विष्णुधर्मोत्तरपुराणम् · अध्याय 1.104
॥ मार्कण्डेय उवाच ॥ ॥
एवं शान्त्यवसाने तु यजमानस्य याजकः ॥
हृदि विन्यस्य दर्भाग्रान्स्थितान्स्वे दक्षिणे करे
कुर्यात्प्रतिसराबन्धं तन्मे निगदतः शृणु ॥
बद्धप्रतिसरस्यास्य सर्वे नश्यन्तु राक्षसाः
ध्रुवस्त्वामूर्ध्वतः पातु पूर्वतः पातु भास्करः ॥
भौमो दक्षिणतः पातु पश्चात्पातु शनैश्चरः
उत्तरेण बुधः पातु केतुः पातु तथा ह्यधः ॥
पूर्वदक्षिणतः शुक्रो दक्षिणापरतस्तमः
पश्चिमोत्तरतश्चन्द्रो जीवः प्रागुत्तरेण तु ॥
उक्तसन्धिषु सर्वाणि नक्षत्राणि तवानघ
स्वांस्वां दिशमधिष्ठाय तव नित्यं दिगीश्वराः ॥
रक्षन्तु सर्वदुष्टेभ्यः शक्रवह्निपुरोगमाः
शात्रवाणां च चोराणां व्याधीनां पातकस्य च ॥
अमङ्गलानां घोराणामरिष्टानां तथैव च
दुस्स्वप्नानां च घोराणां चिन्तितानां तथा मृषा॥
वज्रेण नाशनं शक्रः करोतु बलसूदनः
दण्डेन नाशनं नित्यं विदधातु यमोन्तकः ॥
पाशेन वरुणो देवो गदया च धनेश्वरः
ग्रहसन्नाहसन्नद्धो ग्रहपञ्जरमध्यगः ॥
अदृश्यः सर्वभूतानां सर्वदुःखविवर्जितः
सर्वव्याधिविहीनश्च कालकर्णीविवर्जितः ॥
तथा त्वं भव दीर्घायुर्ग्रहेन्द्राणां प्रसादतः
रक्षन्तु ते देवगणाः समन्त्राः धर्मे मतिं चापि सदा दिशन्तु ॥
नाशं तथा शत्रुगणस्य चोग्रं भोगान्मनोज्ञान्विपुलाश्च लक्ष्मीम्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शान्त्यवसाने प्रतिसरबन्धाशीर्वादोनाम चतुरधिकशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0