भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.103

1.103.1

मार्कण्डेय उवाच ॥
ध्रुवस्थाननिविष्टानां देवतानां पृथक्पृथक् ॥
दक्षिणार्थे प्रदातव्यं सर्वेषामेव काञ्चनम्

1.103.2

रक्तां वत्सयुतां धेनुं दद्यादर्काय पार्थिव ॥
शङ्खं दद्यान्नरेन्द्रेण दक्षिणार्थं निशाभृतः

1.103.3

रक्तवर्णोह्यनड्वाँश्च दातव्यः क्षितिजस्य तु ॥
काञ्चनीं स्वां प्रतिकृतिं बालक्रीडनकानि च

1.103.4

बुधाय राजन्देयानि दक्षिणार्थे विशेषतः ॥
क्षौमं दुकूलं कार्पासवासांसि गुरवे तथा

1.103.5

सितवर्णं च तुरगं भार्गवाय प्रदापयेत् ॥
कृष्णां धेनुं सवत्सां च दद्यात्सूर्यसुताय वै

1.103.6

उष्णीषं लोहदण्डश्च दातव्यो नृप राहवे ॥
छागश्च केतवे देयं कुतपं च नराधिप

1.103.7

कृत्तिकानां तु कनकं दातव्यं भूतिमिच्छता ॥
सर्वबीजानि देयानि रोहिणीनां तथैव च

1.103.8

दोग्ध्रीं धेनुञ्चेल्वलानामनड्वाहं च राहवे ॥
आदित्याय शुभं वस्त्रं पुण्याय कनकं घृतम्

1.103.9

सार्पाय वृषभं दद्याद्रुक्मशृङ्गं महीपते ॥
पित्र्यस्य च तिलान्दद्याद्वायव्यस्य च चामरम्

1.103.1.103.10

भाग्यस्य देया गन्धाश्च आर्यम्णस्य च काञ्चनम् ॥
हस्तस्य कुञ्जरं दद्यात्कनकं वा महीपते

1.103.11

त्वाष्ट्रस्य वृषभं दद्यादैन्द्राग्नस्य नराधिप॥
वस्त्राणि चैव मैत्रस्य शाक्रस्य कनकं तथा

1.103.12

दद्यान्मूलस्य मूलानि फलानि विविधानि च ॥
आप्यस्य दधिपात्राणि शकटं वासवस्य च

1.103.13

तथा चन्दनकाष्ठञ्च वारुणस्य प्रदापयेत् ॥
अजमाजस्य दातव्यमाहिर्बुध्न्यस्य चौदनम्

1.103.14

धेनुं पौष्णस्य तुरगमाश्विनस्य तथैव च ॥
तिलधेनुञ्च याम्यस्य दद्यात्पापापनुत्तये

1.103.15

कुञ्जरं च तथैवोष्ट्रं रथं शकटमेव च ॥
हयमश्वतरं चैव नरयानं च पार्थिव

1.103.16

प्राच्यादीनां क्रमाद्दद्याद्दक्षिणाश्च नराधिप ॥
सागराणां च दातव्यं कनकं भूरिदक्षिणम्

1.103.17

नक्षत्राणां ग्रहाणाञ्च दिशाश्च मनुजेश्वर ॥
यदुक्तमत्र तद्देयं देवतानां पृथक्पृथक्

1.103.18

उक्ताभावे च दातव्या धेनुः पार्थिवसत्तम ॥
प्रत्येकस्य महाभाग शुभा कांस्योपदोहना

1.103.19

दोग्ध्री सवत्सा शीलाढ्या वस्त्ररत्नोपशोभिता ॥
रुक्मशृङ्गैः खुरै रौप्यैर्मुक्तालांगूलभूषिता

1.103.1.103.20

ततो विसर्जनं कार्यं पूर्वोक्तविधिना नृप ॥
दधिक्षीरघृतप्रायं तथा त्रिमधुरान्वितम्

1.103.21

भोजयेद्ब्राह्मणान्भक्त्या प्रत्येकस्य नराधिप ॥
यथाशक्त्या महाराज तेषां दद्याच्च दक्षिणाम् ॥
प्रयतस्ताँश्च याचेत पूजितान्प्रीणनं बुधः

1.103.22

एतावदुक्तं तव शान्तिकर्म समस्तपापप्रशमाय राजन् ॥
कर्त्तव्यमेतत्प्रयतेन शक्त्या न वित्तशाठ्येन न मायया च

1.103.103

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे दक्षिणाध्यायो नाम त्र्यधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc