपत्तिर्या नराधिप

1.108.47

पूर्वजन्मकृतेनेह सुकृतेन च कर्मणा ॥
सुतप्तेनेह तपसा ब्राह्मणैर्वसुधाधिप

1.108.48

शापानि दीयमानानि प्रत्यक्षं किन्न पश्यसि ॥
अमोघाशास्तथा विप्राः सुतप्ततपसो नृप

1.108.49

किन्न पश्यसि लोकेऽस्मिन्प्रत्यक्षं धर्मदर्शनम् ॥
बीजानि बीजकालेषु यैरेवाप्तानि पार्थिव

1.108.51

त एव लोके दृश्यन्ते प्रत्यक्षफलभागिनः ॥
दृष्ट्वा मन्त्रप्रभावेण विप्रकर्षणतत्परान् ॥ 1.108.५०
विषापहारं कुर्वाणान्धर्मोऽप्यस्तीति चिन्तय ॥
येषामपि वचः क्षुद्रं परलोकं न विद्यते

1.108.52

तेऽप्युद्विजन्ते पापानां तस्मात्पापं विवर्जय ॥
मार्कण्डेय उवाच ॥
एतच्छ्रुत्वा तु वचनमृषीणां भावितात्मनाम्

1.108.53

हृतोत्तरस्तदा दीनो नोत्तरं प्रत्यभाषत ॥
चिन्तयामास मनसा ब्राह्मणैर्धर्मतत्परैः

1.108.54

यदेतदुक्तं वचनं मिथ्यैतन्नात्र संशयः ॥
अभिप्रायं नरेन्द्रस्य ज्ञात्वा ब्राह्मणपुङ्गवाः ॥

1.108.55

विनष्टं मेनिरे सर्वं त्रैलोक्यं सचराचरम् ॥
एतस्मिन्नन्तरे देवैर्ब्राह्मणानां महात्मनाम्

1.108.56

बुद्धिर्निवेशिता तस्य विनाशाय दुरात्मनः ॥
सर्वेश्वरः सर्वशक्तिः सर्वदृक्सर्वसाधनः

1.108.57

प्रार्थितश्च तदा विष्णुः पृथिवीराज्यकारणात् ॥
देवा ऊचुः ॥
ध्रुववंशोद्भवं देव वेनं भूपालकिल्बिषम्

1.108.58

ब्राह्मणा घातयिष्यन्ति मन्त्रपूतैः कुशोदकैः ॥
ऊरू चास्य ततः क्षिप्रं मथिष्यन्ति समाहिताः

1.108.59

कुरुष्व संभवं तत्र लोकानां हितकाम्यया ॥
कृत्वा तु संभवं तत्र पालयस्व जगत्त्रयम्

1.108.1.108.60

आस्थाय मानुषं रूपं त्वं हि पालय तापतः ॥
एवं करिष्य इत्युक्तं देवदेवेन दक्षिण!

1.108.61

देवक्रोधेन संकुद्धा निजघ्नुर्ब्राह्मणा नृपम् ॥
मन्त्रपूतैः कुशैः सर्वैस्ततस्तस्य दुरात्मनः

1.108.62

ऊरू ममन्थुः सहसा ततोऽस्य तनयोऽभवत् ॥
ह्रस्वोऽतिमात्रं कृष्णांगो दारुणो दारुणाकृतिः

1.108.63

निषीदेति तमूचुस्ते ब्राह्मणा वेदपारगाः ॥
सर्वभूतनिषादानामृषिवाक्येन पार्थिव

1.108.64

निषादवंशकर्तारं वेनकल्मषसम्भवम् ॥
ततोऽस्य दक्षिणं पाणिं ममन्थुः सहसा द्विजाः

1.108.65

तस्मादस्य सुतो जातो विष्णुर्मानुषरूपधृक् ॥
पृथुरित्येव नामान्य चक्रुस्ते द्विजपुङ्गवाः ॥
तेन जातेन पुत्रेण वेनः पापादमुच्यत ।

1.108.66

सत्पुत्रलाभात्त्रिदिवं जगाम वेनो दुरात्मा कृतसर्वपापः ॥
दृष्ट्वापि जातमृषयः कुमारं संमेनिरे लोकमिदं कृतार्थम्

1.108.108

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पृथूद्भवो नामाष्टोत्तरशततमोध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc