भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.107

1.107.1

मार्कण्डेय उवाच ॥
पूर्वं ब्रह्मा महीपाल सिसृक्षुर्विविधाः प्रजाः ॥
अभ्ययुङ्क्त तदात्मानं तस्य युक्तस्य पार्थिव

1.107.2

ततोऽस्य जघनात्पूर्वमसुराञ्जज्ञिरे सुतान् ॥
असुः प्राणः स्मृतो विप्रैस्तजन्मानस्ततोऽसुराः

1.107.3

यथा सृष्टाः सुरास्तन्वा तां तनुं सोव्यपोहत ॥
अव्यक्तं तत्त्वबहुलं ततस्तान्सोभ्ययुञ्जत

1.107.4

ततस्तान्युञ्जमानस्य प्रियमासीत्प्रभोः किल ॥
ततो मुखात्समुत्पन्ना दिव्यतस्तस्य देवताः

1.107.5

उत्पन्ना दिव्यतस्तस्माद्देवास्तेन ततः स्मृताः ॥
धातुर्देवीति यत्प्रोक्तं क्रीडार्थं संविभाव्यते

1.107.6

तस्माद्देव्यान्तु तन्वायां जज्ञिरे तस्य देवताः ॥
देवान्दृष्ट्वा ततः सो वै तनुमन्यां प्रपद्यत

1.107.7

सत्त्वमात्रात्मिकामेव तनुं तां सोऽभ्ययुञ्जत ॥
पितेव मन्यमानस्तान्सुतान्प्रव्याध स प्रभुः

1.107.8

पितरो ह्युपपक्षाभ्यां मध्ये रात्र्यह्नयोः पुरा ॥
तस्मात्ते पितरो देवाः पितृत्वं तेषु तत्स्मृतम्

1.107.1.107.10

यया सृष्टास्तु पितरस्तनुं तां स व्यपोहत ॥
सापविद्धा तनुस्तेन सद्यः संध्या व्यजायत॥॥
तस्मादहर्देवतानां रात्रिः स्यादासुरी मता ॥
तयोर्मध्ये तु पितरः सा तनुस्तु गरीयसी

1.107.11

तस्माद्देवासुराश्चैव ऋषयो मानवास्तथा ॥
युक्तास्ते तामुपासन्ते तथा विष्णोर्यदन्तरम्

1.107.12

तस्माद्रात्र्यह्नयोः सन्धावुपासन्ते द्विजास्तु ताम् ॥
ततोऽन्यस्यां पुनर्ब्रह्मा स तन्वामुपपद्यत

1.107.13

राजसत्त्वात्मिकायां तु मनसा सोऽसृजत्प्रभुः ॥
मनसा तु ततस्तस्य प्रजानाञ्जज्ञिरे प्रजाः

1.107.14

मनसा च मनुष्यास्ते जननात्प्रथिताः प्रजाः ॥
सृष्ट्वा पुनः प्रजाः सौम्यस्यां तनुं सोऽव्यपोहत

1.107.15

सापविद्धा तनुस्तेन ज्योत्स्ना सद्यः प्रजायत ॥
तस्माद्भवन्ति संहृष्टा ज्योत्स्नाया उद्भवे प्रजाः

1.107.16

तामुत्सृज्य ततो ज्योत्स्नां ततोऽन्या प्राविशत्पुनः ॥
मूर्तिं रजस्तमासक्तां ततस्तां सोभ्ययुञ्जत

1.107.17

ततोऽन्यास्सान्धकारे तु क्षुधाविष्टाः प्रजाः सृजन् ॥
ताः सृष्ट्वा तु क्षुधाविष्टा अंगुल्या दातुमुद्यताः

1.107.18

अंभांस्येतानि रक्षाम उक्तवन्तस्तु तेषु ये ॥
राक्षसास्ते स्मृतास्तस्मात्क्षुधात्मानो निशाचराः

1.107.19

ध्रुवं क्षणोमि येम्भांसि तेषु दृष्ट्वा परस्परम् ॥
तेन ते कर्मणा यक्षा गुह्यकाः क्रूरकर्मिणः

1.107.1.107.20

रक्षणे पालने चापि धातुरेव विभाव्यते ॥
यक्ष इत्येष धातुर्वै क्षेपणे सन्निरुध्यते

1.107.21

रक्षणाद्रक्ष इत्युक्ताः क्षपणाद्यक्ष उच्यते ॥
तान्दृष्ट्वा तत्क्षणेनास्य केशाः शीर्यन्त धीमतः

1.107.22

ते शीर्णा व्युत्थिता ह्यूर्ध्वमारोहन्त ततः पुनः ॥
सर्पणात्तु स्मृताः सर्पाः पन्नत्वात्पन्नगाः स्मृताः

1.107.23

बालात्मानः स्मृता व्याला हीनत्वाच्चाहयः स्मृताः ॥
पन्नत्वात्पन्नगाश्चापि सर्पास्तेऽपायसर्पणात्

1.107.24

तेषां लयाः पृथिव्यापः सूर्याचन्द्रमसौ घनाः ॥
तस्य क्रोधोऽभवद्धूममग्निगर्भः सुदारुणः

1.107.25

स तान्सर्पान्समुत्पन्नानाविवेश विषात्मकान् ॥
सर्पान्दृष्ट्वा ततः क्रोधत्क्रोधात्मानो विनिर्ममे

1.107.26

गां धयन्तस्ततो दृष्ट्वा गन्धर्वा अग्निरेतसः ॥
धय इत्येष धातुर्वै पाने ह्येष निरुध्यते

1.107.27

पिबन्तो जज्ञिरे वाचा गन्धर्वास्तेन ते स्मृताः ॥
कर्णेन कपिला भूत्वा पिशाचाः कपिशा ह्यलम्

1.107.28

भूतत्वात्ते स्मृता भूताः पिशाचाः पिशिताशिनः ॥
अष्टासु तासु सृष्टासु देवयोनिषु स प्रभुः

1.107.29

ततः स्वच्छन्दतोऽन्यानि वयांसि वयसा सृजन् ॥
पक्षिणः स तु दृष्ट्वा वै ततः पशुगणान्सृजन्

1.107.1.107.30

मुखतोऽजाः सृजन्सो वै वक्षसश्चा वयोऽसृजत् ॥
गावश्चैवोदराद्ब्रह्मा पुनरन्याँश्च निर्ममे

1.107.31

पादतोऽश्वांस्तुरङ्गांश्च रासभान्गवयान्मृगान् ॥
उष्ट्रांश्चैव वराहांश्च श्वानानन्यांश्च जातयः

1.107.32

ओषध्यः फलमूलिन्यो रोमभिस्तस्य जज्ञिरे ॥
एवंविधौषधीः सृष्ट्वा न्ययुजत्सोऽध्वरेषु ताः

1.107.33

अस्य त्वादौ तु कल्पस्य त्रेतायुगमुखे पुरा ॥
गौरजः पुरुषोथाविरथाश्वतरगर्दभाः

1.107.34

एते ग्राम्याः स्मृताः सप्त आरण्याः सप्त चापरे ॥
महिषो गवयोष्ट्रास्तु द्विखुरः शरभो द्विपः

1.107.35

मर्कटः सप्तमस्तेषामारण्याः पशवस्तु ते ॥
गायत्रीं च ऋचं चैव त्रिवृत्स्तोमं रथन्तरम्

1.107.36

अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥
यज्ञोऽपि त्रैष्टुभं छन्दः स्तोमं पञ्चदशस्तथा

1.107.37

बृहत्साम तथोक्तं च दक्षिणात्सोऽसृजन्मुखात् ॥
सामानि जगती चैव स्तोमं सप्तदशं तथा

1.107.38

वैरूप्यमतिरात्रं च पश्चिमात्सोऽसृजन्मुखात् ॥
अथर्वमेकविंशं च त्रिष्टुब्वैराजमेव च ॥
अप्तुर्यामं च यज्ञानां चोत्तरात्सोऽसृजन्मुखात्

1.107.39

विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च

1.107.1.107.40

सृष्ट्वा चतुष्टयं पूर्वं देवर्षिपितृमानवान् ॥
ततोऽसृजत्स भूतानि स्थावराणि चराणि च

1.107.41

सृष्ट्वा यक्षपिशाचांश्च गन्धर्वाप्सरसस्तथा ॥
नरकिन्नररक्षांसि वयः पशुमृगोरगान्

1.107.42

अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् ॥
जरायुजं चाण्डजं च सस्वेदजमथोद्भिजम्

1.107.43

भूतग्रामं संकृतवान्देवदेवश्चतुर्विधम् ॥
पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः

1.107.42

रक्षांसि च पिशाचांश्च मनुष्यांश्च जरायुजाः ॥
अण्डजाः पक्षिणः सर्पानक्रान्मत्स्यांश्च कच्छपान्

1.107.45

यानि चैवं प्रकाराणि स्थावराणि चराणि च ॥
स्वेदजं दंशमशकयूकामक्षिकमत्कुणम्

1.107.46

ऊष्मणश्चोपजायन्ते यच्चान्यत्किञ्चिदीदृशम् ॥
उद्भिजास्तरवः सर्वे बीजकाण्डप्ररोहिणः

1.107.47

ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ॥
अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृता

1.107.48

पुष्पिणः फलिनश्चैव वृक्षाश्चोभयतः शुभाः ॥
प्रतानाश्चैव वल्ल्यश्च वीरुधः परिकीर्तिताः

1.107.49

गुच्छगुल्मं तु विविधं तथैव तृणजातयः ॥
बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च

1.107.1.107.50

तमसा बहुरूपेण वेष्टिताः कर्महेतुना ॥
अनुसंज्ञा भवन्त्येते सुखदुःखसमन्विताः

1.107.51

एकदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः ॥
घोरेऽस्मिन्भूतसंसारे नित्ये सततयायिनि

1.107.52

यं तु कर्मणि यस्मिन्स न्ययुङ्क्त प्रथमं प्रभुः ॥
तत्तदेव स्वयं तेजो युज्यमानः पुनःपुनः

1.107.53

हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते ॥
तद्भाविता प्रपद्यन्ते तस्मात्तत्तस्य रोचते

1.107.54

यद्यस्य सोददात्सर्गे स तत्तत्स्वयमाविशत् ॥
यथर्तुलिङ्गान्यृतवः स्वयमेव तु पर्यये

1.107.55

स्वानिस्वान्यभिपद्यन्ते तथा कर्माणि देहिनाम् ॥
लोकानां तु विशुद्ध्यर्थं मुखबाहूरुपादतः

1.107.56

ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत्॥
आस्याद्वै ब्राह्मणा जाता बाहुभ्यां क्षत्रियाः शुभाः

1.107.57

ऊरुभ्यां च विशः सृष्टाः शूद्रः पद्भ्यामजायत ॥
वर्णानामाश्रमाणां च धर्मं चक्रे पृथक्पृथक्

1.107.58

स्वधर्मे च निविष्टानां स्थानानि व्यदधात्प्रभुः ॥
ब्रह्मलोकं ब्राह्मणानां शाक्रं क्षत्त्रियजन्मनाम्

1.107.59

मारुतं च विशां स्थानं गान्धर्वं शूद्रजन्मनाम् ॥
ब्रह्मचारिव्रतस्थानां ब्रह्मलोकं प्रजापतिः

1.107.1.107.60

प्राजापत्यं गृहस्थानां यथाविहितकारिणाम् ॥
स्थानं सप्त ऋषीणां च तथैव वनवासिनाम्

1.107.61

यतीनामकृतं स्थानं यत्रेच्छागामिनां सदा ॥
कृत्वा स सूत्रसंस्थानं प्रजागर्भं तु मानसम्

1.107.62

अथासृजत्प्रजाकर्तॄन्मानसाँस्तनयान्प्रभुः ॥
धर्मं रुद्रं मनुं चैव सनकं च सनन्दनम्

1.107.63

भृगुं सनत्कुमारं च रुचिं श्रद्धां तथैव च ॥
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्

1.107.64

वसिष्ठं च महाभागं नारदं च महामुनिम् ॥
स्वभास्करान्बर्हिषदः अग्निष्वात्तांस्तथैव च

1.107.65

क्रव्यादांश्चोपहूतांश्च आज्यपांश्च सुकालिनः ॥
आद्या मूर्तिविहीनाश्च त्रयस्तेषां गणाः स्मृताः

1.107.66

चरमास्ते गणास्तेषां कथितास्तु समूर्तयः ॥
महाभूतशरीराणि सृष्टवान्स तथैव च

1.107.67

एवं कृत्वा प्रजासर्गं चांगुष्ठाद्दक्षिणात्ततः ॥
ससर्ज दक्षं भगवान्वामांगुष्ठात्तथैव च

1.107.68

ससर्ज भार्यां तस्यैव देवदेवः पितामहः ॥
तस्यां तु जनयामास दक्षो दुहितरः शुभाः

1.107.69

ददौ ताश्च स धर्मात्मा ब्रह्मपुत्रेभ्य एव च ॥
सतीं ददौ स रुद्राय रुद्रा यस्याः सुताः स्मृताः

1.107.1.107.70

असंख्येया महावीर्या हरतुल्यपराक्रमाः ॥
यैर्व्याप्तं भुवनं सर्वं सूर्यस्येव गभस्तिभिः

1.107.71

भृगवे च ददौ ख्यातिं रूपे णाप्रतिमां शुभाम् ॥
भृगुर्धाताविधातारौ जनयामास सायुधौ

1.107.72

श्रियं च जनयामास खचराँश्च तुरङ्गमान् ॥
भृगुः प्रादाच्छ्रियं देवीं राजन्नारायणस्य च

1.107.73

तस्यां संजनयामास बलोन्मादौ मदोत्कटौ ॥
मेरोः पर्वतराजस्य द्वे कन्ये भुवि विश्रुते

1.107.74

धातुर्विधातुस्ते दत्ते आयतिर्नियतिस्तथा॥
आयतिर्जनयामास प्राणं यदुकुलोद्वह

1.107.75

नियतिर्जनयामास मृकण्डुं तपसां निधिम्॥
व्यतीते सप्तमे कल्पे मृकण्डोः सुमहात्मनः॥।

1.107.76

अहं पुत्रः समुत्पन्नो मनस्विन्यां नराधिप ॥
पत्नी मरीचेस्संभूतिर्दक्षस्य तनया शुभा

1.107.77

प्रजापतिं पूर्णमासं जनयामास भामिनी ॥
पूर्णमासस्य विरजाः सुदामा तु तदात्मजः

1.107.78

लोकालोकनिविष्टस्तु लोकपालो मयेरितः ॥
पुत्रश्च पौर्णमासस्य सर्वेशो नाम चापरः

1.107.79

जनयामास पुत्रौ द्वौ स्तम्बः कश्यप एव च ॥
तयोर्गोत्रकरौ पुत्रौ ज्ञेयौ संन्यासनिश्चयौ

1.107.1.107.80

स्मृतिमङ्गिरसं प्रादाद्दक्षः पूर्वं प्रजापतिः ॥
सिनीवाली कुहू राका तथैवानुमतिः शुभा

1.107.81

तस्यां संजनयामास अग्निं च भरतं तथा ॥
भरतस्य तथा पुत्रः पर्जन्य इति विश्रुतः

1.107.82

हिरण्यरोमा पर्जन्य उदीचीं दिशमाश्रितः ॥
लोकालोकेऽवतिष्ठँस्ते लोकपालो मयेरितः

1.107.83

अनुसूयां ददौ दक्षः तथात्रेः सुमहात्मनः ॥
तस्यां स जनयामास तपोराशिकरं परम्

1.107.84

प्रीतिं दक्षः पुलस्त्याय दत्तोर्णां जननीं ददौ ॥
पुलस्त्या क्षमांम् प्रादात्कर्दमस्य तु मातरम्

1.107.85

कार्दमिः शङ्खपादश्च दक्षिणामाश्रितो दिशम् ॥
लोकालोकनिविष्टस्ते लोकपालो मयेरितः

1.107.86

दक्षश्च सन्नतिं प्रादात्क्रतवे भूरितेजसे ॥
षष्टिः पुत्रसहस्राणि वालखिल्या इति स्मृताः

1.107.87

जनयामास धर्मज्ञान्सर्वां स्तानूर्ध्वरेतसः ॥
दक्षः प्रादादर्थेवोर्णां वसिष्ठाय महात्मने

1.107.88

तस्यामस्य सुता जाताः सप्त सप्ताश्ववर्चसः ॥
रजोबाहुरूर्ध्वबाहुः पवनश्चानघश्च यः

1.107.89

सुतपाः शक्तिरित्येते वासिष्ठाः सप्त कीर्तिताः ॥
केतुमान्सुमहातेजा राजसश्च तथा सुतः

1.107.90

लोकालोकनिवासी ते प्रतीच्यां स मयेरितः ॥
स्वाहां प्रादात्स दक्षोऽपि सशरीराय वह्नये

1.107.91

दिव्यान्तरिक्षभौमानामग्नीनां जननीं प्रभुः ॥
स्वधां प्रादात्पितृभ्यस्तु मेनाया जननीं शुभाम्

1.107.1.107.90

हिमाचलाय मेनापि पितृभिः प्रतिपादिता ॥
चतुर्दशेमाः कन्याश्च दक्षो धर्माय वै ददौ

1.107.93

कीतिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ॥
बुद्धिर्लज्जा वपुः शान्तिः तुष्टिः सिद्धिश्चतुर्दश

1.107.94

कीर्तिपुत्रो यशोदेवो दर्पो लक्ष्मीसुतः स्मृतः ॥
निश्चयश्च धृतेः पुत्रो मेधापुत्रस्तथा श्रुतः

1.107.95

पुष्टिर्लाभः सुतश्चैव कामः श्रद्धासुतः स्मृतः ॥
क्रियायास्तनयो देवो मतिपुत्रस्तथा दमः

1.107.95

बुद्धेर्बोधः सुतः प्रोक्तो लज्जाया विनयः स्मृतः ॥
वपुषो व्यवसायस्तु क्षेमः शान्तिसुतस्तथा

1.107.97

तुष्टेः पुत्रस्तु सन्तोषः सुखः सिद्धेश्च भास्वरः ॥
कामस्य च रतिर्भार्या तत्पुत्रो हर्ष उच्यते

1.107.98

एवं प्रजाविवृद्ध्यर्थं दक्षो दत्त्वाऽथ कन्यकाः ॥
ईजे कदाचिद्यज्ञेन हयमेधेन पार्थिव

1.107.99

तस्य जामातरः सर्वे गता यज्ञनिमन्त्रिताः ॥
भार्याभिः सहिताः सर्वे रुद्रं देवं सतीं विना

1.107.1.107.100

रुद्रो नतिं न कुरुते भाव्यर्थविनिचोदितः ॥
कदाचिदपि दक्षश्च तेनासौ न निमन्त्रितः

1.107.101

अनाहूतापि च गता पश्चात्तत्र सती शुभा ॥
दक्षान्न लेभे पूजां सा ततः क्रुद्धा शुभानना

1.107.102

तत्याज दक्षसम्भूतां तां तनुं हिमकन्दरे ॥
विनष्टां तु सतीं श्रुत्वा देवदेवः पिनाकधृक्

1.107.103

शशाप दक्षं धर्मज्ञं मनुष्यस्त्वं भविष्यसि ॥
ध्रुवस्यान्वयसंभूतो राजा त्रैलोक्यविश्रुतः

1.107.104

तत्रापि विघ्नं कर्तास्मि यज्ञकर्मण्युपस्थिते ॥
भृगुं मरीचिमत्रिं च पुलस्त्यं पुलहं क्रतुम्

1.107.105

शशाप चैवाङ्गिरसं वसिष्ठं च महामुनिम् ॥
सतीमनुप्रवृत्तस्य दक्षस्यास्य प्रजापतेः

1.107.106

अनुवृत्तिः कृता यस्माद्भवद्भिर्धर्मकोविदैः॥
तस्माद्वैवस्वते प्राप्ते शुभे मन्वन्तरे द्विजाः

1.107.107

ब्रह्मणो यजमानस्य जन्म क्रूरमवाप्स्यथ ॥
देहत्यागे कृते राजन्सती देवी महाबला

1.107.108

उमेति विश्रुता लोके मेनायाः समपद्यत ॥
हिमाचलोऽपि तां देवीं ददौ शर्वाय पार्थिव ॥

1.107.109

तया वियुज्यते नासौ कदाचिदपि विश्रुता ॥
तस्यां तु जनयामास देवदेवोऽपि शङ्करः

1.107.1.107.110

विनायकं कुमारं च भृङ्गेशं सुमहाबलम् ॥
विघ्नानां च गणानां च पुत्रं राज्येऽभ्यषेचयत्

1.107.111

विनायकं महादेवो गजवक्त्रं मनस्विनम् ॥
देवसेनापतिं शक्रः कुमारं कृतवाँस्तदा

1.107.112

न तत्याज समीपाच्च भृंगेशं शङ्करस्तदा ॥
वैवस्वतेन्तरे प्राप्ते राजा दक्षो व्यजायत

1.107.113

ध्रुवस्यान्वयसम्भूतो महाबलपराक्रमः ॥
तत्राश्वमेधे वितते अनाहूतेन शूलिना

1.107.114

यज्ञो विध्वंसितस्तस्य वीरभद्रेण पार्थिव ॥
स दक्षो जनयामास कन्याः पार्थिवसत्तम

1.107.115

तासां च मध्यात्प्रददावष्टाविंशतिमिन्दवे ॥
देवतास्त्वभिमानिन्यो नक्षत्राणां पृथक्पृथक्

1.107.116

उक्तं हि ते ऋक्ष गणस्य जन्म शुभावहं पापभयापहं च ॥
अतः परं किं कथयामि तुभ्यं तत्त्वं वदस्वायतलोहिताक्ष

1.107.107

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० ग्रहर्क्षादिसंभवाध्यायो नाम सप्तोत्तरशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc