विष्णुधर्मोत्तरपुराणम् · अध्याय 1.105
॥ मार्कण्डेय उवाच ॥ ॥
हविष्याशी ततस्तिष्ठेद्ब्रह्मचारी च तां निशाम् ॥
ग्रहशान्तिरियं प्रोक्ता मया कल्मषनाशिनी
अनावृष्ट्यां प्रयोक्तव्या वृष्टिकामेन भूभुजा ॥
अतिवृष्ट्यां प्रयोक्तव्या वृष्टिं शमयता तथा
यात्राकाले तथा कार्य्या रिपूणां क्षयमिच्छता ॥
रणकाले तथा कार्य्या संग्रामे जयमिच्छता
कर्तव्या चाभिचारार्थं शत्रूणां मनुजेश्वर ॥
पुष्टिकामैर्नरैः कार्य्या विद्याकामैस्तथैव च
लाभार्थं च तथा वैश्यैः शूद्रैर्धर्म्मफलेप्सुभिः ॥
राज्यकामेन कर्तव्या राजपुत्रेण पार्थिव
तथा वन्धनमोक्षार्थं बद्धेन च महीपते ॥
स्थानच्युतेन कर्तव्या स्थानलब्धिमथेच्छता
व्याधितेन च कर्तव्या व्याधेः प्रशममिच्छता ॥
मारके च तथा कार्या मारकक्षयमिच्छता
पराभिचारशङ्कायां ग्रहशान्तिं प्रयोजयेत् ॥
दिव्यान्तरिक्षभौमानामुत्पातानां तथोद्भवे
ग्रहाधीनां नरेन्द्राणामुच्छ्रायाः पतनानि च ॥
भावाभावौ च जगतां ग्रहायत्तौ नराधिप
ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ॥
तस्मात्सर्वप्रयत्नेन नृणां पूज्यतमा ग्रहाः
गुरुभक्तस्य दान्तस्य धर्मार्जितधनस्य च ॥
पूजकस्य ग्रहेन्द्राणां सदा सानुग्रहा ग्रहाः
मानवस्यास्वतन्त्रस्य गोब्राह्मणहितस्य च ॥
मांसभक्षणहीनस्य सदा सानुग्रहा ग्रहाः
ये भक्ताः पुण्डरीकाक्षं देवदेवं जनार्दनम् ॥
नास्ति तेषां जगत्यस्मिन्दोषो ग्रहकृतो नृणाम्
यथा बाणप्रहाराणां कवचं वारणं भवेत ॥
तथा दैवोपघातानां शान्तिर्भवति वारणम्
ग्रहयागविधिं सम्यग्यश्चाधीते नराधिप ॥
ग्रहपाकितं चैव तस्यापि न भविष्यति
अतीव विस्तरेणेयं ग्रहशांतिरुदाहृता ॥
धन्या यशस्या चायुष्या सर्वकिल्बिषनाशिनी
प्रयुञ्जतः सम्यगिमां नरेन्द्र न जातु लोके भयमस्ति किञ्चित् ॥
आरोग्यमासाद्य चिरं च जीवेत्प्राप्नोति लक्ष्मीं सकलाँश्च भोगान्
इति श्रीविष्णुधर्म्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ग्रहशान्तिफलवर्णनो नाम पञ्चाधिक शततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0