विष्णुधर्मोत्तरपुराणम् · अध्याय 1.106
॥ वज्र उवाच ॥
ध्रुवस्याहं द्विजश्रेष्ठ ब्राह्मणानां पृथक्पृथक् ॥
सम्भवं श्रोतुमिच्छामि नक्षत्राणां च मानद
॥ मार्कण्डेय उवाच ॥
ब्रह्मणा सृष्टिकामेन पूर्वमेव नराधिप ॥
आदित्यस्तमसां हन्ता तेजसां गोलकः कृतः
तमोमयो गोलकश्च राहुस्तेन तथा कृतः ॥
अम्मयानि तथान्यानि गोलकानि नराधिप॥।
कृतानि तेन धर्म्मज्ञ ग्रहर्क्षाणां पृथक्पृथक् ॥
ध्रुवस्थाननिविष्टाश्च तारकाश्च चतुर्दश
तेषां नामविभागं मे गदतः शृणु पार्थिव ॥
उत्तानपादस्तस्याथ विज्ञेयः सोत्तरो हनुः
यज्ञोऽधरस्तु विज्ञेयो धर्मो मूर्धानमाश्रितः ॥
हृदि नारायणः साध्यावश्विनौ पूर्वपादयोः
वरुणश्चार्यमा तस्य पश्चिमे चैव सक्थिनी ॥
शिश्नः संवत्सरस्तस्य मित्रोऽपानं समाश्रितः
पुच्छेग्निश्च महेन्द्रश्च मारीचः कश्यपो ध्रुवः ॥
धुवस्थास्नुर्ग्रहर्क्षाणाम्मेढीभूतः प्रकीर्तितः
ध्रुवेण भ्राम्यते सर्वमायत्तं त्रिदिवे ध्रुवे ॥
ध्रुवो हि भगवान्विष्णुः कालो लोकप्रकालनः
शिशुमारनिबद्धानां तारकाणां पृथक्पृथक् ॥
नामधेयानि विज्ञाय दृष्ट्वा च विमलेऽम्बरे
आयुरभ्यधिकं जीवेद्वर्षाणि तु चतुर्दश ॥
अहोरात्रकृतात्पापात्तत्क्षणादेव मुच्यते
आम्मयानां ग्रहर्क्षाणां मूर्च्छिताः सूर्यरश्मयः ॥
जनयन्ति प्रकाशत्वं नात्र कार्य्या विचारणा
स्फाटिकानि विमानानि तथा सुकृतिनां नृप ॥
नाके तारकबद्धानि अम्मयानीव यादव
ग्रहर्क्षाणि समस्तानि ध्रुवश्च भगवांस्तथा ॥
कल्पस्थायीनि राजेन्द्र नात्र कार्य्या विचारणा ॥
तेषां तदभिमानिन्यो देवता यदुनन्दन ॥
मन्वन्तरादौ जायन्ते न भवन्ति पुनःपुनः
औत्तानपादिर्धमात्मा ध्रुवस्तेष्वपि यादव ॥
स्वायम्भुवेन्तरे जातस्तिष्ठत्याभूतसंप्लवम्
तस्य ते जन्म वक्ष्यामि सर्वकल्मषनाशनम् ॥
पूर्वं ब्रह्मा महीपाल सिसृक्षुर्विविधाः प्रजाः
द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् ॥
अर्धेन नारी तस्यासीद्विराजमसृजत्प्रभुः
विराडसृजत्पुरुषं पुरुषो मनुरुच्यते ॥
यस्यैकसप्ततिगुणं मन्वन्तरमिहोच्यते
प्रियव्रतोत्तानपादौ मनोः पुत्रावुभौ स्मृतौ ॥
क्षत्रप्रवर्त्तकौ तौ तु पूर्वे मन्वन्तरे स्मृतौ
उत्तानपादपुत्रस्तु ध्रुवो विष्णुः प्रकीर्तितः ॥
निबद्धो भ्राम्यते यत्र मरुतां ज्योतिषां गणः
सप्तर्षि मण्डलं नित्यं तस्याधस्तात्प्रकीर्तितम् ॥
मरीचिश्च वसिष्ठश्च अङ्गिराश्चात्रिरेव च
पुलस्त्यः पुलहश्चैव क्रतुस्सप्तर्षयोऽमलाः ॥
वशिष्ठमाश्रिता साध्वी तेषाम्मध्यादरुन्धती
तस्याधस्ताद्भचक्रञ्च तस्याधस्ताच्छनैश्चरः ॥
तस्याधस्तात्तथा जीवस्तस्याधस्तात्कुजः स्मृतः
तस्याधस्ताद्दिनेशश्च तस्याधस्ताच्च भार्गवः ॥
तस्याधस्ताद्बुधः प्रोक्तस्तस्याधस्ताच्च चन्द्रमाः ॥
प्राग्दक्षिणगतिश्चैव ज्योतिषां चक्रमुच्यते ॥
सर्वे ग्रहाः प्राग्गतयस्तुल्यवेगाः प्रकीर्तिताः
शीघ्रत्वेनोपचर्यन्ते यथा सन्नं महीपते ॥
यथा यथा विशिष्टाश्च तथा मन्दाः प्रकीर्त्तिताः
तेषां ते सम्भवं वक्ष्ये प्राप्ते वैवस्वतेऽन्तरे ॥
तेषां जननसाहस्रैरतीतैः किं प्रयोजनम्
अनादिनिधनः श्रीमान्विष्णुर्नारायणः प्रभुः ॥
स एव देवकार्यार्थं भूत्वा द्वादशधा पुरा
अदितेर्जनयामास ह्यात्मानं कश्यपात्प्रभुः ॥
तेषां तु मध्यात्सविता आदित्यस्य च देवता
प्रोक्तं ते सवितुर्जन्म शृणु चन्द्रमसस्ततः ॥
दशभ्यश्च दिशाभ्यश्च तथात्रेः सुमहात्मनः
विष्णुरेवाभवद्राजन्पुत्र स मृगलाञ्छनः ॥
दाक्षायणी वसोर्नाम पत्नी धर्मस्य विश्रुता
जनयामास धर्मज्ञं वसुमध्ये निशाकरम् ॥
श्रीसहायस्तथा जातः सोमश्चामृतमन्थनात्
प्राकाम्येन शशाङ्कस्य जन्म तेऽभिहितं त्रिधा॥
अतः परं प्रवक्ष्यामि तव भौमस्य सम्भवम्
आसीद्दैत्यो हिरण्याक्षो महाबलपराक्रमः ॥
स वै कन्यामजनयद्विकेशी नाम नामतः
सा लेभे तस्य केशाँस्तां वै स्थाणुरकामयत् ॥
तस्यां मैथुनसक्तस्य देवेशस्य पिनाकिनः
वह्निसम्म्भवभीतेन कृतो विघ्नो ह्यथाग्निना ॥
प्रविष्टं मैथुनागारं वह्निं दृष्टवतस्तदा
क्रोधायासोद्भवः स्वेदो हरस्य समपद्यत ॥
आननस्वेदजो बिन्दुर्देवस्यामित्रघातिनः
तस्याः पपात वदने सा पपौ तत्प्रयत्नतः ॥
अन्तर्वत्न्यथ तेनासीन्न शशाक च तेजसा
मोहिता तस्य बालस्य गर्भं धारयितुं तदा॥
उत्ससर्जाथ तं गर्भं दीप्तानलसम द्युतिम्
तं दधार महीपाल धरा देवीस्वरूपिणी ॥
संस्कारमकरोच्चास्य स्वयमेव च कश्यपः
अङ्गारनिकटस्थत्वान्नाम्ना चाङ्गारकः कृतः ॥
उक्तं ते जन्म भीमस्य बुधस्यातः परं शृणु
कश्यपस्य धनुर्नाम पत्नी त्रैलोक्यविश्रुता ॥
जनयामास तनयं रजोनामेति विश्रुतम्
सोऽकामयत वै कन्यां वरुणस्य महात्मनः ॥
वारुणीमिति विख्यातां त्रैलोक्यस्यैकसुन्दरीम्
ततस्तपश्च तेजश्च बलं वीर्यं तथैव च ॥
शुल्कार्थं स ददौ तस्यै तानादाय वराङ्गना
अप्सु लीना तदा जाता पतसोग्रेण दानवः ॥
तामप्सु लीनां विज्ञाय प्रविवेशोदकं तदा
तस्याः स्पर्शोपलम्भेन द्रवीभूतः स दानवः ॥
द्रवतां समनुप्राप्तां तां विज्ञाय निशाकरः
ममन्थ सहसा तोयं पुत्रार्थी मनुजेश्वर ॥
मथ्यमाने जले तेन तदा सोमेन पार्थिव
विवेश तेजसि पयो विष्णुर्देवनमस्कृतः ॥
ततः कुमारस्सञ्जातो बुधस्तु ग्रहबोधनः
तद्दधार तदा तारा गुरुपत्नी यशस्विनी॥
यदा धारयितुं शक्ता न बालं तेजसान्वितम्
दाक्षायणी चोत्ससर्ज चन्द्रपत्नी सुतं तदा ॥
एवं जन्म बुधस्योक्तं जीवस्यातः परं शृणु
सुरूपा नाम दुहिता मारीचेस्तु प्रजापतेः ॥
दत्ता त्वङ्गिरसे सा तु रूपयौवनशालिनी
तस्यां स जनयामास देवाचार्यं बृहस्पतिम् ॥
बृहद्वाचं महाबुद्धिं वेदवेदाङ्गपारगम्
उक्तं ते जन्म जीवस्य शुक्रस्यातः परं शृणु ।
उषा नाम तथा कन्या हिरण्यकशिपोस्सुता
भृगुपत्नी विशालाक्षी सर्वलोकैकसुन्दरी ॥
जनयामास धर्मज्ञं ख्यातमौशनसं प्रभुम्
स जहाराथ योगात्मा धनं वैश्रवणस्य तु ॥
हृते वित्ते तु यक्षेशो जगाम शरणं हरम्
ततः क्रुद्धो महादेवो भार्गवं हन्तुमुद्यतः ॥
भार्गवोऽपि च योगेन प्रविवेश हरं तदा
हरोदरस्थस्तुष्टाव देवीं पर्वतनन्दिनीम् ॥
तयोक्तस्तं तु तत्याज तदा शिश्नेन शङ्करः
शुक्रस्तु नाम चैवास्य तदा चक्रे जगद्गुरुः ॥
धनेशत्वं ददौ चास्य धनेशेन सहानघ
मैत्र्यं चास्य धनेशेन तथा चक्रे त्रिलोचनः ॥
शनैश्चरस्य वक्ष्यामि जन्मातस्ते नरेश्वर
ब्रह्मणो मानसः पुत्रस्त्वष्टा नाम प्रजापतिः ॥
संज्ञां तु जनयामास कन्यां त्रैलोक्यसुन्दरीम्
तां ददौ सवितुः पत्नीं तस्यां सूर्यो महातपाः ॥
जनयामास धर्मज्ञं मनुं वैवस्वतं प्रभुम
यमं च यमुनां चैव त्रैलोक्यस्यैकपालिनीम ॥
तेषु ज्ञातेषु पुत्रेषु संज्ञा सा चारुलोचना
भर्तुस्तेजोऽतिदुर्धर्षमसहन्ती वराङ्गना ॥
सा तु च्छायां समाहूय इदं वचनमब्रवीत्
मद्रूपेण त्वया भद्रे वस्तव्यमविकारया ॥
पालनीयौ च मे पुत्रौ त्वयेमौ दुहिता च मे
एवमुक्ता ययौ देवी पितरं वरवर्णिनी ॥
पित्रा निरस्ता भर्तारं गच्छगच्छेति भाषिता
उत्तरांस्तु कुरून्गत्वा वडवारूपधारिणी ॥
चचार शाद्वलाञ्छुभ्रान्वनेषूपवनेषु च
छायायां च तथार्कोपि संज्ञेयमिति चिन्तयन् ॥
द्वौ पुत्रौ जनयामास सावर्णं तु शनैश्चरम्
वज्र उवाच ॥
कथं तामाप्तवान्संज्ञां भूय एव दिवाकरः ॥
एतन्मे संशयं ब्रूहि भृगुवंशविवर्धन
मार्कण्डेय उवाच ॥
पुत्रयोः सूतपुत्राँस्तु यथा छायानुवर्तते ॥
न तथा वर्तते देवी संज्ञासूतेषु भामिनी
ततः कदाचित्तां क्रुद्धः संततर्ज तदा यमः ॥
तं शशाप तदा च्छाया पादस्ते पततामयम्
यमः शशंस तत्सर्वं पितुः परबलार्दनः ॥
श्रुत्वा यमस्य वचनं यमं प्रोवाच भास्करः
कृमयो मांसमादाय तथा यास्यन्ति भूतलम् ॥
एवं शाम्येच्च शापस्ते त्वं च त्रातो भविष्यसि
।
एतच्छ्रुत्वा पितुर्वाक्यं चकार सुमहत्तपः ॥
आराधयामास तदा देवदेवं जनार्दनम्
तस्मात्स लेभे धर्मात्मा धर्मराजत्वमञ्जसा ॥
सूर्योऽप्यविन्दँस्तत्त्वेन पुत्रशापस्य कारणम्
क्रोधाविष्टस्तदा छायां पप्रच्छामित्रघातनः॥
शशंस तस्य सा सर्वं यथावृत्तमनिन्दिता
श्रुत्वा तु वचनं तस्यास्त्वष्टुर्वेश्मागमद्रविः ॥
न ददर्श च तत्रस्थां तां भार्यां शुभचारिणीम्
त्वष्ट्रा चाशंसितं तस्य वडवारूपधारिणी॥
असहन्ती तु तेजस्ते कुरूनावसते शुभा
भ्रमिमावेश्य देवेशं त्वष्टापि जगतां पतिम् ॥
तेजसः शातनं चक्रे देवस्य सवितुस्तदा
कीर्णे तेजसि तद्रूपं भृशं कान्ततरं स्थितम् ॥
शीर्णेन तेजसा चक्रं त्वष्टा चक्रे जगद्गुरोः
सुदर्शनमिति ख्यातं देवस्य हरिमेधसः ॥
कान्तरूपस्तु सविता हयरूपधरस्तदा
उत्तरांस्तु कुरून्गत्वा वडवारूपधारिणीम् ॥
स्वां ददर्श तदा भार्यां शीतलद्रव्यसंयुताम्
मैथुनार्थी तु तां देवो जगाम त्वरितस्तदा ॥
वेगवन्तं तु सम्प्राप्तं दृष्ट्वा तुरगमुत्तमम्
व्यचेष्टत च सा देवी परपुंसोपशङ्कया ॥
मुखे च भावयामास तां सूर्यो दीप्तदीधितिः
तस्या नासापुटौ पूर्णौ तदा शुक्रेण पार्थिव ॥
तथा तस्यास्तदा जातौ नासत्यावश्विनावुभौ
भूमौ च पतितं यच्च ताभ्यां शुक्रं विमर्दितम् ॥
तस्मात्सोश्वात्समुत्पन्नः कुमारः सूर्यसन्निभः
ततः स्वरूपमास्थाय देवदेवोऽपि भास्करः ॥
स्वरूपिणीमथादाय संज्ञां तां स्वगृहं ययौ
नासत्यौ देवभिषजौ कृतवानश्विनावुभौ ॥
ततो विमर्दनाज्जातं पुत्रं दृष्ट्वा दिवाकरः
रेवन्तेति तदा तस्य नाम चक्रे जगद्गुरुः ॥
तं च पुत्रमुवाचात्थ सूर्यो ग्रहगणेश्वरः
यस्मात्सोऽश्वात्समुत्पन्नो मत्तस्त्व द्दीप्तदीधितिः ॥
पूजामाप्स्यसि सोऽश्वेभ्यस्तस्मान्नित्यं जगत्प्रियः
ये च त्वां पूजयिष्यन्ति तेषां वृद्धिर्भविष्यति ॥
शनैश्चरस्य ते जन्म मयोक्तं नृपसत्तम
अतः परं प्रवक्ष्यामि राहोर्जन्म तथानघ ॥
दाक्षायणी सिंहिकाख्या भार्या वै कश्यपस्य तु
अकाले वरयामास भर्तारं तपसान्वितम् ॥
भगवन्पुत्रकामाहं तं प्रयच्छ ममानघ
अकालयञ्चासंक्रुद्धस्तां जगाद स कश्यपः ॥
दैत्यदानवसंकाशं पुत्र त्वं जनयिष्यसि
राहुं सा जनयामास वरदानान्महात्मनः॥
अतः परं प्रवक्ष्यामि केतोस्ते जन्म पार्थिव
प्रजानां महतीं वृद्धिं दृष्ट्वा देवः पितामहः ॥
क्षये तासां तदा चक्रे बुद्धिं बुद्धिमतां वरः
क्षयं चिन्तयतस्तस्य प्रजानां मनुजेश्वर ॥
प्रादुर्भूता ततः कन्या मृत्युर्नामेति विश्रुता
तां जगाद तदा ब्रह्मा प्रजाः संहर शोभने ॥
सा तथोक्ता तदा तेन रुरोद वरवर्णिनी
तदाश्रुबिन्दुभिर्जाता व्याधयोऽथ सहस्रशः ॥
दृष्ट्वा व्याधीन्समुत्पन्नान्संहृत्याश्रूणि भामिनी
सुदुश्चरं तपस्तेपे पुष्करारण्यमाश्रिता ॥
स्थानेषु च तथान्येषु बहून्वर्षगणाञ्छुभा
भूयो जगाद तां ब्रह्मा प्रजाः संहर शोभने ॥
मयोक्तं यत्पुरा भद्रे तत्तथा न तदन्यथा
तपसा ते वरं ग्राह्यं तदाचक्ष्व सुशोभने ॥
नृणां निमित्तं मरणे लोके यास्यति दोषतः
न कश्चिद्दोषतो मन्ता त्वां कदाचिदपि ध्रुवे ॥
एवमुक्ता तदा तेन ब्रह्मणा सा शुभानना ।१०३॥
दीर्घमुष्णं च निःश्वासं मुमोच वरवर्णिनी॥
कृष्णसर्पसमाकारस्तस्मात्केतुरजायत।१०४॥
शिखिदीप्तशिखो राजन्कालानलसमप्रभः ॥
धूमप्रभस्य तस्याथ केतुरूपस्य पार्थिव
संज्ञां चकार सर्वात्मा देवदेवः पितामहः ॥
धूमकेतुरयं नाम्ना भविष्यति जगत्त्रये
दर्शयिष्यति लोकानां तथैव च शुभाशुभम् ॥
दिव्यन्तरिक्षे भुवि चैक एषः सन्दृश्यते धूमकेतुर्महात्मा ॥
संस्थानरूपैस्तु बहुप्रकारैः शुभाशुभं दर्शयन्मानुषाणाम्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ग्रहसम्भवोनाम षडुत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0